View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.64 युद्धकांड - चतुःषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुःषष्टितमस्सर्गः ।

तदुक्तमतिकायस्यबलिनोबाहुशालिनः ।
कुंभकर्णस्यवचनंश्रुत्वोवाचमहोदरः ॥ 1 ॥

कुंभकर्णकुलेजातोधृष्टःप्राकृतदर्शनः ।
अवलिप्तो न शक्नोषिकृत्यंसर्वत्रवेदितुम् ॥ 2 ॥

स्थानंवृद्धिं च हानि च देशकालविभागवित् ।
आत्मनश्चपरेषां च बुध्यतेराक्षसर्षभः ॥ 3 ॥

यत्तुशक्यंबलवताकर्तुंप्राकृतबुद्धिना ।
अनुपासितवृद्धेनकःकुर्यात्तादृशंनरः ॥ 4 ॥

यांस्तुधर्मार्थकामांस्त्वंब्रवीषिपृथगाश्रयान् ।
अवबोद्धुंस्वभावेतान्नहिलक्षणमस्तितान् ॥ 5 ॥

कर्मचैवहिसर्वेषांकारणानांप्रयोजकम् ।
श्रेयःपापीयसांचात्रफलंभवतिकर्मणाम् ॥ 6 ॥

निश्श्रेयसफलावेवधर्मार्थावितरावपि ।
अधर्मानर्थयोःप्राप्तिःफलं च प्रत्यवायिकम् ॥ 7 ॥

ऐहलौकिकपारक्यंकर्मपुंभिर्निषेव्यते ।
कर्माण्यपितुकल्यानिलभतेकाममास्थितः ॥ 8 ॥

तत्रक्लुप्तमिदंराज्ञाहृदिकार्यंमतं च नः ।
शत्रौहिसाहसंयत्स्यात्किमिवात्रापनीयते ॥ 9 ॥

एकस्यैवाभियानेतुहेतुर्यःकथितस्त्वया ।
तत्राप्यनुपपन्नंतेवक्ष्यामियदसाधु च ॥ 10 ॥

येनपूर्वंजनस्थानेबहवोऽतिबलाहताः ।
राक्षसाराघवंतंत्वंकथमेकोजयिष्यसि ॥ 11 ॥

येपुरानिर्जितास्तेनजनस्थानेमहौजसः ।
राक्षसांस्तान्पुरेसर्वान्भीतानद्यापिपश्यसि ॥ 12 ॥

तंसिंहमिवसंक्रुद्धंरामंदशरथात्मजम् ।
सर्पंसुप्तमिवबुद्ध्यप्रबोधयितुमिच्छसि ॥ 13 ॥

ज्वलंतंतेजसानित्यंक्रोधेन च दुरासदम् ।
कस्तंमृत्युमिवासह्यमासादयितुमर्हति ॥ 14 ॥

संशयस्थमिदंसर्वंशत्रोःप्रतिसमासने ।
एकस्यगमनंतत्र न हिमेरोचतेभृशम् ॥ 15 ॥

हीनार्थस्तुसमृद्धार्थंकोरिपुंप्राकृतंयथा ।
निश्चित्यजीवितत्यागेवशमानेतुमिच्छति ॥ 16 ॥

यस्यनास्तिमनुष्येषुसदृशोराक्षसोत्तम ।
कथमाशंससेयोद्धुंतुल्येनेंद्रविवस्वतोः ॥ 17 ॥

एवमुक्त्वातुसम्रब्दःकुंभकर्णंमहोदरः ।
उवाचरक्षसांमध्येरावणंलोकरावणम् ॥ 18 ॥

लब्ध्वापुनस्त्वंवैदेहींकिमर्थंसंप्रजल्पसि ।
यदीच्छसितदासीतावशगातेभविष्यति ॥ 19 ॥

दृष्टःकश्चदुपायोमेसीतोपस्थानकारकः ।
रुचितश्चेत्स्वयाबुध्याराक्षसेंद्र तंशृणु ॥ 20 ॥

अहंद्विजिह्वस्सम्ह्रादीकुंभकर्णोवितर्दनः ।
पंचरामवधायैतेनिर्यांत्वित्यवघोषय ॥ 21 ॥

ततोगत्वावयंयुद्धंदास्यामस्तस्ययत्नतः ।
जेष्यामोयदितेशत्रून्नोपायैःकृत्यमस्तिनः ॥ 22 ॥

अथजीवतिनश्शत्रुर्वयं च कृतसम्युगाः ।
ततस्तदभिपत्स्यामोमनसायत्समीक्षितम् ॥ 23 ॥

वयंयुद्धादिहेष्यामोरुधिरेणसमुक्षिताः ।
विदार्यस्वतनुंबाणैरामनामांकितैश्शितैः ॥ 24 ॥

भक्षितोराघवोऽस्माभिर्लक्ष्मणश्चेतिवादिनः ।
तवपादौग्रहीष्यामस्त्वंनःकामंप्रपूरय ॥ 25 ॥

भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः ।
तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय ॥ 26 ॥

प्रीतोनामततोभूत्वाभृत्यानांत्वमरिंदम ।
भोगांश्चपरिवारांश्चकामांश्चवसुदापय ॥ 27 ॥

ततोमाल्यानिवासांसिवीराणामनुलेपनम् ।
पेयं च बहुयोधेभ्यस्स्वयं च मुदितःपिब ॥ 28 ॥

ततोऽस्मिन् बहुलीभूतेकौलीनेसर्वतोगते ।
भक्षितस्ससुहृद्रामोराक्षसैरितिविश्रुते ॥ 29 ॥

प्रविश्याश्वास्यचापित्वंसीतांरहसिसांत्वय ।
धनधान्यैश्चकामैश्चरत्नैश्चानांप्रलोभय ॥ 30 ॥

अनयोपधयाराजन् भयशोकानुबंधया ।
अकामात्वद्वशंसीतानष्टनाथाभविष्यति ॥ 31 ॥

ंजनीयम्हिभर्तारंविनष्टमवगम्यसा ।
नैराश्यात् स्त्रीलघुत्वाच्चत्वद्वशंप्रतिपत्स्यते ॥ 32 ॥

सापुरासुखसम्वृद्धासुखार्हादुःखकर्शिता ।
त्वय्यधीनंसुखंज्ञात्वासर्वथोगमिष्यति ॥ 33 ॥

एतत्सुनीतंममदर्शनेनरामंहिदृष्टवैभवेदनर्धः ।
इहैवतेसेत्स्यतिमोत्सुकोभूर्महानयुद्धेनसुखस्यलाभः ॥ 34 ॥

अदृष्टसैन्योह्यनवाप्तसंशयोरिपूनयुद्धेनजयन् जनाधिप ।
यशश्चपुण्यं च महन्महीपतेश्रशियं च कीर्तिं च चिरम् ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुःषष्टितमस्सर्गः ॥




Browse Related Categories: