View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3.24 अरण्यकांड - चतुर्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ चतुर्विंशस्सर्गः ।

आश्रमं प्रति याते तु खरे खरपराक्रमे ।
तानेवौत्पातिकान्रामस्सह भ्रात्रा ददर्श ह ॥ 1 ॥

तानुत्पातान्महोघोरानुत्थितान्रोमहर्षणान् ।
प्रजानामहितांदृष्ट्वा रामो लक्ष्मणमब्रवीत् ॥ 2 ॥

इमान्पश्य महाबाहो सर्वभूतापहारिणः ।
समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान् ॥ 3 ॥

अमी रुधिरधारास्तु विसृजंतः खरस्वनाः ।
व्योम्नि मेघा विवर्तंते परुषा गर्दभारुणाः ॥ 4 ॥

सधूमाश्च शरास्सर्वे मम युद्धाभिनंदिनः ।
रुक्मपृष्ठानि चापानि विचेष्टंते च लक्ष्मण ॥ 5 ॥

यादृशा इह कूजंति पक्षिणः वनचारिणः ।
अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ॥ 6 ॥

संप्रहारस्तु सुमहान्भविष्यति न संशयः ।
अयमाख्याति मे बाहुस्स्फुरमाणो मुहुर्मुहुः ॥ 7 ॥

सन्निकर्षे तु न श्शूर जयं शत्रोः पराजयम् ।
सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते ॥ 8 ॥

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण ।
निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥ 9 ॥

रक्षसां नर्दतां घोरश्श्रूयते च महाध्वनिः ।
आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ॥ 10 ॥

अनागतविधानं तु कर्तव्यं शुभमिच्छता ।
आपदं शंकमानेन पुरुषेण विपश्चिता ॥ 11 ॥

तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः ।
गुहामाश्रय शैलस्य दुर्गां पादपसंकुलाम् ॥ 12 ॥

प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया ।
शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम् ॥ 13 ॥

त्वं हि शूरश्च बलवान्हन्याह्येतान्न संशयः ।
स्वयं तु हंतुमिच्छामि सर्वानेव निशाचरान् ॥ 14 ॥

एवमुक्तस्तु रामेण लक्ष्मणस्सह सीताया ।
शरानादाय चापं च गुहां दुर्गां समाश्रयत् ॥ 15 ॥

तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया ।
हंत निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥ 16 ॥

स तेनाग्नि निकाशेन कवचेन विभूषितः ।
बभूव राम स्तिमिरे विधूमोऽग्निरिवोत्थितः ॥ 17 ॥

स चापमुद्यम्य महच्छरानादाय वीर्यवान् ।
बभूवावस्थितस्तत्र ज्यास्वनैः पूरयंदिशः ॥ 18 ॥

ततो देवास्सगंधर्वास्सिद्धाश्च सह चारणैः ।
समेयुश्च महात्मानो युद्धदर्शनकांक्षिणः ॥ 19 ॥

ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः ।
समेत्य चोचुस्सहिता अन्योन्यं पुण्यकर्मणः ॥ 20 ॥

स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसंगताः ।
जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् ॥ 21 ॥

चक्रहस्तो यथा युद्धे सर्वानसुर पुंगवान् ।
एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् ॥ 22 ॥

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ॥ 23 ॥

इति राजर्षयस्सिद्धास्सगणाश्च द्विजर्षभाः ।
जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः ॥ 24 ॥

आविष्टं तेजसा रामं संग्रामशिरसि स्थितम् ।
दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा ॥ 25 ॥

रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः ।
बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः ॥ 26 ॥

ततो गंभीरनिर्ह्रादं घोरवर्मायुधध्वजम् ।
अनीकं यातुधानानां समंतात्प्रत्यदृश्यत ॥ 27 ॥

सिंहनादं विसृजतामन्योन्यमभिगर्जताम् ।
चापानि विस्फारयतां जृंभतामप्यभीक्ष्णशः ॥ 28 ॥

विप्रघुष्टस्वनानां च दुंधुभींश्चापि निघ्नताम् ।
तेषां सुतुमुलश्शब्दः पूरयामास तद्वनम् ॥ 29 ॥

तेन शब्देन वित्रस्ताश्वापदा वनचारिणः ।
दुद्रुवुर्यत्र निश्शब्दं पृष्ठतो न व्यलोकयन् ॥ 30 ॥

तत्त्वनीकं महाघोरं रामं समुपसर्पत ।
धृतनानाप्रहरणं गंभीरं सागरोपमम् ॥ 31 ॥

रामोऽपि चारयंश्चक्षुस्सर्वतो रणपंडितः ।
ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम् ॥ 32 ॥

वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् ।
क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् ॥ 33 ॥

दुष्प्रेक्ष्यस्सोऽभवत्कृद्धो युगांताग्निरिव ज्वलन् ।
तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः ॥ 34 ॥

तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा ।
दक्षस्येव क्रतुं हंतुमुद्यतस्य पिनाकिनः ॥ 35 ॥

आविष्टं तेजसा रामं संग्रामशिरसि स्थितम् ।
दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः ॥ 36 ॥

तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः ।
बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रबृंदम् ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे चतुर्विंशस्सर्गः ॥




Browse Related Categories: