View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

1.38 बालकांड - अष्टत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ अष्टत्रिंशस्सर्गः ।

तां कथां कौशिको रामे निवेद्य कुशिकात्मजः ।
पुनरेवापरं वाक्यं काकुत्स्थ मिदमब्रवीत् ॥ 1 ॥

अयोध्याधिपति श्शूरः पूर्वमासीन्नराधिपः ।
सगरो नाम धर्मात्मा प्रजाकामस्स चाप्रजः ॥ 2 ॥

वैदर्भदुहिता राम केशिनी नाम नामतः ।
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ 3 ॥

अरिष्टनेमेर्दुहिता रूपेणाप्रतिमा भुवि ।
द्वितीया सगरस्यासीत्पत्नी सुमतिसंज्ञिता ॥ 4 ॥

ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः ।
हिमवंतं समासाद्य भृगुप्रस्रवणे गिरौ ॥ 5 ॥

अथ वर्षशते पूर्णे तपसाऽराधितो मुनिः ।
सगराय वरं प्रादाद्भृगुस्सत्यवतां वरः ॥ 6 ॥

अपत्यलाभस्सुमहान् भविष्यति तवानघ ।
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥ 7 ॥

एका जनयिता तात पुत्रं वंशकरं तव ।
षष्ठिं पुत्रसहस्राणि अपरा जनयिष्यति ॥ 8 ॥

भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।
ऊचतुः परमप्रीते कृतांजलिपुटे तदा ॥ 9 ॥

एकः कस्यास्सुतो ब्रह्मन् का बहून् जनयिष्यति ।
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥ 10 ॥

तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः ।
उवाच परमां वाणीं स्वच्छंदोऽत्र विधीयताम् ॥ 11 ॥

एको वंशकरो वाऽस्तु बहवो वा महाबलाः ।
कीर्तिमंतो महोत्साहाः का वा कं वरमिच्छति ॥ 12 ॥

मुनेस्तु वचनं श्रुत्वा केशिनी रघुनंदन ।
पुत्रं वंशकरं राम जग्राह नृपसन्निधौ ॥ 13 ॥

षष्ठिं पुत्रसहस्राणि सुपर्णभगिनी तदा ।
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ 14 ॥

प्रदक्षिणमृषिं कृत्वा शिरसाऽभिप्रणम्य च ।
जगाम स्वपुरं राजा सभार्यो रघुनंदन ॥ 15 ॥

अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत ।
असमंज इति ख्यातं केशिनी सगरात्मजम् ॥ 16 ॥

सुमतिस्तु नरव्याघ्र गर्भतुंबं व्यजायत ।
षष्ठिः पुत्रसहस्राणि तुंबभेदाद्विनिःसृताः ॥ 17 ॥

घृतपूर्णेषु कुंभेषु धात्र्यस्तान् समवर्धयन् ।
कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ 18 ॥

अथ दीर्घेण कालेन रूपयौवनशालिनः ।
षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ 19 ॥

स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः ।
बालान् गृहीत्वा तु जले सरय्वा रघुनंदन ॥ 20 ॥

प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान् समीक्ष्य वै ।
एवं पापसमाचारस्सज्जनप्रतिबाधकः ॥ 21 ॥

पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ।
तस्य पुत्रोंऽशुमान्नाम असमंजस्य वीर्यवान् ॥ 22 ॥

सम्मत स्सर्वलोकस्य सर्वस्यापि प्रियंवदः ।
ततः कालेन महता मतिस्समभिजायत ॥ 23 ॥

सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ।
स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे अष्टत्रिंशस्सर्गः ॥




Browse Related Categories: