View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.102 युद्धकांड - द्वाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्वाधिकशततमस्सर्गः ।

शक्त्याविनिहतंदृष्टवारावणेनबलीयसा ।
लक्ष्मणंसमरेशूरंरूधिरौघपरिप्लुतम् ॥ 1 ॥

स दत्त्वातुमुलंयुद्धंरावणस्यदुरात्मनः ।
विसृजन्नेवबाणौघान् सुषेणमिदमब्रवीत् ॥ 2 ॥

एषरावणवीर्येणलक्ष्मणःपतितोभुविः ।
सर्पवच्चेष्टतेवीरोभूमौशोकमुदिरीयन् ॥ 3 ॥

शोणितार्द्रमिमंवीरंप्राणैःप्रियतरंमम ।
पश्यतोममकाशक्तिर्योद्धुंपर्याकुलात्मनः ॥ 4 ॥

अ यं स समरश्लाघीभ्रातामेशुभलक्षणः ।
यदिपंचत्वमापन्नःप्राणैर्मेकिंसुखेनवा ॥ 5 ॥

लज्जतीवहिवीर्यंभ्रश्यतीवकराद्धनुः ।
सायकाव्यवसीदंतिदृष्टिर्भाष्पवशंगता ॥ 6 ॥

अवसीदंतिगात्राणिस्वप्नयानेनृणामिव ।
चिंतामेवर्ततेतीव्रामुमूर्षापि च जायते ॥ 7 ॥

भ्रातरंनिहतंदृष्टवारावणेनदुरात्मना ।
विष्टनंतंतुदुःखार्तंमर्मण्यभिहतंभृशम् ॥ 8 ॥

राघवोभ्रातरंदृष्टवाप्रियंप्राणंबहिश्चरम् ।
दुःखेनमहताविष्टोध्यानशोकपरायणः ॥ 9 ॥

परंविषादमापन्नोविललापाकुलेंद्रियः ।
भ्रातरंनिहतंदृष्टवालक्ष्मणंरणपांसुषु ॥ 10 ॥

विजयोऽपिहिमेशूर न प्रियायोपकल्पते ।
अचक्षुर्विषयश्चंद्रःकांप्रीतिंजनयिष्यति ॥ 11 ॥

किंमेयुद्धेनकिंप्राणैर्युद्धकार्यं न विद्यते ।
यत्रायंनिहतश्शेतेरणमूर्धनिलक्ष्मणः ॥ 12 ॥

यथैवमांवनंयांतमनुयातिमहाद्युतिः ।
अहमप्युपयास्यामितथैवैनंयमक्षयम् ॥ 13 ॥

इष्टबंधुजनोनित्यंमां स नित्यमनुव्रतः ।
इमामवस्थांगमितोराक्षसैःकूटयोधिभिः ॥ 14 ॥

देशेदेशेकलत्राणिदेशेदेशे च बांदवाः ।
तंतुदेशं न पश्यामियत्रभ्रातासहोदरः ॥ 15 ॥

इत्येवंविलपंतंतंशोकविह्वलितेद्रनियम् ।
विवेष्टमानंकरुणमच्छवसंतंपुनःपुनः ॥ 16 ॥

राममाश्वासयनवीरसुषेनोवाक्यमब्रवीत किनुराज्येनदुर्धर्षलक्ष्मणेनविनामम ।
कथंवक्ष्याम्यहंत्वंबांसुमित्रांपुत्रवत्सलाम् ॥ 17 ॥

न मृथोयंमहाबाहो लक्ष्मणोलक्षमिवर्धनः ।
न चास्यविक्रतंवक्त्रानापिशस्वासं न निष्प्रभम् ॥ 18 ॥

सुप्रभंसुप्रसन्नं च मुखमस्यनिरीक्ष्यताम् ॥ 19 ॥

पद्मपत्रतलौहस्तौसुप्रसन्ने च लोचने ।
ऐ वं न विद्यतेरूपंगतासूनांविशंपते ॥ 20 ॥

माविषादंमृकृथावीरसप्राणोऽयमरिंदम ।
आ ख्यासतितुप्रसुप्तस्यस्रस्तगात्रस्यभूतले ॥ 21 ॥

सोच्छवासंहृदयंवीरकंपमानंमुहुर्मुहुः ।
एवमुक्त्वामहाप्राज्ञःसुषेणोराघवंवचः ॥ 22 ॥

समीपस्थमुवाचेदंहनूमंतंमहाकपिम् ।
सौम्य शीघ्रमितोगत्वाशैलमौषधिपर्वतम् ॥ 23 ॥

पूर्वंतुकथितोयोऽसौवीर जांबवताशुभः ।
दक्षिणेशिखरेजातामोषधिमानय ॥ 24 ॥

सवर्णकरणींनाम्नासावर्ण्यकरणींतथा ।
संजीवकरणींवीरसंधानीं च महौषधीम् ॥ 25 ॥

संजीवनार्धंवीरस्यलक्ष्मणस्यमहात्मनः ।
इत्येवमुक्तोहनुमान्गत्वाचौषथिपर्वतम् ॥ 26 ॥

चिंतामभ्यगमछ्रचीमानजानं स्ता महौषधीः ।
तस्यबुद्धिः समुत्पन्नामारुतेरमितौजसः ॥ 27 ॥

इदमेवगमिष्यामिगृहीत्वाशिखरंगिरेः ।
अस्मिंस्तुशिखरेजातामोषधिंतांसुखावहाम् ॥ 28 ॥

प्रतर्केणावगच्छामिसुषेणोह्यवमब्रवीत् ।
अगृह्ययदिगच्छामिविशल्यकरणीमहम् ॥ 29 ॥

कालात्ययेनदोषःस्याद्वैक्लब्यं च महद्भवेत् ।
इतिसंचिंत्यहनूमान्गत्वाक्षिप्रंमहाबलः ॥ 30 ॥

आसाद्यपर्वतश्रेष्ठंप्रक्रम्यगिरेश्शिरः ।
फुल्लनानातरुगणंसमुत्पाट्यमहाबलः ॥ 31 ॥

गृहीत्वाहरिशार्दूलोहस्ताभ्यांसमतोलयत् ।
सनीलमिवजीमूतंतोयपूर्णंनभस्तलात् ॥ 32 ॥

उत्पपातगृहीत्वातुहनूमान् शिखरंगिरेः ।
समागम्यमहावेगःसंन्यस्यशिखरंगिरेः ॥ 33 ॥

विश्रम्यकिंचिद्धनुमान्सुषेणमिदमब्रवीत् ।
ओषधीर्नावगच्छामिताअहंहरिपुंगव ॥ 34 ॥

तदिदंशिखरंकृत्स्नंगिरेस्तस्याहृतंमया ।
एवंकथयमानंतुप्रशस्यपवनात्मजम् ॥ 35 ॥

सुषेणोवानरश्रेष्ठोजग्राहोत्पाट्यचौषधीः ।
विस्मितास्तुबभूवुस्तेसर्वेवानरपुंगवाः ॥ 36 ॥

दृष्टवाहनूमतःकर्मसुरैरपिसुदुष्करम् ।
ततःसंक्षोदयित्वातामोषधिंवानरोत्तमः ॥ 37 ॥

लक्ष्मणस्यददौनस्तस्सुषेणस्सुमहाद्युतिः ।
विशल्यस्ससमाघ्रायलक्ष्मणःपरवीरहा ॥ 38 ॥

विशल्योविरुजश्शीघ्रमुदतिष्ठन्महीतलात् ।
तमुत्थितंतुहरयोभूतलात्प्रेक्ष्यलक्ष्मणम् ॥ 39 ॥

साधुसावधितिसुप्रीतालक्ष्मणंप्रत्यपूजयन् ।
एह्येहीत्यब्रवीद्रामोलक्ष्मणंपरवीरहा ॥ 40 ॥

सस्वजेस्नेहगाढं च बाष्पपर्याकुलेक्षणः ।
ब्रवीच्छपरिष्वज्यसौमित्रिंराघवस्तदा ॥ 41 ॥

दिष्ट्यात्वांवीरपश्यामिमरणात्पुनरागतम् ।
न हिमेजीवितेनार्थस्सीतयाविजयनेवा ॥ 42 ॥

कोहिमेवदतेनार्धस्त्वयिपंचत्वमागते ।
इत्येवंवदतस्तस्यराघवस्यमहात्मनः ॥ 43 ॥

भिन्नश्शिथिलयावाचालक्ष्मणोवाक्यमब्रवीत् ।
तांप्रतिज्ञांप्रतिज्ञायपुरासत्यपराक्रम ॥ 44 ॥

लघुःकश्चिदिवासत्त्वोनैवंवक्तुमिहार्हसि ।
न हिप्रतिज्ञांकुर्वंतिवितथांसत्यवादिनः ॥ 45 ॥

लक्षणंहिमहत्त्वस्यप्रतिज्ञापरिपालनम् ।
नैराश्यमुपगंतुं च नालंतेमत्कृतेऽनघ ॥ 46 ॥

वधेनरावणस्याद्यप्रतिज्ञामनुपालय ।
नजीवन्यास्यतेशत्रुस्तवबाणपथंगतः ॥ 47 ॥

नर्दतस्तीक्षणदंष्ट्रस्यसिंहस्येवमहागजः ।
अहंतुवधमिच्छामिशीघ्रमस्यदुरात्मनः ॥ 48 ॥

यावदस्तं न यात्येषकृतकर्मादिवाकरः ।
यदिवधमिच्छसिरावणस्यसंख्येयदि च कृतांहितवेच्छसिप्रतिज्ञाम् ।
यदितवराजसुताभिलाषआर्यकुरु च वचोममशीघ्रमद्यवीर ॥ 49 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्वाधिकशततमस्सर्गः ॥




Browse Related Categories: