View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3.71 अरण्यकांड - एकसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकसप्ततितमस्सर्गः ।

पुरा राम महाबाहो महाबलपराक्रम ।
रूपमासीन्ममा चिंत्यं त्रिषु लोकेषु विश्रुतम् ॥ 1 ॥

यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ।
सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ॥ 2 ॥

ऋषीन्वनगतान्राम त्रासयामि ततस्ततः ।
ततस्स्थूलशिरा नाम महर्षिः कोपितो मया ॥ 3 ॥

संचिन्वन्विविधं वन्यं रूपेणानेन धर्षितः ।
तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ॥ 4 ॥

एतदेव नृशंसं ते रूपमस्तु विगर्हितम् ।
स मया याचितः क्रुद्धश्शापस्योंतो भवेदिति ॥ 5 ॥

अभिशापकृतस्येति तेनेदं भाषितं वचः ।
यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने ॥ 6 ॥

तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ।
श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण ॥ 7 ॥

इंद्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे ।
अहं हि तपसोग्रेण पितामहमतोषयम् ॥ 8 ॥

दीर्घमायुस्स मे प्रादात्ततो मां विभ्रमोऽस्पृशत् ।
दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति ॥ 9 ॥

इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् ।
तस्य बाहुप्रयुक्तेन वज्रेण शतपर्वणा ॥ 10 ॥

सक्थिनी चैव मूर्धा च शरीरे संप्रवेशितम् ।
स मया याच्यमानस्सन्नानयद्यमसादनम् ॥ 11 ॥

पितामहवचस्सत्यं तदस्त्विति ममाब्रवीत् ।
अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः ॥ 12 ॥

वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् ।
एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ ॥ 13 ॥

प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ।
सोऽहं भुजाभ्यां दीर्घाभ्यां संकृष्यास्मिन्वने चरान् ॥ 14 ॥

सिंहव्दिपमृगव्याघ्रान् भक्षयामि समंततः ।
स तु मामब्रवीदिंद्रो यदा रामस्सलक्ष्मणः ॥ 15 ॥

छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि ।
अनेन वपुषा राम वनेऽस्मिन्राजसत्तम ॥ 16 ॥

यद्यत्पश्यामि सर्वस्य ग्रहणं साधु रोचये ।
अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति ॥ 17 ॥

इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः ।
स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव ॥ 18 ॥

शक्यो हंतुं यथातत्त्वमेवमुक्तं महर्षिणा ।
अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ ॥ 19 ॥

मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना ।
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः ॥ 20 ॥

इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ।
रावणेन हृता भार्या मम सीता यशस्स्विनी ॥ 21 ॥

निष्क्रांतस्य जनस्थानात्सहभ्रात्रा यथासुखम् ।
नाममात्रं तु जानामि न रूपं तस्य रक्षसः ॥ 22 ॥

निवासं वा प्रभावं वा वयं तस्य न विद्महे ।
शोकार्तानामनाथानामेवं विपरिधावताम् ॥ 23 ॥

कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् ।
काष्ठान्यादाय शुष्काणि काले भग्नानि कुंजरैः ॥ 24 ॥

धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते ।
स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता ॥ 25 ॥

कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः ।
एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ॥ 26 ॥

प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् ।
दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ॥ 27 ॥

यस्तां ज्ञास्यति तं वक्ष्ये दग्धस्स्वं रूपमास्थितः ।
अदग्धस्य तु विज्ञातुं शक्तिरस्ति न मे प्रभो ॥ 28 ॥

राक्षसं तं महावीर्यं सीता येन हृता तव ।
विज्ञानं हि मम भ्रष्टं शापदोषेण राघव ॥ 29 ॥

स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् ।
किं तु यावन्न यात्यस्तं सविता श्रांतवाहनः ॥ 30 ॥

तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ।
दग्धस्त्वयाहमवटे न्यायेन रघुनंधन ॥ 31 ॥

वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसम् ।
तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव ॥ 32 ॥

कल्पयिष्यति ते प्रीतस्साहाय्यं लघुविक्रमः ।
न हि तस्यास्त्यविज्ञातं त्रिषु लेकेषु राघव ॥ 33 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकसप्ततितमस्सर्गः ॥




Browse Related Categories: