श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रिसप्ततितमस्सर्गः ।
ततोहतान्राक्षसपुंगवांस्तान् देवांतकादित्रिशिरोतिकायान् ।
रक्षोगणास्तत्रहतावशिष्टास्तेरावणायत्वरिताश्शशंसुः ॥ 1 ॥
ततोहतांस्तान् सहसानिशम्यराजामुमोहपरिप्लुताक्षः ।
पुत्रक्षयंभ्रातृवधं च घोरंविचिंत्यराजाविपुलंप्रदध्यौ ॥ 2 ॥
ततस्तुराजानमुदीक्ष्यदीनंशोकार्णवेसंपरिपुप्लुवानम् ।
रथर्षभोराक्षसराजसूनुस्तमिंद्रजिद्वाक्यमिदंबभाषे ॥ 3 ॥
न तात मोहंपरिगंतुमर्हसियत्रेंद्रजिजजीवतिराक्षसेंद्र ।
नेंद्रारिबाणाभिहतोहिकश्चित्प्राणान् समर्थस्समरेऽभिपातुम् ॥ 4 ॥
पश्याद्यरामंसहलक्ष्मणेनमद्बाणनिर्भिन्नविकीर्णदेहम् ।
गतायुषंभूमितलेशयानंशितैश्शरैराचितसर्वगात्रम् ॥ 5 ॥
इमांप्रतिज्ञांशृणुशक्रशत्रोःसुनिश्चितांपौरुषदैवयुक्ताम् ।
अद्यैवरामंसहलक्ष्मणेनसंतर्पयिष्यामिशरैरमोघैः ॥ 6 ॥
अद्येंद्रवैवस्वतविष्णुमित्रसाध्याश्चवैश्वानरचंद्रसूर्याः ।
द्रक्ष्यंतुमेविक्रममप्रमेयंविष्णोरिवोग्रंबलियज्ञवाटे ॥ 7 ॥
स एवमुक्त्वात्रिदशेंद्रशत्रुरापृच्छयराजानमदीनसत्त्वः ।
समारुरोहानितुल्यवेगंरथंखरश्रेष्ठसमाधियुक्तम् ॥ 8 ॥
तमास्थायमहातेजारथंहरिरथोपमम् ।
जगामसहसातत्रयत्रयुद्धमरिंदमः ॥ 9 ॥
तंप्रस्थितंमहात्मानमनुजग्मुर्महाबलाः ।
सम्हर्षमाणाबहनोधनुष्प्रवरपाणयः ॥ 10 ॥
गजस्कंधगताःकेचित्केचित्प्रवरवाजिभिः ।
व्याघ्रवृश्चिकमार्जारखरोरोष्ट्रैश्चभुजंगमैः ॥ 11 ॥
वराहैश्श्वापदैस्सिंहैर्जंबुकैःपर्वतोपमैः ।
काकहंसमयूरैश्चराक्षसाभीमविक्रमाः ॥ 12 ॥
प्रासमुद्गरनिस्त्रिंशपरश्वथगदाधराः ।
भुशुंडिमुद्गरायष्टिशतघ्नीपरिघायुधा ॥ 13 ॥
स शंखनिनदैःपूर्णैर्भेरीणांचापिनिस्स्वनैः ।
जगामत्रिदशेंद्रास्तूयमानोनिशाचरैः ॥ 14 ॥
स शंखशशिवर्णेनछत्रेणरिपुसूदनः ।
रराजप्रतिपूर्णेननभश्चंद्रमसायथा ॥ 15 ॥
अवीज्यतततोवीरोहैमैर्हेमविभूषितैः ।
चारुचामरमुख्यैश्चमुख्यस्सर्वधनुष्मताम् ॥ 16 ॥
स तुदृष्टवाविनिर्यांतंबलेनमहातावृतम् ।
राक्षसाधिपतिश्रशीमान् रावणःपुत्रमब्रवीत् ॥ 17 ॥
त्वमप्रतिरथःपुत्रत्वयावैवासवोजितः ।
किंपुनर्मानुषंधृष्यंनिहनिष्यसिराघवम् ॥ 18 ॥
तथोक्तोराक्षसेंद्रेणप्रत्यगृह्णान्महाशिषः ।
तस्त्विंद्रजितालंकासूर्यप्रतिमतेजसा ॥ 19 ॥
रराजाप्रतिवीर्येणद्यौरिवार्केणभास्वता ।
संप्राप्यमहातेजायुद्धभूमिमरिंदमः ॥ 20 ॥
स्थापयामासरक्षांसिरथंप्रतिसमंततः ।
ततस्तुहुतभोक्तारंहुतभुक्सदृशप्रभः ॥ 21 ॥
जुहावराक्षसश्रेष्ठोमंत्रवद्विधिवत्तदा ।
सहविर्लाजसंस्कारैर्माल्यगंधपुरस्कृतैः ॥ 22 ॥
जुहुवेपावकंतत्रराक्षनेंद्रःप्रतापवान् ।
शस्त्राणिशरपत्राणिसमिधोऽथविभीतकाः ॥ 23 ॥
लोहितानि च वासांसिस्रुवंकार्ष्णायसंतथा ।
सतत्राग्निंसमास्तीर्यशरपत्रैस्सतोमरैः ॥ 24 ॥
हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ।
सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः ॥ 25 ॥
हविस्तत्प्रतिजग्राहपावकस्स्वयमास्थितः ।
सोऽस्त्रमाहारयामासब्राह्ममिंद्ररिपुस्तदा ॥ 26 ॥
धनुश्चात्मरथंचैवसर्वंतत्राभ्यमंत्रयत् ।
तस्मिन्नाहूयमानेस्त्रेहूयमाने च पावके ॥ 27 ॥
सार्धंग्रहेंदुनक्षत्रैर्वितत्रासनभस्थ्सलम् ।
स पावकंपावकदीप्ततेजाहुत्वामहेंद्रप्रतिमप्रभावः ।
स चापबाणासिरथाश्वसूतःखेऽंतर्दधेऽत्मानमचिंत्यरूपः ॥ 28 ॥
ततोहयरथाकीर्णंपताकाध्वजशोभितम् ।
निर्ययौराक्षसबलंनर्दमानंययुत्सया ॥ 29 ॥
तेशरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलंकृतैः ।
तोमरैरंकुशैश्चापिवानरान् जघ्नुराहवे ॥ 30 ॥
रावणिस्तुततस्संकृद्धस्तान्निरीक्ष्यनिशाचरान् ।
हृष्टाभवंतोयुध्यंतुवानराणांजिघांसया ॥ 31 ॥
ततस्तेराक्षसास्सर्वेनर्धंतोजयकांक्षिणः ।
अभ्यवर्षंस्ततोघोरान्वानरान् शरवृष्टिभिः ॥ 32 ॥
स तुनालीकनाराचैर्गदाभिर्मुसलैरपि ।
रक्षोभिस्सम्वृतस्संख्येवानरान् विचकर्त ह ॥ 33 ॥
तेवध्यमानास्समरेवानराःपादपायुधाः ।
अभ्यवर्षंतसहसारावणिंशैलपादपैः ॥ 34 ॥
इंद्रजित्तुतदाक्रुद्धोमहातेजामहाबलः ।
वानराणांशरीराणिव्यधमद्रावणात्मजः ॥ 35 ॥
शरेणैकेन च हरीन्नवपंच च सप्त च ।
बिभेदसमरेक्रुद्धोराक्षसान् संप्रहर्षयन् ॥ 36 ॥
स शरैस्सूर्यसंकाशैश्शातकुंभविभूषितैः ।
वानरान् समरेवीरःप्रममाथसुदुर्जयः ॥ 37 ॥
तेभिन्नगात्रास्समरेवानराश्शरपीडिताः ।
पेतुर्मथितसंकल्पास्सुरैरिवमहासुराः ॥ 38 ॥
तंतपंतमिवादित्यंघोरैर्बाणगभस्तिभिः ।
अभ्यधावंतसंकृद्धास्सम्युगेवानरर्षभाः ॥ 39 ॥
ततस्तुवानरास्सर्वेभिन्नदेहाविचेतसः ।
व्यथिताविद्रवंतिस्मरुधिरेणसमुक्षिताः ॥ 40 ॥
रामस्यार्थेपराक्रम्यवानरास्त्यक्तजीविताः ।
नर्दंतस्तेऽभिवृत्तास्तुसमरेसशिलायुधाः ॥ 41 ॥
तेद्रुमैःपर्वताग्रैश्चशिलाभिश्चप्लवंगमाः ।
अभ्यवर्षंतसमरेरावणिंपर्यवस्थिताः ॥ 42 ॥
तद्रुमाणांशिलानां च वर्षंप्राणहरंमहत् ।
व्यपोहतमहातेजारावणिस्समितिंजयः ॥ 43 ॥
ततःपावकसंकाशैश्शरैराशीविषोपमैः ।
वानराणामनीकानिबिभेदसमरेप्रभुः ॥ 44 ॥
अष्टादशशरैस्तीक्ष्णैस्सविदद्वागंधमादनम् ।
विव्याथनवभिश्चैवनलंदूरादवस्थितम् ॥ 45 ॥
सप्तभिस्तुमहावीर्योमैंदंमर्मविदारणैः ।
पंचभिर्विशिखैश्चैवगजंविव्याथसंयुगे ॥ 46 ॥
जांबवंतंतुदशभिर्नीलंत्रिंशद्भिरेव च ।
सुग्रीवमृषभंचैवसोऽंगदंद्विविधंतथा ॥ 47 ॥
घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ।
अन्यानपितदामुख्यान्वानरान् बहुभिश्शरैः ॥ 48 ॥
अर्दयामाससंकृद्धःकालानगिरिवमूर्छितः ।
सशरैस्सूर्यसंकाशैस्सुमुक्सैशशीघ्रगामिभिः ॥ 49 ॥
वानराणामनीकानिनिर्ममंथमहारणे ।
आकुलांवानरींसेनांशरजालेनमोहिताम् ॥ 50 ॥
हृष्टस्सपरयाप्रीत्याददर्शक्षतजोक्षिताम् ।
वानरेवमहातेजाराक्षसेंद्रात्मजोबली ॥ 51 ॥
संसृज्यबाणवर्षं च शस्त्रवर्षं च दारुणम् ।
ममर्दवानरानीकमिंद्रजित्त्वरितोबली ॥ 52 ॥
स्वसैन्यमुत्सृज्यसमेत्यतूर्णंमहारणेवानरवाहिनीषु ।
अदृश्यमानश्शरजालमुग्रंववर्षनीलांबुधरोयथांबु ॥ 53 ॥
तेशक्रजिद्बाणविशीर्णदेहामायाहताविस्वरमुन्नदंतः ।
रणेनिपेतुर्हरयोऽद्रिकल्पायथेंद्रवज्राभिहतानगेंद्राः ॥ 54 ॥
तेकेवलंसंददृशुशशिताग्रान्बाणान्रणेवानरवाहिनीषु ।
मायानिगूढंतुसुरेंद्रशत्रुं न चावृतंराक्षसमभ्यपश्यन् ॥ 55 ॥
ततस्सरक्षोधिपतिर्महात्मासर्वादिशोबाणगणैशशिताग्रैः ।
प्रच्छादयामासरविप्रकाशैर्विपादयामास च वानरेंद्रान् ॥ 56 ॥
स शूलनिस्त्रिंशपरश्वधानिव्याविध्यदीप्तानलसन्निभानि ।
सविस्फुलिंगोज्ज्वलपावकानिववर्षतीव्रंप्लवगेंद्रसैन्ये ॥ 57 ॥
ततोज्वलनसंकाशैश्शरैर्वानरयूथपाः ।
ताडिताश्शक्रजिद्बाणैःप्रफुल्लाइवकिंशुकाः ॥ 58 ॥
तेन्योन्यमभिसर्पंतोनिनदंतश्चविस्वरम् ।
राक्षसेंद्रास्त्रनिर्भिन्नानिपेतुर्वानरर्षभाः ॥ 59 ॥
उदीक्षमाणागगनंकेचिन्नेत्रेषुताडिताः ।
शरैर्विविशुरन्योन्यंपेतुश्चजगतीतले ॥ 60 ॥
हनूमंतं च सुग्रीवमंगदंगंधमादनम् ।
जांबवंतंसुषेणं च वेगदर्शिनमेव च ॥ 61 ॥
मैंदं च द्विविदंनीलंगवाक्षंगजगोमुभौ ।
केसरिंहरिलोमानंविद्युद्धंष्ट्रं च वानरम् ॥ 62 ॥
स बाणवर्षैरभिवर्ष्यमाणो ।
धारानिपातानिव तान्विचिंत्य ।
समीक्षमाणः परमाद्भुतश्री ।
रामस्तदा लक्ष्मणमित्युवाच ॥ 63 ॥
प्रसैश्शूलैश्शितैर्बाणैरिंद्रजिन्मंत्रसम्हितैः ।
विव्याधहरिशार्दूलान् सर्वांस्तान्राक्षसोत्तमः ॥ 64 ॥
स वैगदाभिर्हरियूथमुख्यान्निर्भिद्यबाणैस्तपनीयवंखैः ।
ववर्षरामंशरवृष्टिजालैस्सलक्ष्मणंभास्कररमशिकल्पैः ॥ 65 ॥
स बाणवर्षैरभिवृष्यमाणोधारानिपातानिवतानच्नित्य ।
समीक्षमाणःपरमाद्भुतश्रीरामतदालक्ष्मणमित्युवाच ॥ 66 ॥
असौपुनर्लक्ष्मणराक्षसेंद्रोब्रह्मास्त्रमाश्रित्यसुरेंद्रशत्रुः ।
निपातयित्वाहरिसैन्यमुग्रमस्मान्शरैरर्दयतिप्रसक्तः ॥ 67 ॥
स्वयंभुवादत्तवरोमहात्मा ।
समाहितोंतर्हितभीमकायः ।
कथंनुशक्योयुधिनष्टदेहोनिहंतुमद्येंद्रजिदुद्यतास्त्रः ॥ 68 ॥
मन्येस्वयंभुर्भगवानच्नित्योयस्यैतदस्त्रंप्रभवश्चयोऽस्य ।
बाणावपातास्त्वमिहाद्यधीमन्मयासहाव्यग्रमनास्सहस्व ॥ 69 ॥
प्रच्छादयत्येषहिराक्षसेंद्रस्सर्वाधिशस्सायकवृष्टिजालैः ।
एतच्चसर्वंपतिताग्य्रशूरं न भ्राजतेवानरराजसैन्यम् ॥ 70 ॥
आवांतुदृष्टवापतितौविसंज्ञौनिवृत्तयुद्दौगतरोषहर्षे ।
ध्रुवंप्रवेक्ष्यत्यमरारिवासमसौसमादायरणाग्रलक्ष्मीम् ॥ 71 ॥
ततस्तुताविंद्रजिदस्त्रजालैर्भभूवतुस्तत्रतथाविशस्तौ ।
स चापितौतत्रविदर्शयित्वाननादहर्षाद्युधिराक्षसेंद्रः ॥ 72 ॥
सतत्तदावानरसैन्यमेवंरामं च संख्येसहलक्ष्मणेन ।
विषादयित्वासहसाविवेशपुरींदशग्रीवभुजाभिगुप्ताम् ॥ 73 ॥
सन्स्तूयमानस्सतुयातुधानैः ।
पत्रे च सर्वंहृषितोऽभ्युवाच ॥ 74 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रिसप्ततितमस्सर्गः ॥