View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

2.107 अयोध्याकांड - सप्ताधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्ताधिकशततमस्सर्गः ।

पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः ।
प्रत्युवाच तत श्श्रीमान् ज्ञातिमध्येऽभिसत्कृतः ॥ 1 ॥

उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः ।
जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात् ॥ 2 ॥

पुरा भ्रातः पिता न स्स मातरं ते समुद्वहन् ।
मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ 3 ॥

दैवासुरे च संग्रामे जनन्यै तव पार्थिवः ।
संप्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ 4 ॥

ततस्सा संप्रतिश्राव्य तव माता यशस्विनी ।
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ 5 ॥

तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।
तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥ 6 ॥

ततः सा संप्रतिश्राव्य तव माता यशस्विनी ।
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ 7 ॥

तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।
तच्च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥ 8 ॥

तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ ।
चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ 9 ॥

सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः ।
सीतया चाप्रतिद्वंद्व स्सत्यवादे स्थितः पितुः ॥ 10 ॥

भवानपि तथेत्येव पितरं सत्यवादिनम् ।
कर्तुमर्हति राजेंद्र क्षिप्रमेवाभिषेचनात् ॥ 11 ॥

ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।
पितरं चापि धर्मज्ञं मातरं चाभिनंदय ॥ 12 ॥

श्रूयते धीमता तात श्रुतिर्गीता यशस्विना ।
गयेन यजमानेन गयेष्वेव पितॄन् प्रति ॥ 13 ॥

पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः पितॄन् यः पाति सर्वतः ॥ 14 ॥

एष्टव्या बहवः पुत्रा गुणवंतो बहुश्रुताः ।
तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ 15 ॥

एवं राजर्षय स्सर्वे प्रतीता राजनंदन ।
तस्मात्राहि नरश्रेष्ठ पितरं नरकात्प्रभो ॥ 16 ॥

अयोध्यां गच्छ भरत प्रकृतीरनुरंजय ।
शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः ॥ 17 ॥

प्रवेक्ष्ये दंडकारण्यमहमप्यविलंबयन् ।
आभ्यांतु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ 18 ॥

त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।
गच्छ त्वं पुरवरमद्य संप्रहृष्टस्संहृष्टस्त्वहमपि दंडकान्प्रवेक्ष्ये ॥ 19 ॥

छायां ते दिनकरभाः प्रबाधमानां वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।
एतेषामहमपि काननद्रुमाणां छायां तामतिशयिनीं सुखी श्रयिष्ये ॥ 20 ॥

शत्रुघ्नः कुशलमतिस्तु ते सहायस्सौमित्रिर्मम विदितः प्रधानमित्रम् ।
चत्वारस्तनयवरा वयं नरेंद्रं सत्यस्थं भरत चराम मा विषीद ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्ताधिकशततमस्सर्गः ॥




Browse Related Categories: