View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

2.35 अयोध्याकांड - पंचत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचत्रिंशस्सर्गः ।

ततो निर्धूय सहसा शिरो निश्श्वस्य चासकृत् ।
पाणौ पाणिं विनिष्पिष्य दंतान् कटकटाप्य च ॥ 1 ॥

लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत् ।
कोपाभिभूतस्सहसा संतापमशुभं गतः ॥ 2 ॥

मनः समीक्षमाणश्च सूतो दशरथस्य सः ।
कंपयन्निव कैकेय्या हृदयं वाक्छरैश्शितैः ॥ 3 ॥

वाक्यवज्रैरनुपमैर्निर्भिंदन्निव चाशुभैः ।
कैकेय्या स्सर्वमर्माणि सुमंत्रः प्रत्यभाषत ॥ 4 ॥

ततो निर्धूय सहसा शिरो निश्श्वस्य चासकृत् ।
पाणौ पाणिं विनिष्पिष्य दंतान् कटकटाप्य च ॥ 5 ॥

लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत् ।
कोपाभिभूतस्सहसा संतापमशुभं गतः ॥ 6 ॥

मनः समीक्षमाणश्च सूतो दशरथस्य सः ।
कंपयन्निव कैकेय्या हृदयं वाक्छरैश्शितैः ॥ 7 ॥

वाक्यवज्रैरनुपमैर्निर्भिंदन्निव चाशुभैः ।
कैकेय्या स्सर्वमर्माणि सुमंत्रः प्रत्यभाषत ॥ 8 ॥

यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् ।
भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च ॥ 9 ॥

न ह्यकार्यतमं किंचित्तव देवीह विद्यते ।
पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चांततः ॥ 10 ॥

यन्महेंद्रमिवाजय्यं दुष्प्रकंप्यमिवाचलम् ।
महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः ॥ 11 ॥

मावमंस्था दशरथं भर्तारं वरदं पतिम् ।
भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ॥ 12 ॥

यथावयो हि राज्यानि प्राप्नुवंति नृपक्षये ।
इक्ष्वाकुकुलनाथेऽस्मिं स्तल्लोपयितुमिच्छसि ॥ 13 ॥

राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् ।
वयं तत्र गमिष्यामो रामो यत्र गमिष्यति ॥ 14 ॥

न हि ते विषये कश्चिद् र्ब्राह्मणो वस्तुमर्हति ।
तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि ॥ 15 ॥

नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम् ।
त्यक्ताया बांधवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ॥ 16 ॥

का प्रीती राज्यलाभेन तव देवि भविष्यति ।
तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि ॥ 17 ॥

आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।
आचरंत्या न विवृता सद्यो भवति मेदिनी ॥ 18 ॥

महाब्रह्मर्षिसृष्टाः वा ज्वलंतो भीमदर्शनाः ।
धिग्वाग्दंडा न हिंसंति रामप्रव्राजने स्थिताम् ॥ 19 ॥

आम्रं छित्वा कुठारेण निंबं परिचरेत्तु यः ।
यश्चैनं पयसा सिंचेन्नैवास्य मधुरो भवेत् ॥ 20 ॥

अभिजात्यं हि ते मन्ये यथा मातुस्तथैव च ।
न हि निंबात्स्रवेत् क्षैद्रं लोके निगदितं वचः ॥ 21 ॥

तव मातुरसद्ग्राहं विद्मः पूर्वं यथाश्रुतम् ।
पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ॥ 22 ॥

सर्वभूतरुतं तस्मात्संजज्ञे वसुधाधिपः ।
तेन तिर्यग्गतानां च भूतानां विदितं वचः ॥ 23 ॥

ततो जृंभस्य शयने विरुताद्भूरिवर्चसः ।
पितुस्ते विदितो भाव स्स तत्र बहुधाऽहसत् ॥ 24 ॥

तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।
हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत् ॥ 25 ॥

नृपश्चोवाच तां देवीं देवि शंसामि ते यदि ।
ततो मे मरणं सद्यो भविष्यति न संशयः ॥ 26 ॥

माता ते पितरं देवि ततः केकयमब्रवीत् ।
शंस मे जीव वा मा वा न मामपहसिष्यसि ॥ 27 ॥

प्रियया च तथोक्त स्सन् केकयः पृथिवीपतिः ।
तस्मै तं वरदायार्थं कथयामास तत्त्वतः ॥ 28 ॥

ततः स्स वरदः साधुराजानं प्रत्यभाषत ।
म्रियतां ध्वंसतां वेयं मा कृथास्त्वं महीपते ॥ 29 ॥

स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः ।
मातरं ते निरस्याशु विजहार कुबेरवत् ॥ 30 ॥

तथा त्वमपि राजानं दुर्जनाचरिते पथि ।
असद्ग्राहमिमं मोहात्कुरुषे पापदर्शिनि ॥ 31 ॥

सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा ।
पितृन् समनुजायंते नरा मातरमंगनाः ॥ 32 ॥

नैवं भव गृहाणेदं यदाह वसुधाधिपः ।
भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥ 33 ॥

मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् ।
भर्तारं लोकभर्तारमसद्धर्ममुपादधाः ॥ 34 ॥

न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः ।
श्रीमांदशरथो राजा देवि राजीवलोचनः ॥ 35 ॥

ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।
रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥ 36 ॥

परिवादो हि ते देवि महाल्लोके चरिष्यति ।
यदि रामो वनं याति विहाय पितरं नृपम् ॥ 37 ॥

स राज्यं राघवः पातु भव त्वं विगतज्वरा ।
न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ॥ 38 ॥

रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।
प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥ 39 ॥

इति सांत्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि ।
सुमंत्रः क्षोभयामास भूय एव कृताज्जलिः ॥ 40 ॥

नैव सा क्षुभ्यते देवी न च स्म परिदूयते ।
न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचत्रिंशस्सर्गः ॥




Browse Related Categories: