View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

1.74 बालकांड - चतुःसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ चतुःसप्ततितमस्सर्गः ।

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।
आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥ 1 ॥

आशीर्भिः पूरयित्वा च कुमारांश्च सराघवान् ।
विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।
आपृष्ट्वाऽथ जगामाशु राजा दशरथः पुरीम् ॥ 2 ॥

गच्छंतं तं तु राजानमन्वगच्छन्नराधिपः ॥ 3 ॥

अथ राजा विदेहानां ददौ कन्याधनं बहु ।
गवां शतसहस्राणि बहूनि मिथिलेश्वरः ।
कंबलानां च मुख्यानां क्षौमकोट्यंबराणि च ॥ 4 ॥

हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् ।
ददौ कन्यापिता तासां दासीदासमनुत्तमम् ॥ 5 ॥

हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥ 6 ॥

ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ।
दत्त्वा बहु धनं राजा समनुज्ञाप्य पार्थिवम् ॥ 7 ॥

प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।
राजाऽप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभिः ।
ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ॥ 8 ॥

गच्छंतं तं नरव्याघ्रं सर्षिसंघं सराघवम् ॥ 9 ॥

घोराः स्म पक्षिणो वाचो व्याहरंति ततस्ततः ।
भौमाश्चैव मृगा स्सर्वे गच्छंति स्म प्रदक्षिणम् ॥ 10 ॥

तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ॥ 11 ॥

किमिदं हृदयोत्कंपि मनो मम विषीदति ।
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ॥ 12 ॥

उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ।
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् ॥ 13 ॥

मृगाः प्रशमयंत्येते संतापस्त्यज्यतामयम् ।
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ॥ 14 ॥

कंपयन् पृथिवीं सर्वां पातयंश्च द्रुमांच्छुभान् ।
तमसा संवृतस्सूर्य स्सर्वा न प्रबभुर्दिश ॥ 15 ॥

भस्मना चावृतं सर्वं संमूढमिव तद्बलम् ।
वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ॥ 16 ॥

संसज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ।
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ॥ 17 ॥

ददर्श भीमसंकाशं जटामंडलधारिणम् ।
भार्गवं जामदग्न्यं तं राजराजविमर्दिनम् ॥ 18 ॥

कैलासमिव दुर्धर्षं कालाग्निमिव दुस्सहम् ।
ज्वलंतमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः ॥ 19 ॥

स्कंधे चासज्य परशुं धनुर्विद्युद्गणोपमम् ।
प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा शिवम् ॥ 20 ॥

तं दृष्ट्वा भीमसंकाशं ज्वलंतमिव पावकम् ।
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ॥ 21 ॥

संगता मुनयस्सर्वे संजजल्पुरथो मिथः ।
कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥ 22 ॥

पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ 23 ॥

एवमुक्त्वाऽर्घ्यमादाय भार्गवं भीमदर्शनम् ।
ऋषयो राम रामेति वचो मधुरमब्रुवन् ॥ 24 ॥

प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् ।
रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे चतुःसप्ततितमस्सर्गः ॥




Browse Related Categories: