View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.40 युद्धकांड - चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चत्वारिंशस्सर्गः ।

ततोरामस्सुवेलाग्रंयोजनद्वयमंडलम् ।
अरुरोहससुग्रीवोहरियूधपसम्वृतः ॥ 1 ॥

स्थित्वामुहूर्तंतत्रैवदिशोदशविलोकयन् ।
त्रिकूटशिखरेरम्येनिर्मितांविश्वकर्मणा ॥ 2 ॥

ददर्शलंकांसुन्यस्तांरम्यकाननशोभिताम् ।
तस्यांगोपुरशृंगस्थंराक्षसेंद्रंदुरासदम् ॥ 3 ॥

श्वेतचामरपर्यंतंविजयच्छत्रशोभितम् ।
रक्तचंदनसंलिप्तंरत्नाभरणभूषितम् ॥ 4 ॥

नीलजीमूतसंकाशंहेमसंछादितांबरम् ।
ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥ 5 ॥

शशलोहितरागेणसंवीतंरक्तवाससा ।
संध्यातपेनसंवीतंमेघराशिमिवांबरे ॥ 6 ॥

पश्यतांवानरेंद्राणांराघवस्यापिपश्यतः ।
दर्शनाद्राक्षसेंद्रस्यसुग्रीवस्सहसोत्थितः ॥ 7 ॥

क्रोधवेगेनसंयुक्तस्सत्त्वेनचबलेनच ।
अचलाग्रादथोत्थायपुप्लुवेगोपुरस्थले ॥ 8 ॥

स्थित्वामुहूर्तंसंप्रेक्ष्यनिर्भयेनांतरात्मना ।
तृणीकृत्यचतद्रक्षस्सोऽब्रवीत्परुषंवचः ॥ 9 ॥

लोकनाथस्यरामस्यसखादासोऽस्मिराक्षस ।
नमयामोक्ष्यसेऽद्यत्वंपार्थिवेंद्रस्यतेजसा ॥ 10 ॥

इत्युक्त्वासहसोत्पत्यपुप्लुवेतस्यचोपरि ।
आकृष्यमुकुटंचित्रंपातयित्वाऽपतद्भुवि ॥ 11 ॥

समीक्ष्यतूर्णमायांतमबभाषेनिशाचरः ।
सुग्रीवस्त्वपरोक्षं मेहीनग्रीवोभविष्यसि ॥ 12 ॥

इत्युक्त्वोत्थायतंक्षिप्रंबाहुभ्यामाक्षिपत्तले ।
कंतुवत्तंसमुत्थायबाहुभ्यामाक्षिपद्धरि ॥ 13 ॥

परस्परंस्वेदविदग्धगात्रौपरस्परंशोणितदिग्धदेहौ ।
परस्परंलशिष्टनिरुद्धचेष्टौपरस्परंशाल्मलिकिंशुकौयधा ॥ 14 ॥

मुष्टिप्रहारैश्चतलप्रहारैररत्निघातैश्चकराग्रघातैः ।
तौचक्रतुर्युद्धमसह्यरूपंमहाबलौराक्षसवानरेंद्रौ ॥ 15 ॥

कृत्वानियुद्धंभृशमुग्रवेगौकालंचिर, गोपुरवेदिमध्ये ।
उत्क्षिप्यचोत्क्षिप्यविनम्यदेहौपादक्रमाद्गोपुरवेदिलग्नौ ॥ 16 ॥

अन्योन्यमाविध्यवेदिलग्नौतौपेततुस्सालनिखातमध्ये ।
उत्पेततुर्भूतलमस्पृशंतौस्थित्वामुहूर्तंत्वभिनिश्श्वसंतौ ॥ 17 ॥

आलिङ् ग्यचालिङ् ग्यचबाहुयोक्स्रैस्संयोजयामासतुराहवेतौ ।
सम्रंभशिक्षाबलसंप्रयुक्तौसंचेरतुस्संप्रतियुद्धमार्गैः ॥ 18 ॥

शार्दूरसिंहाविवजातदर्पौगजेंद्रपोताविवसंप्रयुक्तौ ।
संहत्यचापीड्यचतावुरोभ्यांनिपेततुर्वैयुगपद्धरण्याम् ॥ 19 ॥

उद्यम्यचान्योन्यमधिक्षिपंतौसंचक्रमातेबहुयुद्धमार्गेः ।
व्यायामशिक्षाबलसंप्रयुक्तौक्लमंनतौजग्मतुराशुवीरौ ॥ 20 ॥

बाहूत्तमैर्वारणवारणाभैर्निवारयंतौवरवारणाभौ ।
चिरेणकालेनतुसंप्रयुक्तौसंचेरतुर्मंडलमार्गमाशु ॥ 21 ॥

तौपरस्परमासाद्ययत्तावन्योन्यसूदने ।
मार्जाराविवभक्ष्यार्थेऽवितस्थातेमुहुर्मुहुः ॥ 22 ॥

मंडलानिविचित्राणिस्थानानिविविधानिच ।
मूत्रकाणिचित्राणिगतप्रत्यागतानिच ॥ 23 ॥

तिरच्शीनगतान्येवतथावक्रगतानिच ।
परिमोक्षंप्रहाराणांवर्जनंपरिधावनम् ॥ 24 ॥

अभिद्रवणमाप्लावमावस्थानंसविग्रहम् ।
परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ॥ 25 ॥

उपन्यस्तपमन्यस्तंयुद्धमार्गविशारदौ ।
तौसंचेचेरतुरन्योन्यंवानरेंद्रश्चरावणः ॥ 26 ॥

एतस्मिन्नंतरेरक्षोमायाबलमथात्मनः ।
आरब्धुमुपसंपेदेज्ञात्वातंवानराधिपः ॥ 27 ॥

उत्पपाततदाकाशंजितकाशीजितक्लमः ।
रावणःस्थितएवात्रहरिराजेववंचितः ॥ 28 ॥

अथहरिवरनाथःप्राप्यसंग्रामकीर्तिंनिशिचरपतिमाजौयोजयित्वाश्रमेण ।
गगनमतिविशालंलंघयित्वार्कसूनुर्हरिगणमध्येरामपार्श्वंजगाम ॥ 29 ॥

इतिससवितृसूनुस्तत्रतत्कर्मकृत्वापवनगतिरनीकंप्राविशत्ससंप्रहृष्टः ।
रघुवरनृपसूनोद्वर्धयन्युद्धहर्षंतरुमृगगणमुख्यैःपूज्यमानोहरींद्रः ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चत्वारिंशस्सर्गः ॥




Browse Related Categories: