श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकाशीतितमस्सर्गः ।
विज्ञायतुमनस्तस्यराघवस्यमहात्मनः ।
स निवृत्याहवात्तस्मात् प्रविवेशपुरींततः ॥ 1 ॥
सोऽनुस्मृत्यवधंतेषांराक्षसानांतरस्विनाम् ।
क्रोधताम्रेक्षणश्शूरोनिर्जगामाहाद्युतिः ॥ 2 ॥
स पश्चिमेवद्वारेणनिर्ययौराक्षसैर्वृतः ।
इंद्रजित्सुमहावीर्यःपौलस्त्योदेवकंटकः ॥ 3 ॥
इंद्रजित्तुततोदृष्टवाभ्रातरौरामलक्ष्मणौ ।
रणायाभ्युद्यतौवीरौमायांप्रादुष्करोत्तदा ॥ 4 ॥
इंद्रजित्तुरथेस्थाप्यसीतांमायामयींतदा ।
बलेनमहतावृत्यतस्यावधमरोचयत् ॥ 5 ॥
मोहनार्थंतुसर्वेषांबुद्धिंकृत्वासुदुर्मतिः ।
हंतुंसीतांव्यवसितोवानराभिमुखोययौ ॥ 6 ॥
तम्दृष्टवात्वभिनिर्यांतंसर्वेतेकाननौकसः ।
उत्पेतुरभिसंक्रुद्धाश्शिलाहस्तायुयुत्सवः ॥ 7 ॥
हनूमान् पुरतस्तेषांजगामकपिकुंजरः ।
प्रगृह्यसुमहच्छृंगंपर्वतस्यदुरासदम् ॥ 8 ॥
स ददर्शहतानंदांसीतामिंद्रजितोरथे ।
एकवेणीधरांदीनामुपवासकृशाननाम् ॥ 9 ॥
परिक्लिष्टैकवसनाममृजांराघवप्रियाम् ।
रजोमलाभ्यामालिप्तैस्सर्वगात्रैर्वरस्त्रियम् ॥ 10 ॥
तांनिरीक्ष्यमुहूर्तंतुमैथिलीत्यध्यवस्यतु ।
बभूवाचिरदृष्टाहितेनसाजनकात्मजा ॥ 11 ॥
अब्रवीत्तांतुशोकार्तांनिरानंदांतपस्विनीम् ।
दृष्टवारथोस्थितांदृष्ट्वाराक्षसेंद्रसुतश्रिताम् ॥ 12 ॥
कंसमर्थितमस्येतिचिंतयन्समहाकपिः ।
सहतैर्वानरश्रेष्ठैरभ्यधावतरावणिम् ॥ 13 ॥
तद्वानरबलंदृष्टवारावणिःक्रोधमूर्छितः ।
कृत्वाविकोशंनिस्त्रिंशंमूर्ध्निसीतामकर्षयत् ॥ 14 ॥
तांस्त्रियंपश्यतांतेषांताडयामासरावणिः ।
क्रोशंतींरामरामेतिमाययायोजितांरथे ॥ 15 ॥
गृहीतमूर्धजांदृष्टवाहनुमान् दैन्यमागतः ।
शोकजंवारिनेत्राभ्यामुत्सृजन्मारुतात्मजः ॥ 16 ॥
तांदृष्टवाचारुसर्वांगींरामस्यमहिषींप्रियाम् ।
अब्रवीत्पुरुषंवाक्यंक्रोधाद्रक्षोधिपात्मजम् ॥ 17 ॥
दुरात्मन्नात्मनाशायकेशपक्षेपरामृशः ।
ब्रह्मर्षीणांकुलेजातोराक्षसींयोनिमाश्रितः ॥ 18 ॥
धिक्त्वांपापसमाचारंयस्यतेमतिरिदृशी ।
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ॥ 19 ॥
अनार्यस्येदृशंकर्मघृणातेनास्तिनिर्घृण ।
च्युतागृहाच्चराज्याच्चरामहस्ताच्चमैथिली ॥ 20 ॥
किंतवैषापराद्धाहियदेनांहंतुमिच्छसि ।
सीतांहत्वातु न चिरंजीविष्यसिकथंचन ॥ 21 ॥
वधार्हकर्मणानेनममहस्तगतोह्यसि ।
येच स्त्रीघातिनांलोकालोकवध्यैषुकुसतिताः ॥ 22 ॥
इहजीवितमुत्सृज्यप्रेत्यतान्प्रतिपत्स्यसे ।
तिब्रुवाणोहनुमान् सायुधैर्हरिभिर्वृतः ॥ 23 ॥
अभ्यदावत् ससुंकृद्धोराक्षसेंद्रसुतंप्रति ।
पतंतंमहावीर्यंतदनीकंवनौकसाम् ॥ 24 ॥
रक्षसांभीमकोपानामनीकंतुन्यवारयत् ।
सःतांबाणसहस्रेणविक्षोभ्यहरिवाहिनीम् ॥ 25 ॥
हनूमंतंहरिश्रेष्ठमिंद्रजित् प्रत्युवाच ह ।
सुग्रीवस्त्वं च रामश्चयन्निमित्तमिहागताः ॥ 26 ॥
तांवधिष्यामिवैदेहीमद्यैवतवपश्यतः ।
इमांहत्वाततोरामंलक्ष्मणंत्वां च वानर ॥ 27 ॥
सुग्रीवं च वधिष्यामितंचानार्यंविभीषणम् ।
न हंतव्याःस्त्रियश्चेतियद् ब्रवीषिप्लवंगम ॥ 28 ॥
पीडाकरममित्राणांयत्स्यात्कर्तव्यमेवतत् ।
तमेवमुक्त्वारुदतींसीतांमयामयीं च ताम् ॥ 29 ॥
शितधारेणखंगेननिजघानेंद्रजित्स्वयम् ।
यज्ञोपवीतमार्गेणभिन्नातेनतपस्विनी ॥ 30 ॥
सापृथिव्यांपृथुश्रोणीपपातप्रियदर्शना ।
त्तामिंद्रजित् स्त्रियंहत्वाहनूमंतमुवाच ह ॥ 31 ॥
मयारामस्यपश्येमांकोपेन च ।
एषाविशस्तावैदेहीनिष्फलोवःपरिश्रमः ॥ 32 ॥
ततःखडगेनमहताहत्वातामिंद्रजित् स्वयम् ।
हृष्टस्सरथमास्थायननाद च महास्वनम् ॥ 33 ॥
वानराश्शुश्रुवुश्शब्दमदूरेप्रत्यवस्थिताः ।
व्यादितास्यस्यनदतस्तद्दुर्गंसंश्रितस्यतु ॥ 34 ॥
तथातुसीतांविनिहत्यदुर्मतिःप्रहृष्टचेतास्सबभूवरावणिः ।
तंहृष्टरूपंसमुदीक्ष्यवानराविषण्णरूपास्सहसाप्रददुद्रुवुः ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकाशीतितमस्सर्गः ॥