View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

1.28 बालकांड - अष्टाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ अष्टाविंशस्सर्गः ।

प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनश्शुचिः ।
गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥ 1 ॥

गृहीतास्त्रोऽस्मि भगवन् दुराधर्षस्सुरैरपि ।
अस्त्राणां त्वहमिच्छामि संहारं मुनिपुंगव ॥ 2 ॥

एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः ।
संहारं व्याजहाराथ धृतिमान् सुव्रतश्शुचिः ॥ 3 ॥

सत्यवंतं सत्यकीर्तिं धृष्टं रभसमेव च ।
प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥ 4 ॥

लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ ।
दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥ 5 ॥

पद्मनाभमहानाभौ दुंदुनाभसुनाभकौ ।
ज्योतिषं कृशनं चैव नैराश्यविमलावुभौ ॥ 6 ॥

योगंधरहरिद्रौ च दैत्यप्रशमनौतथा ।
सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा ॥ 7 ॥

पितृसौमनसं चैव विधूतमकरावुभौ ।
करवीरकरं चैव धनधान्यौ च राघव ॥ 8 ॥

कामरूपं कामरुचिं मोहमावरणं तथा ।
जृंभकं सर्वनाभं च संतानवरणौ तथा ॥ 9 ॥

भृशाश्वतनयान् राम भास्वरान्कामरूपिणः ।
प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥ 10 ॥

बाढमित्येव काकुत्स्थः प्रहृष्टेनांतारात्मना ।
दिव्यभास्वरदेहाश्च मूर्तिमंतस्सुखप्रदाः ॥ 11 ॥

केचिदंगारसदृशाः केचिद्धूमोपमास्तथा ।
चंद्रार्कसदृशाः केचित्प्रह्वांजलिपुटास्तथा ॥ 12 ॥

रामं प्रांजलयो भूत्वाऽब्रुवन् मधुरभाषिणः ।
इमे स्म नरशार्दूल शाधि किं करवाम ते ॥ 13 ॥

मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ।
गम्यतामिति तानाह यथेष्टं रघुनंदनः ॥ 14 ॥

अथ ते राममामंत्ऱ्य कृत्वा चापि प्रदक्षिणम् ।
एवमस्त्विति काकुत्स्थमुक्त्वाजग्मुर्यथाऽगतम् ॥ 15 ॥

स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।
गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥ 16 ॥

किन्न्वेतन्मेघसंकाशं पर्वतस्याविदूरतः ।
वृक्षषंडमितो भाति परं कौतूहलं हि मे ॥ 17 ॥

दर्शनीयं मृगाकीर्णं मनोरममतीव च ।
नानाप्रकारैश्शकुनैर्वल्गुनादैरलंकृतम् ॥ 18 ॥

निस्सृताः स्म मुनिश्रेष्ठ कांताराद्रोमहर्षणात् ।
अनया त्ववगच्छामि देशस्य सुखवत्तया ॥ 19 ॥

सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ।
संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥ 20 ॥

तव यज्ञस्य विघ्नाय दुरात्मानो महामुने ।
भगवन् तस्य को देशस्सा यत्र तव याज्ञिकी ॥ 21 ॥

रक्षितव्या क्रिया ब्रह्मन्मया वध्याश्च राक्षसाः ।
एतत्सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे अष्टाविंशस्सर्गः ॥




Browse Related Categories: