View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

2.101 अयोध्याकांड - एकाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकाधिकशततमस्सर्गः ।

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ।
किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ 1 ॥

किं एतद् इग्च्छेयं अहं श्रोतुं प्रव्याहृतं त्वया ।
यस्मात् त्वं आगतो देशं इमं चीर जटा अजिनी ॥ 2 ॥

स समृद्धां मया सार्धमयोध्यां गच्छ राघव ।
अभिषेचयचात्मानं कुलस्यास्य भवाय नः ॥ 3 ॥

राजानं मानुषं प्राहु र्देवत्वे सम्मतो मम ।
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ 4 ॥

केकयस्थे च मयि तु त्वयि चारण्य माश्रिते ।
दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ 5 ॥

निष्क्रांतमात्रे भवति ससीते सहलक्ष्मणे ।
दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ 6 ॥

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः ।
अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ 7 ॥

प्रियेण किल दत्तं हि पितृलोकेषु राघव ।
अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥ 8 ॥

त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।
त्वया विहीन स्तव शोकमग्नस्त्वां संस्मरन्नस्तमितः पिता ते ॥ 9 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकाधिकशततमस्सर्गः ॥




Browse Related Categories: