View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3.35 अरण्यकांड - पंचत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ पंचत्रिंशस्सर्गः ।

ततश्शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।
सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह ॥ 1 ॥

तत्कार्यमनुगम्याथ यथावदुपलभ्य च ।
दोषाणां च गुणानां च संप्रधार्य बलाबलम् ॥ 2 ॥

इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः ।
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥ 3 ॥

यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः ।
सूतं संचोदयामास रथस्संयोज्यतामिति ॥ 4 ॥

एवमुक्तः क्षेणेनैव सारथिर्लघुविक्रमः ।
रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ 5 ॥

कांचनं रथमास्थाय कामगं रत्नभूषितम् ।
पिशाचवदनैर्युक्तं खरैः कांचनभूषणैः ॥ 6 ॥

मेघप्रतिमनादेन स तेन धनदानुजः ।
राक्षसाधिपतिश्श्रीमान्ययौ नदनदीपतिम् ॥ 7 ॥

स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः ।
स्निग्धवैदूर्यसंकाश स्तप्तकांचनकुंडलः ॥ 8 ॥

विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः ।
त्रिदशारिर्मुनींद्रघ्नो दशशीर्ष इवाद्रिराट् ॥ 9 ॥

कामगं रथमास्थाय शुशुभे राक्षसेश्वरः ।
विद्युन्मंडलवान्मेघस्सबलाक इवांबरे ॥ 10 ॥

स शैलं सागरानूपं वीर्यवानवलोकयन् ।
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥ 11 ॥

शीतमंगलतोयाभिः पद्मिनीभिस्समंततः ।
विशालैराश्रमपदैर्वेदिमद्भिस्समावृतम् ॥ 12 ॥

कदल्याढकिसंबाधं नारिकेलोपशोभितम् ।
सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ॥ 13 ॥

नागैस्सुपर्णैर्गंधैर्वैः किन्नरैश्च सहस्रशः ।
अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ॥ 14 ॥

अत्यंतनियताहारैश्शोभितं परमर्षिभिः ।
जितकामैश्च सिद्धैश्च चारणैरुपशोभितम् ॥ 15 ॥

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ।
क्रीडारतिविधिज्ञाभिरप्सरोभिस्सहस्रशः ॥ 16 ॥

सेवितं देवपंतीभिश्श्रीमतीभिश्श्रियाऽऽवृतम् ।
देवदानवसंघैश्च चरितं त्वमृताशिभिः ॥ 17 ॥

हंसक्रौंचप्लवाकीर्णं सारसैस्संप्रणादितम् ।
वैढूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥ 18 ॥

पांडुराणि विशालानि दिव्यमाल्ययुतानि च ।
तूर्यगीताभिजुष्टानि विमानानि समंततः ॥ 19 ॥

तपसा जितलोकानां कामगान्यभिसंपतन् ।
गंधर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ 20 ॥

निर्यासरसमूलानां चंदनानां सहस्रशः ।
वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च ॥ 21 ॥

अगरूणां च मुख्यानां वनान्युपवनानि च ।
तक्कोलानां च जात्यानां फलानां च सुगंधिनाम् ॥ 22 ॥

पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।
मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥ 23 ॥

शंखानां प्रसरं चैव प्रवालनिचयं तथा ।
कांचनानि च शैलानि राजतानि च सर्वशः ॥ 24 ॥

प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च ।
धनधान्योपपन्नानि स्त्रीरत्नैश्शोभितानि च ॥ 25 ॥

हस्त्यश्वरथगाढानि नगराण्यवलोकयन् ।
तं समं सर्वतस्निग्धं मृदुसंस्पर्शमारुतम् ।
अनूपं सिंधुराजस्य ददर्श त्रिदिवोपमम् ॥ 26 ॥

तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ॥ 27 ॥

समंताद्यस्य ताश्शाखाश्शतयोजनमायताः ।
यस्य हस्तिनमादाय महाकायं च कच्छपम् ॥ 28 ॥

भक्षार्थं गरुडश्शाखामाजगाम महाबलः ।
तस्य तां सहसा शाखां भारेण पतगोत्तमः ॥ 29 ॥

सुपर्णः पर्णबहुलां बभंज च महाबलः ।
तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥ 30 ॥

अजा बभूवुर्धूम्राश्च संगताः परमर्षयः ।
तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ॥ 31 ॥

जगामादाय वेगेन तौ चोभौ गजकच्छपौ ।
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ॥ 32 ॥

निषादविषयं हत्वा शाखया पतगोत्तमः ।
प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ 33 ॥

स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ।
अमृतानयनार्थं वै चकार मतिमान्मतिम् ॥ 34 ॥

अयोजालानि निर्मथ्य भित्वा रत्नमयं गृहम् ।
महेंद्रभवनाद्गुप्तमाजहारामृतं ततः ॥ 35 ॥

तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् ।
नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ 36 ॥

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।
ददर्शाश्रममेकांते रम्ये पुण्ये वनांतरे ॥ 37 ॥

तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ।
ददर्श नियताहारं मारीचं नाम राक्षसाम् ॥ 38 ॥

स रावणस्समागम्य विधिवत्तेन रक्षसा ।
मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥ 39 ॥

तं स्वयं पूजयित्वा तु भोजनेनोदकेन च ।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ 40 ॥

कच्चित्सुकुशलं राजन्लंकायां राक्षसेश्वर ।
केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ॥ 41 ॥

एवमुक्तो महातेजा मारीचेन स रावणः ।
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ 42 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे पंचत्रिंशस्सर्गः ॥




Browse Related Categories: