View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.45 युद्धकांड - पंचचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचचत्वारिंशस्सर्गः ।

सतस्यगतिमन्विच्छन्राजपुत्रःप्रतापवान् ।
दिदेशातिबलोरामोदशवानरयूथपान् ॥ 1 ॥

द्वौसुषेणस्यदायादौनीलंचप्लवगर्षपम् ।
अंगदंवालिपुत्रंचशरभंचतरस्विनम् ॥ 2 ॥

विनतंजांबवंतंचसानुप्रस्थंमहाबलम् ।
ऋषभंचर्षभस्कंथमादिदेशपरंतपः ॥ 3 ॥

तेसंप्रहृष्टाहरयोभीमानुद्यम्यपादपान् ।
आकाशंविविशुस्सर्वेमार्गमाणादिशोदशः ॥ 4 ॥

तेषांवेगवतांवेगमिषुभिर्वेगवत्तरैः ।
अस्त्रवित्परमास्तैरैस्तुवारयामासरावणिः ॥ 5 ॥

तंभीममार्गमाणादिशोदशःवेगाहरयोनाराचैःक्षतविग्रहाः ।
अंधकारेनददृशुर्मेघैस्सूर्यमिवावृतम् ॥ 6 ॥

रामलक्ष्मणयोरेवसर्वदेहभिदश्शरान् ।
भृशमावेशयामासरावणिस्समितिंजयः ॥ 7 ॥

निरंतरशीरीरौतुतावुभौरामलक्ष्मणौ ।
क्रुद्धेनेंद्रजितावीरौपन्नगैश्शरतांगतैः ॥ 8 ॥

तयोःक्षतजमार्गेणसुस्रावरुधिरंबहु ।
तावुभौचप्रकाशेतेपुष्पिताविवकिंशुकौ ॥ 9 ॥

ततःपर्यंतरक्ताक्षोभिन्नांजनचयोपमः ।
रावणिर्भ्रातरौवाक्यमंतर्धानगतोऽब्रवीत् ॥ 10 ॥

युध्यमानमनालक्षयंशक्रोऽपित्रिदशेश्वरः ।
द्रष्टुमासादितुंवापिनशक्तःकिंपुनर्युवाम् ॥ 11 ॥

प्रावृताविषुजालेनराघवौकंकपत्रिणा ।
एषरोषपरीतात्मानयामियमसादनम् ॥ 12 ॥

एवमुक्त्वातुधर्मज्ञौभ्रातरौरामलक्ष्मणौ ।
निर्बिभेदशितैर्बाणैःप्रजहर्षननादच ॥ 13 ॥

भिन्नांजनचयश्यामोविष्फार्यविपुलंधनुः ।
भूयोभूयश्शरान्घोरान् विससर्जमहामृथे ॥ 14 ॥

ततोमर्मसुमर्मज्ञोमज्जयननिशितान् शरान् ।
रामलक्ष्मणयोर्वीरोननदाचमुहुर्मुहुः ॥ 15 ॥

बद्धौतुशरशब्देनतावुभौरणमूर्धनि ।
निमेषांतरमात्रेणनशेकतुदीक्षितुम् ॥ 16 ॥

ततोविभिन्नसर्वांगौशरशल्याचितावुभौ ।
ध्वजाविवमहेंद्रस्यरज्जुमुक्तौप्रकंपितौ ॥ 17 ॥

तौसंप्रचलितौवीरौमर्मभेदेनकर्शितौ ।
निपेततुर्महेष्वासौजगत्यांजगतीपती ॥ 18 ॥

तौवीरशयनेवीरौशयानौरुधिरोक्षितौ ।
शरवेष्टितसर्वांगैवार्तौपरमपीडितौ ॥ 19 ॥

न ह्य् अविद्धं तयोर् गात्रं बभूव अन्गुलं अंतरम् ।
न अनिर्भिन्नं न च अस्तब्धं आ कर अग्राद् अजिह्मगैः ॥ 20 ॥

तौतुक्रूरेणनिहतौरक्षसाकामरूपिणा ।
असृक्सुस्रुवतुस्तीव्रंजलंप्रस्रवणाविव ॥ 21 ॥

पपातप्रथमंरामोविद्धोमर्मसुमार्गणैः ।
क्रोधादिंद्रजितायेनपुराशक्रोविनिर्जितः ॥ 22 ॥

रुक्मपुंखैःप्रसन्नाग्रैरधोगतिभिराशुगैः ।
नाराचैरर्धनाराचैर्भल्लैरंजलिकैरपि ॥ 23 ॥

विव्याधवत्सदंतैश्चसिंहदंष्ट्रैःक्षुरैस्तथा ।
सवीरशयनेशिश्येविज्यमादायकार्मुकम् ॥ 24 ॥

भिन्नमुष्टिपरीणाहंत्रिणतंरुक्मभूषितम् ।
बाणपातांतरेरामंपतितंपुरुषर्षभम् ॥ 25 ॥

सतत्रलक्ष्मणोदृष्टवानिराशोजीवितेऽभवत् ।
रामंकमलपत्राक्षंशरबंधपरिक्षतम् ॥ 26 ॥

शुशोचभ्रातरंदृष्टवापतितंधरणीतले ।
हरयश्चापितंदृष्टवासंतापंपरमंगताः ॥ 27 ॥

शोकार्ताश्चुक्रशुर्घोरमश्रुपूरितलोचनाः ।
बद्धौतुवीरौपतितौशयानौतेवानरास्संपरिवार्यतस्थुः ।
समागतावायुसुतप्रमुख्याविषादमार्ताःपरमंचजग्मुः ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचचत्वारिंशस्सर्गः ॥




Browse Related Categories: