View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.113 युद्धकांड - त्रयोदशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रयोदशाधिकशततमस्सर्गः ।

रावणंनिहतंदृष्टवाराघवेणमहात्मना ।
अंतःपुराद्विनिष्पेतूराक्षस्यश्शोककर्शिताः ॥ 1 ॥

वार्यमाणास्सुबहुशोवेष्टंत्यःक्षितिपांसुषु ।
विमुक्तकेश्यश्शोकार्तागावोवत्सहतायथा ॥ 2 ॥

उत्तरेणविनिष्क्रम्यद्वारेणसहराक्षसैः ।
प्रविश्यायोधनंघोरंविचिन्वंत्वोहतंपतिम् ॥ 3 ॥

आर्यपुत्रेतिवादिन्योहानाथेति च सर्वशः ।
परिपेतुःकबंधांकांमहींशोणितकर्दमाम् ॥ 4 ॥

दृष्ट्वा समागतं देवी हनूमंतं महाबलम् ।
तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत्तदा ॥ 5 ॥

ददृशुस्तामहाकायंमहावीर्यंमहाद्युतिम् ।
रावणंनिहतंभूमौनीलांजनचयोपमम् ॥ 6 ॥

ताःपतिंसहसादृष्टवाशयानंरणपांसुषु ।
निपेतुस्तस्यगात्रेषुछिन्नावनलताइव ॥ 7 ॥

बहुमानात्परिष्वज्यकाचिदेवंरुरोद ह ।
चरणौकाचिदालंब्यकाचित्कंठेऽवलंब्य च ॥ 8 ॥

उत्क्षिप्य च भुजौकाचिद्भूमौसुपरिवर्तते ।
हतस्यवदनंदृष्टवाकाचिन्मोहमुपागमत् ॥ 9 ॥

काचिदंकेशिरःकृत्वारुरोदमुखमीक्षती ।
स्नापयंतीमुखंबाष्पैस्तुषारैरिवपंकजम् ॥ 10 ॥

एवमार्ताःपतिंदृष्टवारावणंनिहतंभुवि ।
चुक्रुशुर्भहुधाशोकाद्भूयस्ताःपर्यदेवयन् ॥ 11 ॥

येनमित्रासितःशक्रोयेनवित्रासितोयमः ।
येनवैश्रवणोराजापुष्पकेणवियोजितः ॥ 12 ॥

गंधर्वाणामृषीणां च सुराणां च महात्मनाम् ।
भयंयेनरणेदत्तंसोऽयंशेतेरणेहतः ॥ 13 ॥

असुरेभ्यःसुरेभ्योवापन्नगेभ्योऽपिवातथा ।
भयंयो न विजानातितस्येदंमानुषाद् भयम् ॥ 14 ॥

अवध्योदेवतानांयस्तथादानवराक्षसाम् ।
हतःसोऽयंरणेशेतेमानुषेणपदातिना ॥ 15 ॥

यो न शक्यस्सुरैर्हंतुं न यक्षैर्नासुरैस्तथा ।
सोऽयंकश्चिदिवासत्त्वोमृत्युंमर्त्येनलंभितः ॥ 16 ॥

एवंवदंत्योरुरुदुस्तस्यतादुःखिताःस्त्रियः ।
भूयएव च दुःखार्ताविलेपुश्चपुनःपुनः ॥ 17 ॥

अशृण्वतातुसुहृदांसततंहितवादिनाम् ।
मरणायहृतासीताराक्षसाश्चनिपातिताः ॥ 18 ॥

एतास्सममिदानींतेवयमात्मा च पातितः ।
ब्रुवाणोऽपिहितंवाक्यमिष्टोभ्राताविभीषणः ॥ 19 ॥

धृष्टंपरुषितोमोहत्त्वयात्मवथकांक्षिणा ।
दिनिर्यातितातेस्वासतीतारामायमैथिली ॥ 20 ॥

ननस्स्याद्व्यसनंघोरमिदंमूलहरंमहत् ।
वृत्तकामोभवेद्भ्रातारामोमित्रकुलंभवेत् ॥ 21 ॥

वयंचाध्विवाःसर्वाःसकमा न च शत्रवः ।
त्वयापुनर्नृशंशंसेनसीतांसंरुंधताबलात् ॥ 22 ॥

राक्षसावयमात्मा च त्रयंतुल्यंनिपातितम् ।
न कामकारःकामंवातवराक्षसपुंगव ।
दैवंचेष्टयतेसर्वंहतंदैवेनहन्यते ॥ 23 ॥

वानराणांविनाशोऽयंराक्षसानां च तेरणे ।
तवचैवमहाबाहो दैवयोगादुपागतः ॥ 24 ॥

नैवार्थेन न कामेनविक्रमेण न चाज्ञया ।
शक्यादैवगतिर्लोकेनिवर्तयितुमुद्यता ॥ 25 ॥

ततः शुभतरं वाक्यमुवाच पवनात्मजम् ।
अतिलक्षणसंपन्नं माधुर्यगुणभूषितम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रयोदशाधिकशततमस्सर्गः ॥




Browse Related Categories: