View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

5.61 सुंदरकांड - एकषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ एकषष्टितमस्सर्गः ।

ततो जांबवतो वाक्यमगृह्णंत वनौकसः ।
अंगदप्रमुखा वीरा हनुमांश्च महाकपिः ॥ 1 ॥

प्रीतिमंतस्ततः सर्वे वायुपुत्रपरस्पराः ।
महेंद्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥ 2 ॥

मेरुमंदरसंकाशा मत्ता इव महागजाः ।
छादयंत इवाकाशं महाकाया महाबलाः ॥ 3 ॥

सभाज्यमानं भूतैस्तमात्मवंतं महाबलम् ।
हनूमंतं महावेगं वहंत इव दृष्टिभिः ॥ 4 ॥

राघवे चार्थनिर्ववृत्तिं कर्तुं च परमं यशः ।
समाधाय समृद्धार्थाः सर्वेसिद्धिभिरुन्नता ॥ 5 ॥

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनंदिनः ।
सर्वे रामप्रतीकारे निश्चितार्था मनस्स्विनः ॥ 6 ॥

प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।
नंदनोपमयासेदुर्वनं द्रुमलतायुतम् ॥ 7 ॥

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥ 8 ॥

यद्रक्षति महावीर्य स्सदा दधिमुखः कपिः ।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥ 9 ॥

ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।
वानरा वानरेंद्रस्य मनः कांततमं महत् ॥ 10 ॥

ततस्ते वानरा हृष्टा दृष्टवा मधुवनं महत् ।
कुमारमभ्ययाचंत मधूनि मधुपिंगलाः ॥ 11 ॥

ततः कुमारस्तान् वृद्धान् जांबवत्प्रमुखान् कपीन् ।
अनुमान्य ददौ तेषां विसर्गं मधुभिक्षणे ॥ 12 ॥

ततश्चानुमता स्सर्वे संप्रहृष्टा वनौकसः ।
मुदिताः प्रेरिताश्चापि प्रनृत्यंतोऽभवंस्तदा ॥ 13 ॥

गायंति केचित्प्रणमंति केचिन्नृत्यंति केचित्प्रहसंति केचित् ।
पतंति केचिद्विचरंति केचित्ल्पवंति केचित्प्रलपंति केचित् ॥ 14 ॥

परस्परं केचिदुपाश्रयंते परस्परं केचिदुपाक्रमंते ।
परस्परं केचिदुपब्रुवंते परस्परं केचिदुपारमंते ॥ 15 ॥

द्रुमाद्द्रुमं केचिदभिद्रवंते क्षितौ नगाग्रान्निपतंति केचित् ।
महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसंपतंति ॥ 16 ॥

गायंतमन्यः प्रहसन्नुपैति हसंतमन्यः प्ररुदन्नुपैति ।
रुदंतमन्यः प्रणुदन्नुपैति नुदंतमन्यः प्रणदन्नुपैति ॥ 17 ॥

समाकुलं तत्कपिसैन्यमासीन्मधुप्रसानोत्कटसत्त्वचेष्टम् ।
न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ॥ 18 ॥

ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।
समीक्ष्य कोपाद्धधिवक्रनामा निवारयामास कपिः कपींस्तान् ॥ 19 ॥

स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।
चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥ 20 ॥

उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान ।
समेत्य कैश्चित्कलहं चकार तथैव साम्नोपजगाम कांश्चित् ॥ 21 ॥

स तैर्मदात्संपरिवार्य वाक्यैर्भलाच्छ तेन प्रतिवार्यमाणैः ।
प्रधर्षितस्त्यक्तभयै स्समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ 22 ॥

नखैस्तुदंतो दशनैर्दशंत स्तलैश्च पादैश्च समापयंतः ।
मदात्कपिं तं कपय स्समग्रा महावनं निर्विषयं च चक्रुः ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे एकषष्टितमस्सर्गः ॥




Browse Related Categories: