View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.129 युद्धकांड - एकोनत्रिंशदधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोनत्रिंशदधिकशततमस्सर्गः ।

बहूनिनामवर्षाणिगतस्यसुमहद्वनम् ।
शृणोम्यहंप्रीतिकरंममनाथस्यकीर्तनम् ॥ 1 ॥

कल्याणीबतगाथेयंलौकिकीप्रतिभातिमे ।
एतिजीवंतमानंदोनरंवर्षशतादपि ॥ 2 ॥

राघवस्यहरीणां च कथमासीत्समागमः ।
कस्मिन् देशेकिमाश्रित्यतत्त्वमाख्याहिपृच्छतः ॥ 3 ॥

स पृष्टोराजपुत्रेणबृश्यांसमुपवेशितः ।
आचचक्षेततस्सर्वंरामस्यचरितंवने ॥ 4 ॥

यथाप्रव्राजितोरामोमातुर्दत्तौवरौतव ।
यथापुत्रशोकेनराजादशरथोमृतः ॥ 5 ॥

यथादूतैस्त्वमानीतस्तूर्णंराजगृहात्प्रभो ।
त्वयायोध्यांप्रविष्टेनयथाराज्यं न चेप्सितम् ॥ 6 ॥

चित्रकूटगिरिंगत्वाराज्येनामित्रकर्शनः ।
निमंत्रितस्त्वयाभ्राताधर्ममाचरतासताम् ॥ 7 ॥

स्थितेनराज्ञोवचनेयथाराज्यंविसर्जितम् ।
आर्यस्यमादुकेगृह्ययथासिपुनरागतः ।
य ॥ 8 ॥

सर्वमेतन्महाबाहोयथावद्विदितंतव ।
त्वयिप्रतिप्रयातेतुयद्वृत्तंतन्निबोधमे ॥ 9 ॥

अपयातेत्वयितदासमुद्भ्रांतमृगद्विजम् ।
परिध्युईनमिवात्यर्थंतद्वनंसमपद्यत ॥ 10 ॥

तदथस्तिमृदितंघोरंसिंहव्याघ्रमृगाकुलम् ।
प्रविवेशाथविजनं स महद्दंडकावनम् ॥ 11 ॥

तेषांपुरस्ताद्भलवान् गच्छतांगहनेवने ।
विनदन् सुमहानादंविराधःप्रत्यदृश्यत ॥ 12 ॥

तमुत्क्षिप्यमहानादमूर्ध्वबाहुमधोमुखम् ।
निखातेप्रक्षिपंतिस्मवदंतमिवकुंजरम् ॥ 13 ॥

तत्कृत्वादुष्करंकर्मभ्रातरौरामलक्ष्मणौ ।
सायाह्नेशरभंगस्यरम्यमाश्रममीयतुः ॥ 14 ॥

शरभंगेदिवंप्राप्तेरामस्सत्यपराक्रमः ।
अभिवाद्यमुनीन्सर्वान्जनस्थानमुपागमत् ॥ 15 ॥

ततःपश्चाच्छूर्पणखानामरामपार्शमुपागता ।
ततोरामेणसंदिष्टोलक्ष्मणस्सहसोत्थितः ॥ 16 ॥

प्रगृह्यखंगंचिच्छेदकर्णनासेमहाबलः ।
चतुर्दशसहस्राणिजनस्तान्निवासिनाम् ॥ 17 ॥

हतानिवसतातत्रराघवेणमहात्मना ।
एकेनसहसंगम्यरामेणरणमूर्धनि ॥ 18 ॥

अह्नश्चतुर्थभागेननिःशेषाराक्षसाःकृताः ।
मबलामहावीर्यास्तपसोविघ्नकारिणः ॥ 19 ॥

निहताराघवेणाजौदंडकारण्यवासिनः ।
राक्षसाश्चविनिष्पिष्टाःखरश्चनिहतोरणे ॥ 20 ॥

दूषणंचाग्रतोहत्वात्रिशिरास्तदनंतम् ।
तस्तेनार्दिताबालारावणंसमुपागता ॥ 21 ॥

रावणानुचरोघोरोमारीचोनामराक्षसः ।
लोभयामासवैदेहींभूत्वारत्नमयोमृगः ॥ 22 ॥

साराममब्रवीदृष्टवावैदेसीगृह्यतामिति ।
अयंमनोहरःकांतआश्रमोनोभविष्यति ॥ 23 ॥

ततोरामोधनुष्पाणिर्मृगंतमनुधावति ।
स तंजघानधावंतंशरेणानतपर्वणा ॥ 24 ॥

अथसौम्य दशग्रीवोमृगंयातेतुराघवे ।
लक्ष्मणेचापिनिष्क्रांतेप्रविवेशाश्रमंतदा ॥ 25 ॥

जग्राहतरसासीतांग्रहःखेरोहिणीमिव ।
त्रातुकामंततोयुद्धेहत्वागृध्रंजटायुषम् ॥ 26 ॥

प्रगृह्यसहसासीतांजगामाशु स राक्षसः ।
तस्त्वद्भुतसंकाशास्स्थिताःपर्वतमूर्धनि ॥ 27 ॥

सीतांगृहीत्वागच्छंतंवानराःपर्वतोपमाः ।
ददृशुर्मिस्मिताकारारावणंराक्षसाधिपम् ॥ 28 ॥

ततशीघ्रतरंगत्वातद्विमानंमनोजवम् ।
आरुह्यसहवैदेह्यापुष्पकं स महाबलः ॥ 29 ॥

प्रविवेशतदालंकांरावणोराक्षसेश्वरः ।
तांसुवर्णपरिष्कारेशुभेमहतिवेश्मनि ॥ 30 ॥

प्रवेश्यमैथिलींवाक्यैस्सांत्वयामासरावणः ।
तृणवद्भाषितंतस्यतं च नैरृतपुंगवम् ॥ 31 ॥

अचिंतयंतीवैदेहीह्यशोकवनिकांगता ।
न्यवर्तततदारामोमृगंहत्वातदावने ॥ 32 ॥

निवर्तमानःकाकुत्स्थोदृष्टवागृध्रं स विव्यथे ।
गृध्रंहतंतदादृष्टवारामःप्रियतरंपितुः ॥ 33 ॥

मार्गमाणस्तुवैदेहींराघवंसहलक्ष्मणः ।
गोदावरीमन्वचरद्वनोद्धेशांश्चपुष्पितान् ॥ 34 ॥

आसेदतुर्महारण्येकबंधंनामराक्षसम् ।
ततःकबंदवचनाद्रामस्सत्यपराक्रमः ॥ 35 ॥

ऋष्यमूकगिरिंगत्वासुग्रीवेणसमागतः ।
तयोस्समागमःपूर्वंप्रीत्यहार्दोव्यजायत ॥ 36 ॥

भ्रात्रानिरस्तःक्रुद्धेनसुग्रीवोवालिनापुरा ।
इतरेतरसंवादात्प्रगाढःप्रणयस्तयोः ॥ 37 ॥

रामस्स्वबाहुवीर्येणस्वराज्यंप्रत्यपादयत् ।
वालिनंसमरेहत्वामहाकायंमहाबलम् ॥ 38 ॥

सुग्रीवस्स्थापितोराज्येसहितस्सर्ववानरैः ।
रामायप्रतिजानीतेराजपुत्य्रास्तुमार्गणम् ॥ 39 ॥

अदिष्टावानरेंद्रेणसुग्रीवेणमहात्मना ।
दशकोट्यःप्लवंगानांसर्वाःप्रस्थापिताःदिशः ॥ 40 ॥

तेषांनोविप्रनष्टानांविंध्येपर्वतसत्तमो ।
भृशंशोकानितप्तानांमहान्कालो त्यवर्तत ॥ 41 ॥

भ्रातातुगृध्रराजस्यसंपातिर्नामवीर्यवान् ।
समाख्यातिस्मवसतींसीतांरावणमंदिरे ॥ 42 ॥

सोहंदुःखपरीतानांदुःखंतद् ज्ञातीनांनुदन् ।
आत्मवीर्यंसमास्थाययोजनानांशतंप्लुतः ॥ 43 ॥

तत्राहमेकामद्राक्षमशोकवनिकांगताम् ।
कौशेयवस्त्रांमलिनांनिरनंदांदृढव्रताम् ॥ 44 ॥

तयासमेत्यविधिवत् पृष्टवासर्वमनिंदिताम् ।
अभिज्ञानंमयादत्तंरामनामांगुलीयकम् ॥ 45 ॥

अभिज्ञानंमणिंलब्द्वाचरितार्धो हमागतः ।
मया च पुनरागम्यरामस्याक्लिष्टकर्मणः ॥ 46 ॥

अभिज्ञानंमयादत्तमर्चिष्मान् स महामणिः ।
श्रुत्वातांमैथिलींरामस्त्वाशशंसे च जीवितम् ॥ 47 ॥

जीवितांतमनुप्राप्तःपीत्वामृतमिवातुरः ।
उद्योजयिष्यन्नुद्योगंदध्रेकामंवधेमनः ॥ 48 ॥

जिघांसुरिवलोकांतेसर्वान्लोकान्विभावसुः ।
ततस्समुद्रमासाद्यनलंसेतुमकारयत् ॥ 49 ॥

अतरत्कपिवीराणां वाहिनी तेन सेतुना ।
प्रहस्तम्वधीन्नीलःकुंभकर्णंतुराघवः ॥ 50 ॥

लक्ष्मणोरावणसुतंस्वयंरामस्तुरावणम् ।
सशक्रेणसमागम्ययमेनवरुणेन च ॥ 51 ॥

महेश्वरस्वयंभूभ्यां तथा दशरथेन च ।
तैश्चदत्तवर्श्रीमानृषिभिश्चसमागतैः ॥ 52 ॥

सुरर्षिभिश्चकाकुत्स्थोवरान्लेभेपरंतपः ।
सतुदत्तवरःप्रीत्यावानरैश्चसमागतः ॥ 53 ॥

पुष्पकेनविमानेनकिष्किनष्धामभ्युपागमत् ।
तंगंगांपुनारासाद्यवसंतंमुनिसन्निधौ ॥ 54 ॥

अविघ्नंपुष्ययोगेनश्वोरामंद्रष्टुमर्हसि ।
ततस्सवाक्यैर्मधुरैर्हनुमतोनिशम्यहृष्टोभरतःकृतांजलिः ।
उवाचवाणींमनसःप्रहर्षणींचिरस्यपूर्णःखलुमेमनोरथः ॥ 55 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोनत्रिंशदधिकशततमस्सर्गः ॥




Browse Related Categories: