View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

5.39 सुंदरकांड - एकोनचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ एकोनचत्वारिंशस्सर्गः ।

मणिं दत्त्वा ततः सीता हनूमंतमथाब्रवीत् ।
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ॥ 1 ॥

मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।
वीरो जनन्या मम च राज्ञो दशरथस्य च ॥ 2 ॥

स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।
अस्मिन्कार्यसमारंभे प्रचिंतय यदुत्तरम् ॥ 3 ॥

त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।
हनुमन्यत्नमास्थाय दुःखक्षयकरो भव ॥ 4 ॥

तस्य चिंतयतो यत्नो दुःखक्षयकरो भवेत् ।
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ॥ 5 ॥

शिरसा वंध्य वैदेहीं गमनायोपचक्रमे ।
ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ॥ 6 ॥

बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।
कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ ॥ 7 ॥

सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान् ।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ 8 ॥

यथा स च महाबाहुर्मां तारयति राघवः ।
अस्माद्धुःखांबुसंरोधात्त्वं समाधातुमर्हसि ॥ 9 ॥

जीवंतीं मां यथा रामः संभावयति कीर्तिमान् ।
तत्तथा हनुमन्वाच्यं वाचा धर्ममवाप्नुहि ॥ 10 ॥

नित्यमुत्साहयुक्ताश्च वाचश्रुत्वा त्वयेरिताः ।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥ 11 ॥

मत्संदेशयुता वाचस्त्वत्तश्श्रुत्वा च राघवः ।
पराक्रमविधिं वीरो विधिवत्संविधास्यति ॥ 12 ॥

सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः ।
शिरस्यंजलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ 13 ॥

क्षिप्रमेष्यति काकुत्स्थो हार्यृक्षप्रवरैर्वृतः ।
यस्ते युधि विजित्यारीन्शोकं व्यपनयिष्यति ॥ 14 ॥

न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।
यस्तस्य क्षिपतो बाणान्स्थातुमुत्सहतेऽग्रतः ॥ 15 ॥

अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।
स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ 16 ॥

स हि सागरपर्यंतां महीं शासितुमीहति ।
त्वन्निमित्तो हि रामस्य जयो जनकनंदिनि ॥ 17 ॥

तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् ।
जानकी बहुमेनेऽथ वचनं चेदमब्रवीत् ॥ 18 ॥

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥ 19 ॥

यदि वा मन्यसे वीर वसैकाहमरिंदम ।
कस्मिंश्चित्संवृते देशे विश्रांतःश्वो गमिष्यसि ॥ 20 ॥

मम चेदल्पभाग्याया सान्निध्यात्तव वानर ।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥ 21 ॥

गते हि हरिशार्दूल पुनरागमनाय तु ।
प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥ 22 ॥

तवादर्शनजः शोको भूयो मां परितापयेत् ।
दुःखाद्धुःखपरामृष्टां दीपयन्निव वानर ॥ 23 ॥

अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः ।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वरः ॥ 24 ॥

कथं नु खलु दुष्पारं तरिष्यंति महोदधिम् ।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ 25 ॥

त्रयाणामेव भूतानां सागरस्यास्य लंघने ।
शक्तिस्स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ 26 ॥

तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे ।
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥ 27 ॥

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥ 28 ॥

बलैस्समग्रैर्यदि मां रावणं जित्य संयुगे ।
विजयी स्वपुरं यायात्तत्तस्य सदृशं भवेत् ॥ 29 ॥

शरैस्तु संकुलां कृत्वा लंकां परबलार्दनः ।
मां नयेद्यदि काकुत्स्थः तत्तस्य सदृशं भवेत् ॥ 30 ॥

तद्यथा तस्य विक्रांतमनुरूपं महात्मनः ।
भवेदाहवशूरस्य तथा त्वमुपपादय ॥ 31 ॥

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्य हनुमान्शेषं वाक्यमुत्तरमब्रवीत् ॥ 32 ॥

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
सुग्रीवस्सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ॥ 33 ॥

स वानरसहस्राणां कोटीभिरभिसंवृतः ।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ॥ 34 ॥

तस्य विक्रमसंपन्नास्सत्त्ववंतो महाबलाः ।
मनस्संकल्पसंपाता निदेशे हरयः स्थिताः ॥ 35 ॥

येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ।
न च कर्मसु सीदंति महत्स्वमिततेजसः ॥ 36 ॥

असकृत्तैर्महोत्साहैस्ससागरधराधरा ।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ 37 ॥

मद्विशिष्टाश्च तुल्याश्च संति तत्र वनौकसः ।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ 38 ॥

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।
न हि प्रकृष्टाः प्रेष्यंते प्रेष्यंते हीतरे जनाः ॥ 39 ॥

तदलं परितापेन देवि शोको व्यपैतु ते ।
एकोत्पातेन ते लंकामेष्यंति हरियूथपाः ॥ 40 ॥

मम पृष्ठगतौ तौ च चंद्रसूर्याविवोदितौ ।
त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ॥ 41 ॥

ततो वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।
आगम्य नगरीं लंकां सायकैर्विधमिष्यतः ॥ 42 ॥

सगणं रावणं हत्त्वा राघवो रघुनंदनः ।
त्वामादाय वरारोहे स्वपुरीं प्रतियास्यति ॥ 43 ॥

तदाश्वसिहि भद्रं ते भव त्वं कालकांक्षिणी ।
नचिराद्द्रक्ष्यसे रामं प्रज्वलंतमिवानलम् ॥ 44 ॥

निहते राक्षसेंद्रेऽस्मिन्सपुत्रामात्यबांधवे ।
त्वं समेष्वसि रामेण शशांकेनेव रोहिणी ॥ 45 ॥

क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।
रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥ 46 ॥

एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ॥ 47 ॥

तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुष्पाणिं लंकाद्वारमुपागतम् ॥ 48 ॥

नखदंष्ट्रायुधान्वीरान्सिम्हशार्दूलविक्रमान् ।
वानरान्वारणेंद्राभान्क्षिप्रं द्रक्ष्यसि संगतान् ॥ 49 ॥

शैलांबुदनिकाशानां लंकामलयसानुषु ।
नर्दतां कपिमुख्यानामार्ये यूधान्यनेकशः ॥ 50 ॥

स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।
न शर्म लभते रामस्सिंहार्धित इव द्विपः ॥ 51 ॥

मा रुदो देवि शोकेन माभूत्ते मनसोऽप्रियम् ।
शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ॥ 52 ॥

रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः ।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥ 53 ॥

नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे ।
न ते चिरादामगमनं प्रियस्य क्षमस्व मत्संगमकालमात्रम् ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे एकोनचत्वारिंशस्सर्गः ॥




Browse Related Categories: