View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

1.7 बालकांड - सप्तम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ सप्तमस्सर्गः ।

. तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः ।
मंत्रज्ञाश्चेंगितज्ञाश्च नित्यं प्रियहिते रताः ॥ 1 ॥

अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ 2 ॥

धृष्टिर्जयंतो विजयस्सिद्धार्थो ह्यर्थसाधकः ।
अशोको मंत्रपालश्च सुमंत्रश्चाष्टमोऽभवत् ॥ 3 ॥

ऋत्विजौ द्वावभिमतौ तस्याऽऽस्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मंत्रिणश्च तथापरे ॥ 4 ॥

विद्याविनीता ह्रीमंतः कुशला नियतेंद्रियाः ।
श्रीमंतश्च महात्मानश्शास्त्रज्ञा दृढविक्रमाः ॥ 5 ॥

कीर्तिमंतः प्रणिहिताः यथावचनकारिणः ।
तेजः क्षमायशःप्राप्ता स्मितपूर्वाभिभाषिणः ॥ 6 ॥

क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ।
तेषामविदितं किंचित्स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ 7 ॥

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं तु ते दंडं धारयेयुस्सुतेष्वपि ॥ 8 ॥

कोशसंग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं चापि पुरुषं न विहिंस्युरदूषकम् ॥ 9 ॥

वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ 10 ॥

ब्रह्म क्षत्रमहिंसंतस्ते कोशं समपूरयन् ।
सुतीक्ष्णदंडास्संप्रेक्ष्य पुरुषस्य बलाबलम् ॥ 11 ॥

शुचीनामेकबुद्धीनां सर्वेषां संप्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ 12 ॥

कश्चिन्न दुष्टस्तत्रासीत्परदाररतो नरः ।
प्रशांतं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ॥ 13 ॥

सुवाससस्सुवेषाश्च ते च सर्वे सुशीलिनः ।
हितार्थं च नरेंद्रस्य जाग्रतो नयचक्षुषा ॥ 14 ॥

गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमे ।
विदेशेष्वपि विज्ञातास्सर्वतो बुद्धिनिश्चयात् ॥ 15 ॥

संधिविग्रहतत्त्वज्ञाः प्रकृत्या संपदान्विताः ॥ 16 ॥

मंत्रसंवरणे शक्ताश्श्लक्ष्णास्सूक्ष्मासु बुद्धिषु ।
नीतिशास्त्रविशेषज्ञास्सततं प्रियवादिनः ॥ 17 ॥

ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद्वसुंधराम् ॥ 18 ॥

अवेक्षमाणश्चारेण प्रजा धर्मेण रंजयन् ।
प्रजानां पालनं कुर्वन्नधर्मान्परिवर्जयन् ॥ 19 ॥

विश्रुतस्त्रिषु लोकेषु वदान्यस्सत्यसंगरः ।
स तत्र पुरुषव्याघ्रश्शशास पृथिवीमिमाम् ॥ 20 ॥

नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामंतः प्रतापहतकंटकः ॥ 21 ॥

स शशास जगद्राजा दिवं देवपतिर्यथा ।
तैर्मंत्रिभिर्मंत्रहिते नियुक्तै र्वृतोऽनुरक्तैः कुशलैस्समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्त स्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे सप्तमस्सर्गः ॥




Browse Related Categories: