View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

1.39 बालकांड - एकोनचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकोनचत्वारिंशस्सर्गः ।

विश्वामित्रवचश्श्रुत्वा कथाऽंते रघुनंदनः ।
उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥ 1 ॥

श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् ।
पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥ 2 ॥

विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ।
श्रूयतां विस्तरो राम सगरस्य महात्मनः ॥ 3 ॥

शंकरश्वशुरो नाम हिमवानचलोत्तमः ।
विंध्यपर्वतमासाद्य निरीक्षेते परस्परम् ॥ 4 ॥

तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञ स्सपुरुषोत्तम ।
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ॥ 5 ॥

तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ।
अंशुमानकरोत्तात सगरस्य मते स्थितः ॥ 6 ॥

तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ।
राक्षसीं तनुमास्थाय यज्ञीयाश्वमपाहरत् ॥ 7 ॥

ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ।
उपाध्यायगणास्सर्वे यजमानमथाब्रुवन् ॥ 8 ॥

अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ।
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ॥ 9 ॥

यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः ।
तत्तथा क्रियतां राजन् यथाऽच्छिद्रः क्रतुर्भवेत् ॥ 10 ॥

उपाध्यायवच श्श्रुत्वा तस्मिन् सदसि पार्थिवः ।
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥ 11 ॥

गतिं पुत्राः न पश्यामि रक्षसां परुषर्षभाः ।
मंत्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ॥ 12 ॥

तद्गच्छत विचिन्वध्वं पुत्रकाः भद्रमस्तु वः ।
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ॥ 13 ॥

एकैकयोजनं पुत्रा विस्तारमधिगच्छत ।
यावत्तुरगसंदर्शः तावत् खनत मेदिनीम् ।
तं चैव हयहर्तारं मार्गमाणा ममाज्ञया ॥ 14 ॥

दीक्षितः पौत्रसहितस्सोपाध्यायगणो ह्यहम् ।
इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम् ॥ 15 ॥

इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः ।
जग्मुर्महीतलं राम पितुर्वचनयंत्रिताः ॥ 16 ॥

योजनायामविस्तारमेकैको धरणीतलम् ।
बिभिदुः परुषव्याघ्र वज्रस्पर्शसमैर्नखैः ॥ 17 ॥

शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।
भिद्यमाना वसुमती ननाद रघुनंदन ॥ 18 ॥

नागानां मथ्यमानानामसुराणां च राघव ।
राक्षसानां च दुर्धर्षस्सत्त्वानां निनदोऽभवत् ॥ 19 ॥

योजनानां सहस्राणि षष्टिं तु रघुनंदन ।
बिभिदुर्धरणीं वीराः रसातलमनुत्तमम् ॥ 20 ॥

एवं पर्वतसंबाधं जंबूद्वीपं नृपात्मजाः ।
खनंतो नरशार्दूल सर्वतः परिचक्रमुः ॥ 21 ॥

ततो देवास्सगंधर्वास्सासुरास्सहपन्नगाः ।
संभ्रांतमनसस्सर्वे पितामहमुपागमन् ॥ 22 ॥

ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।
ऊचुः परमसंत्रस्ता पितामहमिदं वचः ॥ 23 ॥

भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः ।
बहवश्च महात्मानो हन्यंते तलवासिनः ॥ 24 ॥

अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते ।
इति ते सर्वभूतानि निघ्नंति सगरात्मजाः ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकोनचत्वारिंशस्सर्गः ॥




Browse Related Categories: