View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.30 युद्धकांड - त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रिंशस्सर्गः ।

ततस्तमक्षोभ्यबलंलंकाधिपतयेचराः ।
सुवेलेराघवंशैलेनिविष्टंप्रत्यवेदयन् ॥ 1 ॥

चाराणांरावणश्श्रुत्वाप्राप्तंरामंमहाबलम् ।
जातोद्वेगोऽभवत्किंचिच्छार्दूलंवाक्यमब्रवीत् ॥ 2 ॥

अयथावच्चतेवर्णोदीनश्चासिनिशाचर ।
नासिकच्चिदमित्राणांक्रुद्धानांवशमागतः ॥ 3 ॥

इतितेनानुशिष्टस्तुवाचंमंदमुदीरयत् ।
तदाराक्षसशार्दूलंशार्दूलोभयविह्वलः ॥ 4 ॥

नतेचारयितुंशक्याराजन्वानरपुंगवाः ।
विक्रांताबलवंतश्चराघवेणचरक्षिताः ॥ 5 ॥

नापिसंभाषितुंशक्यास्संप्रश्नोऽत्रनलभ्यते ।
सर्वतोरक्ष्यतेपंथावानरैःपर्वतोपमै ॥ 6 ॥

प्रविष्टमात्रेज्ञातोऽहंबलेतस्मिन्नचारिते ।
बलाद्गृहीतोरक्षोभिर्बहुधाऽस्मिविचालितः ॥ 7 ॥

जानुभिर्मुष्टिभिर्दंतेस्तलैश्चाभिहतोभृशम् ।
परिणीतोऽस्मिहरिभिर्बलवद्भिरमर्षणैः ॥ 8 ॥

परिणीयचसर्वत्रनीतोऽहंरामसंसदम् ।
रुधिरादिग्धसर्वांगोविह्वलश्चलितेंद्रियः ॥ 9 ॥

हरिभिर्वध्यमानश्चयाचमानःकृतांजलिः ।
राघवेणपरित्रातोजीवामीतियदृच्छया ॥ 10 ॥

एषशैलैश्शिलाभिश्चपूरयित्वामहार्णवम् ।
द्वारमाश्रित्यलंकायारामस्तिष्ठतिसायुधः ॥ 11 ॥

गरुडव्यूहमास्थायसर्वतोहरिभिर्वृतः ।
मांविसृज्यमहातेजालंकामेवाभिवर्तते ॥ 12 ॥

पुराप्राकारमायातिक्षिप्रमेकतरंकुरु ।
सीतांवास्मैप्रयच्छाशुयुद्धंवाप्रदीयताम् ॥ 13 ॥

मनसातंतदाप्रेक्ष्यतच्छ्रुत्वाराक्षसाधिपः ।
शार्दूलंसुमहद्वाक्यमथोवाचसरावणः ॥ 14 ॥

यदिमांप्रतियुध्येरंदेवगंधर्वदानवाः ।
नैवसीतांप्रदास्यामिसर्वलोकभयादपि ॥ 15 ॥

एवमुक्त्वामहातेजारावणःपुनरब्रवीत् ।
चरिताभवतासेनाकेऽत्रशूराःप्लवंगमाः ॥ 16 ॥

कीदृशाः किंप्रभाः सौम्यवानरायेदुरासदाः ।
कस्यपुत्राश्चपौत्राश्चतत्त्वमाख्याहिराक्षसः ॥ 17 ॥

तथात्रप्रतिपत्स्यामिज्ञात्वातेषांबलाबलम् ।
अवश्यंबलसङ् ख्यानंकर्तव्यंयुद्धमिच्छताम् ॥ 18 ॥

अथैवमुक्तश्शार्दूलोरावणेनोत्तमश्चरः ।
इदंवचनमारेभेवक्तुंरावणसन्निधौ ॥ 19 ॥

अथर्क्षरजसःपुत्रोयुधिराजासुदुर्जयः ।
गद्गदस्याथपुत्त्रोऽत्रजांबवानितिविश्रुतः ॥ 20 ॥

गद्गदस्यैवपुत्त्रोऽन्योगुरुपुत्रः शतक्रतोः ।
कदनंयस्यपुत्रेणकृतमेकेनरक्षसाम् ॥ 21 ॥

सुषेणश्चापिधर्मात्मापुत्रोधर्मस्यवीर्यवान् ।
सौम्यस्सोमात्मजश्चात्रराजन् दधिमुखःकपिः ॥ 22 ॥

सुमुखोदुर्मुखश्चात्रवेगदर्शीचवानरः ।
मृत्युर्वानररूपेणनूनंसृष्टस्स्वयंभुवा ॥ 23 ॥

पुत्त्रोहुतवहस्याथनीलस्सेनापतिस्स्वयम् ।
अनिलस्यचपुत्त्रोऽत्रहनूमानितिविश्रुतः ॥ 24 ॥

नप्ताशक्रस्यदुर्धर्षोबलवानंगदोयुवा ।
मैंदश्चद्विविदश्चोभौबलिनावश्विसंभवौ ॥ 25 ॥

पुत्त्रावैवस्वतस्यात्रपंचकालांतकोपमाः ।
गजोगवाक्षोगवयश्शरभोगंधमादनः ॥ 26 ॥

दशवानरकोट्यश्चशूराणांयुद्धकांक्षिणाम् ।
श्रीमतांदेवपुत्त्राणांशेषंनाख्यातुमुत्सहे ॥ 27 ॥

पुत्त्रोदशरथस्यैषसिंहसंहनोयुवा ।
दूषणोनिहतोयेनखरश्चत्रिशिरास्तथा ॥ 28 ॥

नास्तिरामस्यसदृशोविक्रमेभुविकश्चन ।
विराधोनिहतोयेनकबंधश्चांतकोपमः ॥ 29 ॥

वक्तुंनशक्तोरामस्यनरःकश्चिद्गुणान् क्षितौ ।
जनस्थानगतायेनयावंतोराक्षसाहताः ॥ 30 ॥

लक्ष्मणश्चात्रधर्मात्मामातंगानामिवर्षभः ।
यस्यबाणपथंप्राप्यनजीवेदपिवासवः ॥ 31 ॥

श्वेतोज्योतिर्मुखश्चात्रभास्करस्यात्मसंभवौ ।
वरुणस्यचपुत्त्रोऽन्योःहेमकूटःप्लवंगमः ॥ 32 ॥

विश्वकर्मसुतोवीरोनलःप्लवगसत्तमः ।
विक्रांतोबलवानत्रवसुपुत्रस्सदुर्धरः ॥ 33 ॥

राक्षसानांवरिष्ठश्चतवभ्रातावीभीषणः ।
प्रतिगृह्यपुरींलंकांराघवस्यहितेरतः ॥ 34 ॥

इतिसर्वंसमाख्यातंतवेदंवानरंबलम् ।
सुवेलेऽधिष्ठितंशैलेशेषकार्येभवान्गतिः ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रिंशस्सर्गः ॥




Browse Related Categories: