View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.111 युद्धकांड - एकादशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकादशाधिकशततमस्सर्गः ।

अथसंस्मारयामासमातलिराघवंतदा ।
अजानन्निवकिंवीरत्वमेनमनुवर्तसे ॥ 1 ॥

विसृजास्मैवधायत्वमस्त्रंपैतामहंप्रभो ।
विनाशकालःकथितोःयःसुरैःसोऽद्यवर्तते ॥ 2 ॥

ततःसंस्मारितोरामस्तेनवाक्येनमातलेः ।
जग्राह स शरंदीप्तंनिःश्वसंतमिवोरगम् ॥ 3 ॥

यंतस्मैप्रथमंप्रादादगस्त्योभगवानृषिः ।
ब्रह्मदत्तंमहाबाणममोघंयुधिवीर्यवान् ॥ 4 ॥

ब्रह्मणानिर्मितंपूर्वमिंद्रार्थममितौजसा ।
दत्तंसुरपतेःपूर्वंत्रिलोकजयकांक्षिणः ॥ 5 ॥

यस्यवाजेषुपवनःफलेपावकभास्करौ ।
शरीरमाकाशमयंगौरवेमेरुमंदरौ ॥ 6 ॥

जाज्वल्यमानंवपुषासुपुंखंहेमभूषितम् ।
तेजसासर्वभूतानांकृतंभास्करवर्चसम् ॥ 7 ॥

सधूममिवकालानगिंदीप्तमाशीविषोपमम् ।
नरनागाश्ववृद्धानांभेदनंक्षिप्रकारिणम् ॥ 8 ॥

द्वाराणांपरिघाणां च गिरीणांचापिभेदनम् ।
नानारुधिरदिग्धांगंमेदोदिग्धंसुदारुणम् ॥ 9 ॥

वज्रसारंमहानादंनानासमितिदारणम् ।
सर्ववित्रासनंभीमंश्वसंतमिवपन्नगम् ॥ 10 ॥

कंकगृध्रबकानां च गोमायुगणरक्षसाम् ।
नित्यंभक्षप्रदंयुद्धेयमरूपंभयापहम् ॥ 11 ॥

नंदनंवानरेंद्राणांरक्षसामवसादनम् ।
वाजितंविविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ॥ 12 ॥

तमुत्तमेषुंलोकानामिक्ष्वाकुभयनाशनम् ।
द्विषतांकीर्तिहरणंप्रहर्षकरमात्मनः ॥ 13 ॥

अभिम्नत्यततोरामस्तंमहेषुंमहाबलः ।
वेदप्रोक्तेनविधिनासंदधेकार्मुकेबली ॥ 14 ॥

तस्मिन् सधनीयमानेतुराघवेणशरोत्तमे ।
सर्वभूतानिसंत्रेसुश्चचाल च वसुंधरा ॥ 15 ॥

स रावणायसङ्रुद्धोभृशमायम्यकार्मुकम् ।
चिक्षेपपरमायत्तःशरंमर्मविदारणम् ॥ 16 ॥

सर्वलोकेश्वरः श्रीमान् लोकानां हितकाम्यया ।
सराक्षस परीवारं हतवांस्त्वां महाद्युतिः ॥ 17 ॥

स विसृष्टोमहावेगश्शरीरांतकरश्शरः ।
चिच्छेदहृदयंतस्यरावणस्यदुरात्मनः ॥ 18 ॥

रुधिराक्तस्सवेगेनशरीरांतकरःशरः ।
रावणस्यहरन्प्राणान्विवेशधरणीतलम् ॥ 19 ॥

स शरोरावणंहत्वारुधिरार्द्रीकृतच्छविः ।
कृतकर्मानिभृतवत्स्वतूणींपुनराविशत् ॥ 20 ॥

तस्यहस्ताद्धतस्याशुकार्मुकं च ससायकम् ।
निपपातसहप्राणैर्भ्रश्यमानस्यजीवितात् ॥ 21 ॥

गतासुर्भीमवेगस्तुनैरृतेंद्रोमहाद्युतिः ।
पपातस्यंदनाद्भूमौवृत्रोवज्रहतोयथा ॥ 22 ॥

तंदृष्टवापतितंभूमौहतशेषानिशाचराः ।
हतनाधाभयत्रस्तास्सर्वतस्संप्रदुद्रुवुः ॥ 23 ॥

सर्वतश्चाभिपेतुस्तान्वानराद्रुमयोधिनः ।
दशग्रीववधंदृष्टवावानराजितकाशिनः ॥ 24 ॥

अर्दितावानरैर्भ्रष्टालंकामभ्यपतन् भयात् ।
हताश्रयात्वात्करुणैर्भाष्पप्रस्रवणैर्मुखैः ॥ 25 ॥

ततोविनेदुःसम्हृष्टावानराःजितकाशिनः ।
वदंतोराघवजयंरावणस्य ज तद्वधम् ॥ 26 ॥

अथांतरिक्षेव्यनदत्सौम्यस्त्रिदशदुंधुभिः ।
दिव्यगंधशहस्तत्रमारुतस्सुसुकोववौ ॥ 27 ॥

निपपातांतरिक्षाच्चपुष्पवृष्टिस्तदाभुवि ।
किरंतीराघवरथंदुरवापामनोहरा ॥ 28 ॥

राघवस्तवसंयुक्तागगने च विशुश्रुवे ।
साधुसाध्वितिवागग्य्रादेवतानांमहात्मनाम् ॥ 29 ॥

अविवेशमहान् हर्षोदेवानांचारणैःसह ।
रावणेनिहतेरौद्रेसर्वलोकभयंकरे ॥ 30 ॥

ततःसकामंसुग्रीवमंगदं च विभीषणम् ।
चकारराघवःप्रीतोहत्वाराक्षसपुंगवम् ॥ 31 ॥

ततःप्रजग्मुःप्रशमंमरुद्गणादिशःप्रसेदुर्विमलंनभोऽभवत् ।
महीचकंपे न च मारुतोववौस्थिरप्रभश्चाप्यभवद्दिवाकरः ॥ 32 ॥

ततस्तुसुग्रीवविभीषणांगदाःसुहृद्विशिष्टास्सहलक्ष्मणास्तदा ।
समेत्यहृष्टाविजयेनराघवंरणेऽभिरामंविधिनाभ्यपूजयन् ॥ 33 ॥

स तुनिहतरिपुस्स्थिरप्रतिज्ञःस्वजनबलाभिवृतोरणेरराज ।
रघुकुलनृपनंदनोमहौजास्त्रिदशगणैरभिसंवृतोयथेंद्रः ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकादशाधिकशततमस्सर्गः ॥




Browse Related Categories: