View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

1.23 बालकांड - त्रयोविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ त्रयोविंशस्सर्गः ।

प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ॥ 1 ॥

कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ 2 ॥

तस्यर्षेः परमोदारं वचश्श्रुत्वा नृपात्मजौ ।
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥ 3 ॥

कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।
अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतुः ॥ 4 ॥

तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।
ददृशाते ततस्तत्र सरय्वास्संगमे शुभे ॥ 5 ॥

तत्राश्रमपदं पुण्यमृषीणामग्य्रतेजसाम् ।
बहुवर्षसहस्राणि तप्यतां परमं तपः ॥ 6 ॥

तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।
ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥ 7 ॥

कस्यायमाश्रमः पुण्यः कोन्वस्मिन्वसते पुमान् ।
भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥ 8 ॥

तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुंगवः ।
अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥ 9 ॥

कंदर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः ।
तपस्यंतमिह स्थाणुं नियमेन समाहितम् ॥ 10 ॥

कृतोद्वाहं तु देवेशं गच्छंतं समरुद्गगणम् ।
धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥ 11 ॥

अवदग्धस्य रौद्रेण चक्षुषा रघुनंदन ।
व्यशीर्यंत शरीरात्स्वात्सर्वगात्राणि दुर्मतेः ॥ 12 ॥

तस्य गात्रं हतं तत्र निर्दग्थस्य महात्मना ।
अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि ॥ 13 ॥

अनंग इति विख्यातस्तदाप्रभृति राघव ।
स चांगविषयश्श्रीमान्यत्रांगं प्रमुमोच ह ॥ 14 ॥

तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।
शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते ॥ 15 ॥

इहाद्य रजनीं राम वसेम शुभदर्शन ।
पुण्ययोस्सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥ 16 ॥

अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।
स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ॥ 17 ॥

तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ।
विज्ञाय परमप्रीता मुनयो हर्षमागमन् ॥ 18 ॥

अर्घ्यं पाद्यं तथाऽतिथ्यं निवेद्य कुशिकात्मजे ।
रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥ 19 ॥

सत्कारं समनुप्राप्य कथाभिरभिरंजयन् ।
यथार्हमजपन् संध्यामृषयस्ते समाहिताः ॥ 20 ॥

तत्र वासिभिरानीता मुनिभिस्सुव्रतैः सह ।
न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा ॥ 21 ॥

कथाभिरभिरामाभिरभिरामौ नृपात्मजौ ।
रमयामास धर्मात्मा कौशिको मुनिपुंगवः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे त्रयोविंशस्सर्गः ॥




Browse Related Categories: