श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तचत्वारिंशस्सर्गः ।
प्रतिप्रविष्टेलंकायांकृतार्थेरावणात्मजे ।
राघवंपरिवार्यार्तुरक्षुर्वानरर्षभाः ॥ 1 ॥
हनुमानंगदोनीलःसुषेणःकुमुदोनलः ।
गजोगवाक्षोगवयश्शरभोगंधमादनः ॥ 2 ॥
जांबवानृषभःसुंदोरंभःशतवलिःपृथुः ।
व्यूढानीकाश्चयत्ताश्चद्रुमानादायसर्वतः ॥ 3 ॥
वीक्षमाणादिशस्सर्वास्तिर्यगूर्ध्वंचवानराः ।
तृणेष्वपिचचेष्टत्सुराक्षसाइतिमेनिरे ॥ 4 ॥
रावणश्चापिसम्हृष्टोविसृज्येंद्रजितंसुतम् ।
अजुहावततस्सीताक्षिणीराक्षसीस्तदा ॥ 5 ॥
राक्षस्यस्त्रिजटाचैवशासनात्समुपस्थिताः ।
ताउवाचततोहृष्टोराक्षसीराक्षसाधमः ॥ 6 ॥
हताविंद्रजिताख्यातवैदेह्यारामलक्ष्मणौ ।
पुष्पकंतत्समारोप्यदर्शयध्वंहतौरणे ॥ 7 ॥
यदाश्रयादवष्टब्धामामुपतिष्ठति ।
सोऽस्याभर्तासहभ्रात्रानिहतोरणमूर्धनि ॥ 8 ॥
निर्विशंकानिरुद्विग्नानिरपेक्षाचमैथिली ।
मामुपस्थास्यतेसीतासर्वाभरणभूषिता ॥ 9 ॥
अद्यकालवशंप्राप्तंरणेरामंसलक्ष्मणम् ।
अवेक्ष्यविनिवृत्तासाचान्यांगतिमपश्यती ॥ 10 ॥
निरपेक्षाविशालाक्षीमामुपस्थास्यतेस्वयम् ।
तस्यतद्वचनंश्रुत्वारावणस्यदुरात्मनः ॥ 11 ॥
राक्षस्यस्तास्तथेत्युक्त्वाजग्मुर्वैयत्रपुष्पकम् ।
ततःपुष्पकमादायराक्षस्योरावणाज्ञया ॥ 12 ॥
अशोकवनिकास्थांतांमैथिलींसमुपानयन् ।
तामादायतुराक्षस्योभर्तृशोकपराजिताम् ॥ 13 ॥
सीतामारोपयामासुर्विमानंपुष्पकंतदा ।
ततःपुष्पकमारोप्यसीतांत्रिजटयासह ॥ 14 ॥
जग्मुर्दर्शयितुंतस्यैराक्षस्योरामलक्ष्मणौ ।
रावणोऽकारयल्लंकांपताकाध्वजमालिनीम् ॥ 15 ॥
प्राघोषयतहृष्टश्चलंकायांराक्षसेश्वरः ।
राघवोलक्ष्मणश्चैवहताविंद्रजितारणे ॥ 16 ॥
विमानेनापिगत्वातुसीतात्रिजटयासह ।
ददर्शवानराणांतुसर्वंसैन्यंनिपातितम् ॥ 17 ॥
प्रहृष्टमनसश्चापिददर्शपिशिताशनान् ।
वानरांश्चातिदुःखार्तान्रामलक्ष्मणपार्श्वतः ॥ 18 ॥
ततस्सीताददर्शोभौशयानौशरतल्पगौ ।
लक्ष्मणंचापिरामंचविसंज्ञौशरपीडितौ ॥ 19 ॥
विध्वस्तकवचौवीरौविप्रविद्धशरासनौ ।
सायकैचशिन्नसर्वांगौशरस्तंबमयौक्षितौ ॥ 20 ॥
तौदृष्टवाभ्रातरौतत्रप्रवीरौपुरुषर्षभौ ।
शयानौपुंडरीकाक्षौकुमाराविवपावकी ॥ 21 ॥
शरतल्पगतौवीरौतथाभूतानरर्षभौ ।
दुःखार्ताकरुणंसीतासुभृशंविललापह ॥ 22 ॥
भर्तारमनवद्यांगीलक्ष्मणंचासितेक्षणा ।
प्रेक्ष्यपांसुषुचेष्टंतौरुरोदजनकात्मजा ॥ 23 ॥
सबाष्पशोकाभिहतासमीक्ष्यतौभ्रातरौदेवसमप्रभावौ ।
वितर्कयंतीनिधनंतयोस्सादुःखान्वितावाक्यमिदंजगाद ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तचत्वारिंशस्सर्गः ॥