श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ चतुश्चत्वारिंशस्सर्गः ।
संदिष्टो राक्षसेंद्रेण प्रहस्तस्य सुतो बली ।
जंबुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ 1 ॥
रक्तमाल्यांबरधरस्स्रग्वी रुचिरकुंडलः ।
महान्विवृत्तनयनश्चंडस्समरदुर्जयः ॥ 2 ॥
धनुश्शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।
विष्फारयाणो वेगेन वज्राशनिसमस्वनम् ॥ 3 ॥
तस्य विष्फारघोषेण धनुषो महता दिशः ।
प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ 4 ॥
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।
हनुमान्वेगसंपन्नो जहर्ष च ननाद च ॥ 5 ॥
तं तोरणविटंकस्थं हनुमंतं महाकपिम् ।
जंबुमाली महाबाहुर्विव्याध निशितैश्शरैः ॥ 6 ॥
अर्धचंद्रेण वदने शिरस्येकेन कर्णिना ।
बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ 7 ॥
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।
शरदीवांबुजं फुल्लं विद्धं भास्कररश्मिना ॥ 8 ॥
तत्तस्य रक्तं रक्तेन रंजितं शुशुभे मुखम् ।
यथाकाशे महापद्मं सिक्तं चंदनबिंदुभिः ॥ 9 ॥
चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।
ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥ 10 ॥
तरसा तां समुत्पाट्य चिक्षेप बलवद्भली ।
तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ 11 ॥
विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चंडविक्रमः ।
सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ 12 ॥
भ्रामयंतं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।
चिक्षेप सुबहून्बाणान्जंबुमाली महाबलः ॥ 13 ॥
सालं चतुर्भिश्चिच्छेद वानरं पंचभिर्भुजे ।
उरस्येकेन बाणेन दशभिस्तु स्तनांतरे ॥ 14 ॥
स शरैः पूरिततनुः क्रोधेन महता वृतः ।
तमेव परिघं गृह्य भ्रामयामास वेगितः ॥ 15 ॥
अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः ।
परिघं पातयामास जंबुमालेर्महोरसि ॥ 16 ॥
तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।
न धनुर्न रथो नाश्वास्तत्रादृश्यंत नेषवः ॥ 17 ॥
स हतस्सहसा तेन जंबुमाली महाबलः ।
पपात निहतो भूमौ चूर्णितांगविभूषणः ॥ 18 ॥
जंबुमालिं च निहतं किंकरांश्च महाबलान् ।
चुक्रोध रावणश्शुत्वा कोपसंरक्तलोचनः ॥ 19 ॥
स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्त्रे निहते महाबले ।
अमात्यपुत्त्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥ 20 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे चतुश्चत्वारिंशस्सर्गः ॥