View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

2.86 अयोध्याकांड - षडशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षडशीतितमस्सर्गः ।

आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः ।
भरतायाप्रमेयाय गुहो गहनगोचरः ॥ 1 ॥

तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् ।
भ्रातृगुप्त्यर्थमत्यंतमहं लक्ष्मणमबृवम् ॥ 2 ॥

इयं तात सुखा शय्या त्वदर्थमुपकल्पिता ।
प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनंदन ॥ 3 ॥

उचितोऽयं जनस्सर्वो दुःखानां त्वं सुखोचितः ।
धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ॥ 4 ॥

नहि रामात्प्रियतरो ममास्ति भुवि कश्चन ।
मोत्सुकोऽभूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः ॥ 5 ॥

अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः ।
धर्मावाप्तिं च विपुलामर्थकामौ च केवलम् ॥ 6 ॥

सोऽहं प्रियसखं रामं शयानं सह सीतया ।
रक्षिष्यामि धनुष्पाणि स्सर्वै स्स्वैर्ज्ञातिभिस्सह ॥ 7 ॥

न हि मेऽविदितं किंचिद्वनेऽस्मिंश्चरत स्सदा ।
चतुरंगं ह्यपि बलं प्रसहेम वयं युधि ॥ 8 ॥

एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना ।
अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥ 9 ॥

कथं दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ 10 ॥

यो न देवासुरैस्सर्वैश्शक्यः प्रसहितुं युधि ।
तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥ 11 ॥

महता तपसा लब्धो विविधैश्च परिश्रमैः ।
एको दशरथस्यैष पुत्रस्सदृशलक्षणः ॥ 12 ॥

अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति ।
विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ 13 ॥

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।
निर्घोषो विरतो नूनमध्य राजनिवेशने ॥ 14 ॥

कौसल्या चैव राजा च तथैव जननी मम ।
नाशंसे यदि जीवेयुस्सर्वे ते शर्वरीमिमाम् ॥ 15 ॥

जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया ।
दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति ॥ 16 ॥

अतिक्रांतमतिक्रांतमनवाप्य मनोरथम् ।
राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ 17 ॥

सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते ।
प्रेतकार्येषु सर्वेषु संस्करिष्यंति भूमिपम् ॥ 18 ॥

रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।
हर्म्यप्रासादंपन्नां सर्वरत्नविभूषिताम् ॥ 19 ॥

गजाश्वरथसंबाधां तूर्यनादविनादिताम् ।
सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् ॥ 20 ॥

आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम् ।
सुखिता विचरिष्यंति राजधानीं पितुर्मम ॥ 21 ॥

अपिसत्यप्रतिज्ञेन सार्धं कुशलिना वयम् ।
निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥ 22 ॥

परिदेवयमानस्य तस्यैवं सुमहात्मनः ।
तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ 23 ॥

प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।
अस्मिन् भागीरथीतीरे सुखं संतारितौ मया ॥ 24 ॥

जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुंजरयूथपोपमौ ।
वरेषुचापासिधरौ परंतपौ व्यपेक्षमाणौ सह सीतया गतौ ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षडशीतितमस्सर्गः ॥




Browse Related Categories: