View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.79 युद्धकांड - एकोनाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोनाशीतितमस्सर्गः ।

निर्गतंमकराक्षंतेदृष्टवावानरपुंगवाः ।
आप्लुत्यसहसासर्वेयोद्धुकामाव्यवस्थिताः ॥ 1 ॥

ततःप्रवृत्तंसुमहत्तद्युद्धंरोमहर्षणम् ।
निशाचरैःप्लवंगानांदेवानांदानवैरिव ॥ 2 ॥

वृक्षशूलनिपातैश्चशिलापरिघपातनैः ।
अन्योन्यंमर्दयंतिस्मतदाकपिनिशाचराः ॥ 3 ॥

शक्तिखडगगदाकुंतैस्तोमरैश्चनिशाचराः ।
पट्टसैर्भिंढिपालैश्चबाणपातैःसमंततः ॥ 4 ॥

पाशमुद्गरदंडैश्चनिखातैश्चापरेस्तथा ।
कदनंकपिसिंहानांचक्रुस्तेरजनीचराः ॥ 5 ॥

बाणौघैरर्दिताश्चापिखरपुत्रेणवानराः ।
संभ्रांतमनसस्सर्वेदुद्रुवुर्भयपीडिताः ॥ 6 ॥

तांदृष्टवाराक्षसास्सर्वेद्रवमाणान्वलीमुखान् ।
नेदुस्तेसिम्हवद्दृष्टाराक्षसाजितकाशिनः ॥ 7 ॥

विद्रवत्सुतदातेषुवानरेषुसमंततः ।
रामस्तान्वारमायासशरवर्षेणराक्षसान् ॥ 8 ॥

रितान्राक्षसांदृष्टवामकराक्षोनिशाचरः ।
क्रोधानलसमाविष्टोवचनंचेदमब्रवीत् ॥ 9 ॥

तिष्ठराम मयासार्धंद्वंद्वयुद्धंददामिते ।
त्याजयिष्यामितेप्राणान् धनुर्मुक्सैशशितैश्शरैः ॥ 10 ॥

यत्तदादंडकारण्येपितरंहतवान्मम ।
तदग्रतःस्वकर्मस्थंदृष्टवारोषोऽभिवर्धते ॥ 11 ॥

दह्यंतेधृशमंगानिदुरात्मन्ममराघव ।
यन्मयासि न दृष्टस्त्वंतस्मिन् कालेमहावने ॥ 12 ॥

दिष्ट्यासिदर्शनंराम ममत्वंप्राप्तवानिह ।
कांक्षितोऽसिक्षुधार्तस्यसिंहस्येवेतरोमृगः ॥ 13 ॥

अद्यमद्बाणवेगेनप्रेतराडिवषयंगतः ।
येत्वयानिहताःशूराःसहतैश्चसमेष्यसि ॥ 14 ॥

बहुनात्रकिमुक्तेनशृणुराम वचोमम ।
पश्यंतुसकलालोकास्त्वा, मांचैवरणाजिरे ॥ 15 ॥

अस्त्रैर्वागदयावापिबाहुभ्यांवामहाहवे ।
अभ्यस्तंयेनवाराम तेनैवयुधिवर्तताम् ॥ 16 ॥

मकराक्ष्वचश्श्रुत्वारामोदशरथात्मजः ।
अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् ॥ 17 ॥

कत्थसेकिंवृथारक्षो बहून्यसदृशानिते ।
न रणेशक्यतेजेतुंविनायुद्धेनवाग्भलात् ॥ 18 ॥

चतुर्दशसहस्राणिरक्षसांत्वत्पिता च यः ।
त्रिशिरादूषणश्चापिदंडकेनिहतामया ॥ 19 ॥

स्वाशितास्तवमांसेनगृध्रगोमायुवायसाः ।
भविष्यंत्यद्यवैपाप तीक्ष्णतुंडनखांकुराः ॥ 20 ॥

राघवेणैवमुक्तस्तुमकराक्षोमहाबलः ।
बाणौघानमुचत्तस्मैराघवायरणाजिरे ॥ 21 ॥

तान्शरान् शरवर्षेणरामश्चिच्छेदनैकधा ।
निपेतुर्भुवितेछिन्नारुक्मपुंखास्सहस्रशः ॥ 22 ॥

तद्युद्धमभवत्तत्रसमेत्यान्योन्यमोजसा ।
खरराक्षसपुत्रस्यसूनोर्धशरथस्य च ॥ 23 ॥

जीमूतयोरिवाकाशेशब्दोज्यातलयोस्तदा ।
धनुर्मुक्तःस्वनोत्कृष्टश्श्रूयते च रणाजिरे ॥ 24 ॥

देवदानवगंधर्वाःकिन्नराश्चमहोरगाः ।
अंतरिक्षगतास्सर्वेद्रष्टुकामास्तदद्भुतम् ॥ 25 ॥

विद्धमन्योन्यगात्रेषुद्विगुणंवर्धतेपरम् ।
कृतप्रतिकृतान्योन्यंकुरुतांतौरणाजिरे ॥ 26 ॥

राममुक्तांस्तुबाणौघान् राक्षसस्त्वच्छिनद्रणे ।
रक्षोमुक्तांस्तुरामोवैनैकथाप्राच्छिनच्छरैः ॥ 27 ॥

बाणौघैर्विततास्सर्वादिशश्चप्रदिशस्तथा ।
संछन्नावसुधाचैवसमंतान्नप्रकाशते ॥ 28 ॥

तःक्रुद्धोमहाबाहुर्धनुच्शिच्छेदरक्षसः ।
अष्टाभिरथनाराचैस्सूतंविव्याधराघवः ॥ 29 ॥

भित्त्वारथंशरैरामोहत्वाआश्वानपातयत् ।
विरथोवसुधास्थश्चमकराक्षोनिशाचरः ॥ 30 ॥

तत्तिष्ठद्वसुधांरक्षश्शूलंजग्राहपाणिना ।
त्रासनंसर्वभूतानांयुगांताग्निसमप्रभम् ॥ 31 ॥

दुरवापं महच्छूलंरुद्रदत्तंभयंकरम् ।
जाज्वल्यमानमाकाशेसंहारास्त्रमिवापरम् ॥ 32 ॥

यंदृष्टवादेवताःसर्वाभयार्ताविद्रुतादिशः ।
विभ्राम्यतुमहच्छूलंप्रज्वलंतन्निशाचरः ॥ 33 ॥

स क्रोधाप्राहिणोत्तस्मैराघवायमहात्मने ।
तमापतंतंज्वलितंखरपुत्रकराच्च्युतम् ॥ 34 ॥

बाणैत्रिभिराकाशेशूलंचिच्छेदराघवः ।
सच्छन्नोनैकथाशूलोदिव्यहाटकमंडितः ॥ 35 ॥

व्यशीर्यतमहोल्केवरामबाणार्दितोभुवि ।
च्छूलंनिहतंदृष्टवारामेणाक्लिष्टकर्मणा ॥ 36 ॥

साधुसावधितिभूतानिव्याहरंतिनभोगताः ।
तंदृष्टवानिहतंशूलंमकराक्षोनिशाचरः ॥ 37 ॥

मुष्टिमुद्यम्यकाकुत्स्थंतिष्ठतिष्ठेतिचाब्रवीत् ।
सःतंदृष्टवाऽपतंतंवैप्रहस्यरघुनंदनः ॥ 38 ॥

पावकास्त्रंततोरामस्संदधेतुशरासने ।
तेनास्त्रणहतंरक्षःकाकुत्थ्सेनतदारणे ॥ 39 ॥

संचिन्नहृदयंतत्रपपात च ममार च ।
दृष्टवातेराक्षसास्सर्वेमकराक्षस्यपातनम् ॥ 40 ॥

लंकामेवप्रधावंतरामबाणभयार्दिताः ।
दशरथनृपसूनुबाणवेगैःरजनिचरंनिहतंखरात्मजंतम् ।
ददृशुरथदेवताःप्रहृष्टागिरिमववज्रहतंक्षितौकीर्णम् ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोनाशीतितमस्सर्गः ॥




Browse Related Categories: