View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.52 युद्धकांड - द्विपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्विपंचाशस्सर्गः ।

धूम्राक्षंप्रेक्ष्यनिर्यांतंराक्षसंभीमविक्रमम् ।
विनेदुर्वानरास्सर्वेप्रहृष्टायुद्धकाङ् क्षिणः ॥ 1 ॥

तेषांसुतुमुलंयुद्धंसंजज्ञेकपिरक्षसाम् ।
अन्योन्यंपादपैर्घोरंनिघ्नतांशूलमुद्गरैः ॥ 2 ॥

राक्षसैर्वानराघोराविनिकृत्तस्समंततः ।
वानरैराक्षसाश्चापिद्रुमैर्भूमिसमीकृताः ॥ 3 ॥

राक्षसास्त्वभिसंक्रुद्धावानरान्निशितैश्शरैः ।
विव्यथुर्घोरसंकाशैःकंकपत्रैरजिह्मगैः ॥ 4 ॥

तेगदाभिश्चभीमाभिःपट्टसैः कूटमुद्गरैः ।
घोरैश्चपरिघैश्चित्रैस्त्रिशूलैश्चापिसंश्रितैः ॥ 5 ॥

विदार्यमाणारक्षोभिर्वानरास्तेमहाबलाः ।
अमर्षाज्जनितोद्धर्षाश्चक्रुःकर्माण्यभीतवत् ॥ 6 ॥

शरनिर्भिन्नगात्रास्तेशूलनिर्भिन्नदेहिनः ।
जगृहुस्तेद्रुमांस्तत्रशिलाश्चहरियूथपाः ॥ 7 ॥

तेभीमवेगाहरयोनर्दमानास्ततस्ततः ।
ममंथूराक्षसान्वीरान्नामानिचबभाषिरे ॥ 8 ॥

तद्भभूवाद्भुतंघोरंयुद्धंवानररक्षसाम् ।
शिलाभिर्विविधाभिश्चबहुभिश्चैवपादपैः ॥ 9 ॥

राक्षसामथिताःकेचिद्वानरैर्जितकाशिभिः ।
ववमूरुधिरंकेचिन्मुखैरुधिरभोजनाः ॥ 10 ॥

पार्श्वेषुदारिताःकेचित्केचिद्राशीकृताद्रुमैः ।
शिलाभिश्चूर्णिताःकेचित्केचिद्धंतैर्विदारिताः ॥ 11 ॥

ध्वजैर्विमथितैर्भग्नैःखंगैश्चविनिपातितैः ।
रथैर्विध्वंसितैश्चापिपतितैःरजनीचरैः ॥ 12 ॥

गजेंद्रैःपर्वताकारैःपर्वताग्रैर्वनौकसाम् ।
मथितैर्वाजिभिःकीर्णंसारोहैर्वसुधातलम् ॥ 13 ॥

वानरैर्भीमविक्रान्स्सैराप्लुत्याऽप्लुत्यवेगितैः ।
राक्षसाःकरजैस्तीक्ष्णैर्मुखेषुविनिर्तिताः ॥ 14 ॥

विषण्णवदनाभूयोविप्रकीर्णशिरोरुहाः ।
मूढाश्शोणितगंधेननिपेतुर्धरणीतले ॥ 15 ॥

अन्येतुपरमसंकृक्रुद्धाराक्षसाभीमनिश्वनाः ।
तलैरेवाभिधावंतिवज्रस्पर्शसमैर्हरीन् ॥ 16 ॥

वानरैरापतंतस्तेवेगितावेगवत्तरैः ।
मुष्टिभिश्चरणैर्दन्स्सैःपादपैश्चावपोथिता ॥ 17 ॥

सैन्यंतुविद्रुतंदृष्टवाधूम्राक्षोराक्षसर्षभः ।
रोषेणकदनंचक्रेवानराणांयुयुत्सताम् ॥ 18 ॥

प्तासैःप्रमथिताःकेचिद्वानराश्शोणितस्रवाः ।
मुद्गरैराहताःकेचित्पातिताधरणीतले ॥ 19 ॥

परिघैर्मथिताःकेचिद्भिंडिवालैर्विदारिताः ।
पट्टसैराहताः केचिद्विह्वलंतोगतासवः ॥ 20 ॥

केचिद्विनिहताश्शूलैरुधिरार्द्रावनौकसः ।
केचिद्विद्रावितानष्टाःसंक्रुद्धैराक्षसैर्युधि ॥ 21 ॥

विभिन्नहृदयाःकेचिदेकपार्श्वेनदारिताः ।
विदारितास्त्रिशूलैश्चकेचिदान्स्रैर्विनिःसृताः ॥ 22 ॥

तत्सुभीमंमहायुद्धंहरिराक्षससंकुलम् ।
प्रबभौशब्दबहुलंशिलापादपसंकुलम् ॥ 23 ॥

धनुर्ज्यातंत्रिमधुरंहिक्कातालसमन्वितम् ।
मंधसंतितसंगीतंतद्युद्धगांधर्वमाबभौ ॥ 24 ॥

धूम्राक्षस्तुधनुष्पाणिर्वानरान्रणमूर्धनि ।
हसन्विद्रावयामासदिशस्तुशरवृष्टिभिः ॥ 25 ॥

धूम्राक्षेणार्दितंसैन्यंव्यथितंप्रेक्ष्यमारुतिः ।
अभ्यवर्ततसंक्रुद्धःप्रगृह्यविपुलांशिलाम् ॥ 26 ॥

क्रोधाद् द्विद्द्विगुणताम्राक्षःपितृस्तुल्यपराक्रमः ।
शिलांतांपातयामासधूम्राक्षस्यरथंप्रति ॥ 27 ॥

आपततनींशिलांदृष्टवागदामुद्यम्यसंभ्रमात् ।
रथादाप्लुत्यवेगेनवसुधायांव्यतिष्ठत ॥ 28 ॥

साप्रमथ्यरथंतस्यनिपपातशिलाभुवि ।
सचक्रकूबरसाश्वंसध्वजंसशरासनम् ॥ 29 ॥

सभङ् क्त्वातुरथंतस्यहनुमान् मारुतात्मजः ।
रक्षसांकदनंचक्रेसस्कंधविटपैर्द्रुमैः ॥ 30 ॥

विभिन्नशिरसोभूत्वाराक्षसाश्शोणितोक्षिताः ।
द्रुमैःप्रमथिताश्चान्येनिपेतुर्धरणीतले ॥ 31 ॥

विद्राव्यराक्षसंसैन्यंहनुमान्मारुतात्मजः ।
गिरिशशिखरमादायधूम्राक्षमभिदुद्रुवे ॥ 32 ॥

तमापतंतंधूम्राक्षोगदामुद्यम्यवीर्यवान् ।
विनर्दमानःसहसाहनूमंतमभिद्रवत् ॥ 33 ॥

तस्यक्रुद्धस्यरोषेणगदांतांबहुकंटकाम् ।
पातयामासधूम्राक्षोमस्तकेऽथहनूमतः ॥ 34 ॥

ताडितःसतयातत्रगदयाभीमरूपया ।
सकपिर्मारुतबलस्तंप्रहारमचिंतयन् ॥ 35 ॥

पपात सहसा भूमौ विकीर्ण;इव पर्वतः ।
धूम्र अक्षं निहतं दृष्ट्वा हत शेषा निशा चराः ॥ 36 ॥

धूम्राक्षंनिहतंदृष्टवाहतशेषानिशाचराः ॥ 37 ॥

त्रस्ताःप्रविविशुर्लंकांवध्यमानाःप्लवंगमैः ।
सतुपवनसुतोनिहत्यशत्रून्क्षतजवहरिस्सरितश्चसन्निकीर्य ।
रिपुवधजनितश्रमोमहात्मामुदमगमत्कपिभिःसुपूज्यमानः ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्विपंचाशस्सर्गः ॥




Browse Related Categories: