View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.14 युद्धकांड - चतुर्दश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुर्दशस्सर्गः ।

निशाचरेंद्रस्यनिशम्यवाक्यंसकुंभकर्णस्यचगर्जितानि ।
विभीषणोराक्षसराजमुख्यमुवाचवाक्यंहितमर्थयुक्तम् ॥ 1 ॥

ंतरभोगराशिश्चिंताविषस्सुस्मिततीक्ष्णदंष्ट्रः ।
पंचांगुलीपंचशिरोऽतिकायस्सीतामहाहिस्तवकेनराजन् ॥ 2 ॥

यावन्नलंकांसमभिद्रवंतिवलीमुखाःपर्वतकूटमात्राः ।
दष्ट्रायुधाश्चैवनखायुधाश्चप्रदीयतांदाशरथायमैथिली ॥ 3 ॥

यावन्नगृह्णंतिशिरांसिबाणारामेरिताराक्षसपुंगवानाम् ।
वज्रोपमावायुसमानवेगाःप्रदीयतांदाशरथायमैथिली ॥ 4 ॥

नकुंभकर्णेंद्रजितौचराजंस्तथामहापार्श्वमहोदरौवा ।
निकुंभकुंभौचतथाऽतिकायःस्थातुंनशक्तायुधिराघवस्य ॥ 5 ॥

जीवंस्तु रामस्य न मोक्स्यसे त्वम् ।
गुप्तः सवित्राप्यथवा मरुद्भिः ।
न वासवस्यांकगतो न मृत्यो ।
र्नभो न पातालमनुप्रविष्टः ॥ 6 ॥

निशम्यवाक्यंतुविभीषणस्यततःप्रहस्तोवचनंबभाषे ।
ननोभयंविद्मनदैवतेभ्योनदानवेभ्योऽप्यथवाकुतश्चित् ॥ 7 ॥

नयक्षगंधर्वमहोरगेभ्योभयंनसंख्येपतगोरगेभ्यः ।
कथंनुरामाद्भविताभयंनोनरेंद्रपुत्रात्समरेकदाचित् ॥ 8 ॥

प्रहस्तवाक्यंत्वहितंनिशम्यविभीषणोराजहितानुकांक्षी ।
ततोमहार्थंवचनंबभाषेधर्मार्थकामेषुनिविष्टबुद्धिः ॥ 9 ॥

प्रहस्तः राजाचमहोदरश्चत्वंकुंभकर्णश्चयथाऽर्थजातम् ।
ब्रवीतरामंप्रतितन्नशक्यंयथागतिस्स्वर्गमधर्मबुद्धेः ॥ 10 ॥

वधस्तुरामस्यमयात्वयाचप्रहस्तसर्वैरपिराक्षसैर्वा ।
कथंभवेदर्थविशारदस्यमहार्णवंतर्तुमिवाप्लवस्य ॥ 11 ॥

धर्मप्रधानस्य महारथस्य ।
इक्स्वाकुवंशप्रभवस्य राज्ञः ।
पुरोऽस्य देवाश्च तथाविधस्य ।
कृत्येषु शक्तस्य भवंति मूढाः ॥ 12 ॥

तीक्ष्णानतायत्तवकंकपत्रादुरासदाराघवविप्रमुक्ताः ।
भित्वाशरीरंप्रविशंतिबाणाःप्रहस्ततेनैवविकत्थसेत्वम् ॥ 13 ॥

भित्त्वानतावत्प्रविशंतिकायंप्राणांतिकास्तेऽशनितुल्यवेगाः ।
शिताश्शराराघवविप्रमुक्ताःप्रहस्ततेनैवविकत्थसेत्वम् ॥ 14 ॥

नरावणोनातिबलस्त्रिशीर्षोनकुंभकर्णोऽस्यसुतोनिकुंभः ।
नचेंद्रजिद्दाशरधिंप्रसोढुंत्वंवारणेशक्रसमंसमर्थः ॥ 15 ॥

देवांतकोवापिनरांतकोवातथातिकायोऽतिरथोमहात्मा ।
आकंपनश्चाद्रिसमानसारःस्थातुंनशक्तायुधिराघवस्य ॥ 16 ॥

अयंचराजाव्यसनाभिभूतोमित्रैरमित्रप्रतिमैर्भवद्भिः ।
अन्वास्यतेराक्षसनाशनार्थेतीक्ष्णःप्रकृत्याह्यसीक्षयकारी ॥ 17 ॥

अनंतभोगेनसहस्रमूर्थ्नानागेनभीमेनमहाबलेव ।
बलात्परिक्षिप्तमिमंभवंतोराजानमुत्क्षिप्यविमोचयंतु ॥ 18 ॥

यावद्धिकेशग्रहणातसुहृद्भिः समेत्यसर्वैःपरिपूर्णकामैः ।
निगृह्यराजापरिरक्षितव्योभूतैर्यथाभीमबलैर्गृहीतः ॥ 19 ॥

सुवारिणाराघवसागरेणप्रच्छाद्यमानस्तरसाभवद्भिः ।
युक्तस्त्वयंतारयितुंसमेत्यकाकुत्स्थपातालमुखेपतन्सः ॥ 20 ॥

इदंपुरस्यास्यसराक्षसस्यराज्ञश्चपथ्यंससुहृज्जनस्य ।
सम्यग्घिवाक्यंस्वमतंब्रवीमिनरेंद्रपुत्रायददामपत्नीम् ॥ 21 ॥

परस्यवीर्यंस्वबलंचबुध्वास्थानंक्षयंचैवतथैववृद्धिम् ।
तथास्वपक्षेप्यनुमृश्यबुध्वावदेत् क्षमंस्वामिहितंसमंत्री ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुर्दशस्सर्गः ॥




Browse Related Categories: