View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

2.64 अयोध्याकांड - चतुःषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुःषष्टितमस्सर्गः ।

वधमप्रतिरूपं तु महर्षेस्तस्य राघवः ।
विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत् ॥ 1 ॥

तदज्ञानान्महत्पापं कृत्वाहं संकुलेंद्रियः ।
एकस्त्वचिंतयं बुध्या कथं नु सुकृतं भवेत् ॥ 2 ॥

ततस्तं घटमादाय पूर्णं परमवारिणा ।
आश्रमं तमहं प्राप्य यथाऽख्यातपथं गतः ॥ 3 ॥

तत्राहं दुर्बलावंधौ वृद्धावपरिणायकौ ।
अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ॥ 4 ॥

तन्निमित्ताभिरासीनौ कथाभिरपरिश्रमौ ।
तामाशां मत्कृते हीनावुदासीनावनाथवत् ॥ 5 ॥

शोकोपहतचित्तश्च भयसंत्रस्तचेतनः ।
तच्चाऽश्रमपदं गत्वा भूयश्शोकमहं गतः ॥ 6 ॥

पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत ।
किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥ 7 ॥

यन्निमित्तमिदं तात सलिले क्रीडितं त्वया ।
उत्कंठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥ 8 ॥

यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया ।
न तन्मनसि कर्तव्यं त्वया तात तपस्विना ॥ 9 ॥

त्वं गतिस्त्वगतीनां चक्षुस्त्वं हीनचक्षुषाम् ।
समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे ॥ 10 ॥

मुनिमव्यक्तया वाचा तमहं सज्जमानया ।
हीनव्यंजनया प्रेक्ष्य भीतचित्त इवाब्रुवम् ॥ 11 ॥

मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् ।
आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ 12 ॥

क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः ।
सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ॥ 13 ॥

भगवंश्चापहस्तोऽहं सरयूतीरमागतः ।
जिघांसुश्श्वापदं कंचिन्निपाने चाऽगतं गजम् ॥ 14 ॥

ततश्श्रुतो मया शब्दो जले कुंभस्य पूर्यतः ।
द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतो मया ॥ 15 ॥

गत्वा नद्यास्तत स्तीरमपश्यमिषुणा हृदि ।
विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥ 16 ॥

भगवच्छशब्दमालक्ष्य मया गजजिघांसुना ।
विसृप्टोऽंभसि नाराचस्तेन ते निहतस्सुतः ॥ 17 ॥

ततस्तस्यैव वचनादुपेत्य परितप्यतः ।
स मया सहसा बाण उधृतो मर्मतस्तदा ॥ 18 ॥

स चोधृतेन बाणेन तत्रैव स्वर्गमास्थितः ।
भवंतौ पितरौ शोचन्नंधाविति विलप्य च ॥ 19 ॥

अज्ञानाद्भवतः पुत्र स्सहसाऽभिहतो मया ।
शेषमेवं गते यत्स्यात्तत्प्रसीदतु मे मुनिः ॥ 20 ॥

स तच्च्रुत्वा वचः क्रूरं मयोक्तमघशंसिना ।
नाशकत्तीव्रमायासमकर्तुं भगवानृषिः ॥ 21 ॥

स बाष्पपूर्णवदनो निश्श्वसन्शोककर्शितः ।
मामुवाच महातेजाः कृतांजलिमुपस्थितम् ॥ 22 ॥

यद्येतदशुभं कर्म न त्वं मे कथयेस्स्वयम् ।
फलेन्मूर्धा स्म ते राजन् सद्य श्शतसहस्रधा ॥ 23 ॥

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।
ज्ञानपूर्वं कृत स्स्थानाच्च्यावयेदपि वज्रिणम् ॥ 24 ॥

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।
ज्ञानाद्विसृजतश्शस्त्रं तादृशे ब्रह्मावादिनि ॥ 25 ॥

अज्ञानाद्धिकृतं यस्मादिदं तेनैव जवसि ।
अपि ह्यद्य कुलं न स्यादिक्ष्वाकूणां कुतो भवान् ॥ 26 ॥

नय नौ नृप तं देशमिति मां चाभ्यभाषत ।
अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ 27 ॥

रुधिरेणावसिक्तांगं प्रकीर्णाजिनवाससम् ।
शयानं भुवि निस्संज्ञं धर्म राजवशं गतम् ॥ 28 ॥

अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ ।
अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया ॥ 29 ॥

नाभिवादयसे माद्य न च माऽमभिभाषसे ।
किं नु शेषे तु भूमौ त्वं वत्स किं कुपितो ह्यसि ॥ 30 ॥

न त्वहं ते प्रियं पुत्र मातरं पश्य धार्मिक ।
किं नु नालिंगसे पुत्र सुकुमार वचो वद ॥ 31 ॥

कस्य वाऽपररात्रेऽहं श्रोष्यामि हृदयंगमम् ।
अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः ॥ 32 ॥

को मां संद्यामुपास्यैव स्नात्वा हुतहुताशनः ।
श्लाघयिष्यत्युपासीनः पुत्र शोकभयार्दितम् ॥ 33 ॥

कंदमूलफलं हृत्वा को मां प्रियमिवातिथिम् ।
भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् ॥ 34 ॥

इमामंधां च वृद्धां च मातरं ते तपस्विनीम् ।
कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥ 35 ॥

तिष्ठ मां मागमः पुत्र यमस्य सदनं प्रति ।
श्वो मया सह गंतासि जनन्या च समेधितः ॥ 36 ॥

ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् ।
क्षमतां धर्मराजो मे बिभृयात्पितरावयम् ॥ 37 ॥

दातुमर्हति धर्मात्मा लोकपालो महायशाः ।
ईदृशस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥ 38 ॥

अपापोऽसि यदा पुत्र निहतः पापकर्मणा ।
तेन सत्येन गच्छाऽऽशु ये लोकाश्शस्त्रयोधिनाम् ॥ 39 ॥

यांति शूरा गतिं यां च संग्रामेष्वनिवर्तिनः ।
हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज ॥ 40 ॥

यां गतिं सगरश्शैब्यो दिलीपो जनमेजयः ।
नहुषो दुंदुमारश्च प्राप्तास्तां गच्छ पुत्रक ॥ 41 ॥

या गति स्सर्वसाधूनां स्वाध्यायात्तपसाच या ।
या भूमिदस्याहिऽताग्नेरेकपत्नी व्रतस्य च ॥ 42 ॥

गोसहस्रप्रदातृणां या या गुरुभृतामपि ।
देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ॥ 43 ॥

न हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम् ।
स तु यास्यति येन त्वं निहतो मम बांधवः ॥ 44 ॥

एवं स कृपणं तत्र पर्यदेवयतासकृत् ।
ततोऽस्मै कर्तुमुदकं प्रवृत्तस्सहभार्यया ॥ 45 ॥

स तु दिव्येन रूपेण मुनिपुत्रस्स्वकर्मभिः ।
स्वर्गमध्यारुहत्क्षिप्रं शक्रेण सह धर्मवित् ॥ 46 ॥

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।
आश्वास्यच मुहूर्तं तु पितरौ वाक्यमब्रवीत् ॥ 47 ॥

स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् ।
भवंतावपि च क्षिप्रं मम मूलमुपैष्यतः ॥ 48 ॥

एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता ।
आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेंद्रियः ॥ 49 ॥

स कृत्वा तूदकं तूर्णं तापस स्सह भार्यया ।
मामुवाच महातेजाः कृतांजलिमुपस्थितम् ॥ 50 ॥

अद्यैव जहिं मां राजन्मरणे नास्ति मे व्यथा ।
यच्छरेणैकपुत्रं मां त्वमकर्षीरपुत्रकम् ॥ 51 ॥

त्वया तु यदविज्ञानान्निहतो मे सुतश्शुचिः ।
तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ॥ 52 ॥

पुत्रव्यसनजं दुःखं यदेतन्मम सांप्रतम् ।
एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसि ॥ 53 ॥

अज्ञानात्तु हतो यस्मात्क्षत्रियेण त्वया मुनिः ।
तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप ॥ 54 ॥

त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।
जीवितांतकरो घोरो दातारमिव दक्षिणा ॥ 55 ॥

एवं शापं मयि न्यस्य विलप्य करुणं बहु ।
चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ॥ 56 ॥

तदेतच्छिंतयानेन स्मृतं पापं मया स्वयम् ।
तदा बाल्यात्कृतं देवि शब्दवेध्यनुशिक्षिणा ॥ 57 ॥

तस्यायं कर्मणो देवि विपाकस्समुपस्थितः ।
अपथ्यैस्सहंभुक्ते व्याधिरन्नरसे यथा ॥ 58 ॥

तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः ।
यदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम् ॥ 59 ॥

चक्षुभ्यां त्वां न पश्यामि कौसल्ये साधु मां स्फृश ।
इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः ॥ 60 ॥

एतन्मे सदृशं देवि यन्मया राघवे कृतम् ।
सदृशं तत्तु तस्यैव यदनेन कृतं मयि ॥ 61 ॥

दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः ।
कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः ॥ 62 ॥

यदि मां संस्पृशेद्रामस्सकृदद्य लभेत वा ।
यमक्षयमनुप्राप्ता द्रक्ष्यंति न हि मानवाः ॥ 63 ॥

चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते ।
दूता वैवस्वतस्यैते कौसल्ये त्वरयंति माम् ॥ 64 ॥

अतस्तु किं दुःखतरं यदहं जीवितक्षये ।
न हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ॥ 65 ॥

तस्यादर्शनजश्शोकस्सुतस्याप्रतिकर्मणः ।
उच्छोषयति मे प्राणान्वारिस्तोकमिवातपः ॥ 66 ॥

न ते मनुष्या देवास्ते ये चारुशुभकुंडलम् ।
मुखं द्रक्ष्यंति रामस्य वर्षे पंचदशे पुनः ॥ 67 ॥

पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् ।
धन्या द्रक्ष्यंति रामस्य ताराधिपनिभं मुखम् ॥ 68 ॥

सदृशं शारदस्येंदोः पुल्लस्य कमलस्य च ।
सुगंधि मम नाथस्य धन्या द्रक्ष्यंति तन्मुखम् ॥ 69 ॥

निवृत्तवनवासं तमयोध्यां पुनरागतम् ।
द्रक्ष्यंति सुखिनो रामं शुक्रं मार्गगतं यथा ॥ 70 ॥

कौसल्ये चित्तमोहेन हृदयं सीदतीव मे ।
वेदये न च संयुक्तान् शब्दस्पर्शरसानहम् ॥ 71 ॥

चित्तनाशाद्विपद्यंते सर्वाण्येंद्रियाणि मे ।
क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा ॥ 72 ॥

अयमात्मभवश्शोको मामनाथमचेतनम् ।
संसादयति वेगेन यथा कूलं नदीरयः ॥ 73 ॥

हा राघव महाबाहो हा ममाऽयासनाशन ।
हा पितृप्रिय मे नाथ हाऽद्य क्वासि गतस्सुत ॥ 74 ॥

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।
हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ॥ 75 ॥

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
राजा दशरथ श्शोचंजीवितांतमुपागमत् ॥ 76 ॥

यदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्त्रस्य विवासनातुरः ।
गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः ॥ 77 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुःषष्टितमस्सर्गः ॥




Browse Related Categories: