View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.6 युद्धकांड - षष्ठ सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षष्ठस्सर्गः ।

लंकायांतुकृतंकर्मघोरंदृष्टवाभयावहम् ।
राक्षसेंद्रोहनुमताशक्रेणेवमहात्मना ॥ 1 ॥

अब्रवीद्राक्षसान् सर्वान्ह्रियाकिंचिदवाङ्मुखः ।
धर्षिताचप्रविष्टाचलंकादुष्प्रसहापुरी ॥ 2 ॥

तेनवानरमात्रेणदृष्टासीताचजानकी ।
प्रासादोधर्षितश्चैत्यःप्रवराराक्षसाहताः ॥ 3 ॥

आविलाचपुरीलंकासर्वाहनुमताकृता ।
किंकरिष्यामिभद्रंवोकिंवायुक्तमनंतरम् ॥ 4 ॥

उच्यतांनस्समर्थंयत्कृतंचसुकृतंभवेत् ।
मंत्रमूलंचविजयंप्रवदंतिमनस्विनः ॥ 5 ॥

तस्मद्वैरोचयेमंत्रंरामंप्रतिमहाबलाः ।
त्रिविधाःपुरुषालोकेउत्तमाधममध्यमाः ॥ 6 ॥

तेषांतुसमवेतानांगुणदोषौवदाम्यहम् ।
मंत्रिभिर्हितसंयुक्तैस्समर्थैर्मंत्रनिर्णये ॥ 7 ॥

मित्रैर्वापिसमानार्थैर्बांधवैरपिवाधिकैः ।
सहितोमंत्रियित्वायःकर्मारंभान्प्रवर्तयेत् ॥ 8 ॥

दैवेचकुरुतेयत्नंतमाहुःपुरुषोत्तमम् ।
कोऽर्थंविमृशेदेकोधर्मेप्रकुरुतेमनः ॥ 9 ॥

कःकार्याणिकुरुतेतमाहुर्मध्यमंनरम् ।
गुणदोषौवनिशिचत्य त्यक्त्यादैवव्यपाश्रयम् ॥ 10 ॥

करिष्यामीतियःकार्यमुपेक्षेत्सनराधमः ।
यथेमेपुरुषानित्यमुत्तमाधममध्यमाः ॥ 11 ॥

वंमंत्राऽहिविज्ञेयाउत्तमाधममध्यमः ।
ऐकमत्यमुपागम्यशास्त्रदृष्टेनचक्षुषा ॥ 12 ॥

मंत्रिणोयत्रनिरतास्तमाहुर्मंत्रमुत्तमम् ।
बह्व्योऽपिमतीर्गत्वामंत्रिणामर्थनिर्णये ॥ 13 ॥

पुनर्यत्रैकतांप्राप्तस्समंत्रोमध्यमस्स्मृतः ।
अन्योन्यमतिमास्थाययत्रसंप्रतिभाष्यते ॥ 14 ॥

न च ऐकमत्ये श्रेयो अस्ति मंत्रः सो अधम उच्यते ।
तस्मात् सुमंत्रितं साधु भवंतो मंत्रि सत्तमाः ॥ 15 ॥

कार्यंसंप्रतिपद्यंतामेतत्कृत्यंमतंमम ।
वानराणांहिधीराणांसहस्रैःपरिवारितः ॥ 16 ॥

रामोऽभ्येतिपुरीलंकामस्माकमुपरोधकः ।
तरिष्यतिचसुव्यक्तंराघवस्सागरंसुखम् ॥ 17 ॥

तरसायुक्तरूपेणसानुजस्सबलानुगः ।
समुद्रमुच्छोषयतिवीर्येणान्यत्करोतिवा ॥ 18 ॥

अस्मिन्नेवंगतेकार्येविरुद्धेवानरैस्सह ।
हितंपुरेचसैन्येचसर्वसम्मंत्रयतांमम ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षष्ठस्सर्गः ॥




Browse Related Categories: