View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.77 युद्धकांड - सप्तसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तसप्ततितमस्सर्गः ।

निकुंभोभ्रातरंदृष्टवासुग्रीवेणनिपातितम् ।
प्रदहन्निवकोपेनवानरेंद्रमवैक्षत ॥ 1 ॥

ततस्स्रग्दामसन्नद्धंदत्तपंचांगुलंशुभम् ।
आददेपरिघंवीरोमहेंद्रशिखरोपमम् ॥ 2 ॥

हेमपट्टपरिक्षिप्तंवज्रविद्रुमभूषितम् ।
यमदंडोपमंभीमंरक्षसांभयनाशनम् ॥ 3 ॥

तमाविध्यमहातेजाश्शक्रध्वजसमंतदा ।
निननादविवृत्तास्योनिकुंभोभीमविक्रमः ॥ 4 ॥

उरोगतेननिष्केणभुजस्थैरंगदैरपि ।
कुंडलाभ्यां च चित्राभ्यांमालया च विचित्रया ॥ 5 ॥

निकुंभोभूषणैर्भातितेनस्मपरिघेण च ।
यथेंद्रधनुषामेघस्सविद्युत्स्तनयित्नुमान् ॥ 6 ॥

परिघाग्रेण पुस्फोट वातग्रंथिर्महात्मनः ।
प्रजज्वाल सघोषश्च विधूम इव पावकः ॥ 7 ॥

नगर्याविटपावत्यागंधर्वभवनोत्तमैः ।
सतारग्रहनक्षत्रंसचंद्रंसमहाग्रहम् ॥ 8 ॥

निकुंभपरिघाघूर्णंभ्रमतीवनभस्थ्सलम् ।
दुरासदश्चसंजज्ञेपरिघाभरणप्रभः ॥ 9 ॥

कपीनांसनिकुंभाग्निर्युगांताग्निरिवोत्थितः ।
राक्षसावानराश्चापि न शेकुस्स्पंदितुंभयात् ॥ 10 ॥

हनूमांस्तुविवृत्योरस्तस्थौतस्याग्रतोबली ।
परिघोपमबाहुस्तुपरिघंभास्करप्रभम् ॥ 11 ॥

बलीबलवतस्तस्यपातयामासवक्षसि ।
स्थिरेतस्योरसिव्यूढेपरिघश्शतधाकृतः ॥ 12 ॥

विकीर्यमाणस्सहसाउल्काशतमिवांबरे ।
स तुतेनप्रहारेणविचचालमहाकपिः ॥ 13 ॥

परिघेणसमाधूतोयथाभूमिचलेऽचलः ।
तथाभिहतस्तेनहनुमान् प्लवगोत्तमः ॥ 14 ॥

मुष्टिंसम्वर्तयामासबलेनातिमहाबलः ।
तमुद्यम्यमहातेजानिकुंभोरसिवीर्यवान् ॥ 15 ॥

अभिचिक्षेपवेगेनवेगवान् वायुविक्रमः ।
ततःपुस्फोटचर्मास्यप्रसुस्राव च शोणितम् ॥ 16 ॥

मुष्टिनातेनसंजज्ञेमेघेविद्युदिवोत्थिता ।
सःतुतेनप्रहारेणनिकुंभोविचचाल ह ॥ 17 ॥

स्वस्थश्चापिनिजग्राहहनूमंतंमहाबलम् ।
चुक्रुशुस्तदासंख्येभीमंलंकानिवासिनः ॥ 18 ॥

निकुंभेनोद्यतंदृष्टवाहनूमंतंमहाबलम् ।
तदाह्रियमाणोऽपिकुंभकर्णात्मजेन ह ॥ 19 ॥

आजघानानिलसुतोवज्रकल्पेनमुष्टिना ।
आत्मानंमोक्षयित्वाथक्षितावभ्यवपद्यत ॥ 20 ॥

हनूमानुन्ममाथाशुनिकुंभंमारुतात्मजः ।
निक्षिप्यपरमायत्तोनिकुंभंनिष्पिपेष ह ॥ 21 ॥

उत्पत्यचास्यवेगेनपपातोरसिवीर्यवान् ।
परिगृह्य च बाहुभ्यांपरिवृत्यशिरोधराम् ॥ 22 ॥

उत्पाटयामानशिरोभैरवंनदतोमहत् ।
अथनिनदतिसादितेनिकुंभेपवनसुतेनरणेबभूवयुद्धम् ।
दशरथसुतराक्षसेंद्रसून्वोर्भृशतरमागतरोषयोस्सुभीमम् ॥ 23 ॥

व्यपेतेतुजीवेनिकुंभस्यहृष्टाविनेदुःप्लवंगादिशस्सस्वनुश्च ।
चचालेवचोर्वीपफालेवचद्यौर्भयंराक्षसानांबलंचाविवेश ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तसप्ततितमस्सर्गः ॥




Browse Related Categories: