View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

4.67 किष्किंधाकांड - सप्तषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ सप्तषष्टितमस्सर्गः ।

तं दृष्ट्वा जृंभमाणं ते क्रमितुं शतयोजनम् ।
वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ 1 ॥

सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः ।
विनेदुस्तुष्टुवुश्चापि हनूमंतं महाबलम् ॥ 2 ॥

प्रहृष्टा विस्मिताश्चैव वीक्षंते स्म समंततः ।
त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥ 3 ॥

संस्तूयमानो हनुमान्व्यवर्धत महाबलः ।
समाविध्य च लांगूलं हर्षाद्बलमुपेयिवान् ॥ 4 ॥

तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैः ।
तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥ 5 ॥

यथा विजृंभते सिंहो विवृद्धो गिरिगह्वरे ।
मारुतस्यौरसः पुत्रस्तथा संप्रति जृंभते ॥ 6 ॥

अशोभत मुखं तस्य जृंभमाणस्य धीमतः ।
अंबरीषमिवाऽदीप्तं विधूम इव पावकः ॥ 7 ॥

हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहः ।
अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत् ॥ 8 ॥

अरुजत्सर्वताग्राणि हुताशनसखोऽनिलः ।
बलवानप्रमेयश्च वायुराकाशगोचरः ॥ 9 ॥

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।
मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः ॥ 10 ॥

उत्सहेयं हि विस्तीर्णमालिखंतमिवांबरम् ।
मेरुं गिरिमसंगेन परिगंतुं सहस्रशः ॥ 11 ॥

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।
समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥ 12 ॥

ममोरुजंघावेगेन भविष्यति समुत्थितः ।
सम्मूर्च्छितमहाग्राहस्समुद्रो वरुणालयः ॥ 13 ॥

पन्नगाशनमाकाशे पतंतं पक्षिसेविते ।
वैनतेयमहं शक्तः परिगंतुं सहस्रशः ॥ 14 ॥

उदयात्प्रस्थितं वापि ज्वलंतं रश्मिमालिनम् ।
अनस्तमितमादित्यमभिगंतुं समुत्सहे ॥ 15 ॥

ततो भूमिमसंस्पृश्य पुनरागंतुमुत्सहे ।
प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ 16 ॥

उत्सहेयमतिक्रांतुं सर्वानाकाशगोचरान् ।
सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् ॥ 17 ॥

पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवंगमाः ।
हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ॥ 18 ॥

लतानां विविधं पुष्पं पादपानां च सर्वशः ।
अनुयास्यंति मामद्य प्लवमानं विहायसा ॥ 19 ॥

भविष्यति हि मे पंथास्स्वातेः पंथा इवांबरे ।
चरंतं घोरमाकाशमुत्पतिष्यंतमेव वा ॥ 20 ॥

द्रक्ष्यंति निपतिष्यंतं च सर्वभूतानि वानराः ।
महामेरुप्रतीकाशं मां द्रक्ष्यथ वानराः ॥ 21 ॥

दिवमावृत्य गच्छंतं ग्रसमानमिवांबरम् ।
विधमिष्यामि जीमूतान्कंपयिष्यामि पर्वतान् ॥ 22 ॥

सागरं शोषयिष्यामि प्लवमानस्समाहितः ।
वैनतेयस्य या शक्तिर्मम सा मारुतस्य वा ॥ 23 ॥

ऋते सुपर्णराजानं मारुतं वा महाजवम् ।
न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ॥ 24 ॥

निमेषांतरमात्रेण निरालंबनमंबरम् ।
सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ॥ 25 ॥

भविष्यति हि मे रूपं प्लवमानस्य सागरे ।
विष्णोर्विक्रममाणस्य पुरा त्रीन्विक्रमानिव ॥ 26 ॥

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः ॥ 27 ॥

मारुतस्य समो वेगे गरुडस्य समो जवे ।
अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥ 28 ॥

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयंभुवः ।
विक्रम्य सहसा हस्तादमृतं तदिहानये ॥ 29 ॥

लंकां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ।
तमेवं वानरश्रेष्ठं गर्जंतममितौजसम् ॥ 30 ॥

प्रहृष्टा हरयस्तत्र समुदैक्षंत विस्मिताः ।
तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ 31 ॥

उवाच परिसंहृष्टो जांबवान्हरिसत्तमः ।
वीर केसरिणः पुत्र हनुमान्मारुतात्मज ॥ 32 ॥

ज्ञातीनां विपुलश्शोकस्त्वया तात प्रणाशितः ।
तव कल्याणरुचयः कपिमुख्यास्समागताः ॥ 33 ॥

मंगलं कार्यसिद्ध्यर्थं करिष्यंति समाहिताः ।
ऋषीणां च प्रसादेन कपिवृद्धमतेन च ॥ 34 ॥

गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ।
स्थास्यामश्चैकपादेन यावदागमनं तव ॥ 35 ॥

त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम् ।
ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ॥ 36 ॥

नेयं मम मही वेगं लंघने धारयिष्यति ।
एतानीह नगस्यास्य शिलासंकटशालिनः ॥ 37 ॥

शिखराणि महेंद्रस्य स्थिराणि सुमहांति च ।
एषु वेगं करिष्यामि महेंद्रशिखरेष्वहम् ॥ 38 ॥

नानाद्रुमविकीर्णेषु धातुनिष्यंदशोभिषु ।
एतानि मम निष्पेषं पादयोः प्लवतां वराः ॥ 39 ॥

प्लवतो धारयिष्यंति योजनानामितश्शतम् ।
ततस्तं मारुतप्रख्यस्सहरिर्मारुतात्मजः ॥ 40 ॥

आरुरोह नगश्रेष्ठं महेंद्रमरिमर्दनः ।
वृतं नानाविधैः वृक्षैर्मृगसेवितशाद्वलम् ॥ 41 ॥

लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् ।
सिंहशार्दूलचरितं मत्तमातंगसेवितम् ॥ 42 ॥

मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम् ।
महद्भिरुच्छ्रितं शृंगैर्महेंद्रं स महाबलः ॥ 43 ॥

विचचार हरिश्रेष्ठो महेंद्रसमविक्रमः ।
पादाभ्यां पीडितस्तेन महाशैलो महात्मना ॥ 44 ॥

रराज सिंहाभिहतो महान्मत्त इव द्विपः ।
मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः ॥ 45 ॥

वित्रस्तमृगमातंगः प्रकंपितमहाद्रुमः ।
नानागंधर्वमिथुनैः पानसंसर्गकर्कशैः ॥ 46 ॥

उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि ।
त्यज्यमानमहासानुस्सन्निलीनमहोरगः ॥ 47 ॥

चलशृंगशिलोद्घातस्तदाऽभूत्स महागिरिः ।
निश्श्वसद्भिस्तदाऽर्तैस्तु भुजंगैरर्धनिःसृतैः ॥ 48 ॥

सपताक इवाभाति स तदा धरणीधरः ।
ऋषिभिस्त्राससंभ्रांतैस्त्यज्यमानः शिलोच्चयः ॥ 49 ॥

सीदन्महति कांतारे सार्थहीन इवाध्वगः ।
सवेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहंता ।
मनस्समाधाय महानुभावो जगाम लंकां मनसा मनस्वी ॥ 50 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे सप्तषष्टितमस्सर्गः ॥




Browse Related Categories: