View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

2.37 अयोध्याकांड - सप्तत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तत्रिंशस्सर्गः ।

महामात्रवचः श्रुत्वा रामो दशरथं तदा ।
अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ 1 ॥

त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः ।
किं कार्यमनुयात्रेण त्यक्तसंगस्य सर्वतः ॥ 2 ॥

यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः ।
रज्जुस्नेहेन किं तस्य त्यजतः कुंजरोत्तमम् ॥ 3 ॥

तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते ।
सर्वाण्येवानुजानामि चीराण्येवाऽनयंतु मे ॥ 4 ॥

खनित्रपिटके चोभे समानयत गच्छतः ।
चतुर्दश वने वासं वर्षाणि वसतो मम ॥ 5 ॥

अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् ।
उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥ 6 ॥

स चीरे पुरुषव्याघ्रः कैकेय्या प्रतिगृह्य ते ।
सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ॥ 7 ॥

लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे ।
तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ 8 ॥

अथाऽत्मपरिधानार्थं सीता कौशेयवासिनी ।
समीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥ 9 ॥

सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः ।
कैकेयी कुशचीरे ते जानकी शुभलक्षणा ॥ 10 ॥

अश्रुसंपूर्ण नेत्रा च धर्मज्ञा धर्मदर्शिनी ।
गंधर्वराजप्रतिमं भर्तारमिदमब्रवीत् ॥ 11 ॥

कथं नु चीरं बध्नंति मुनयो वनवासिनः ।
इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ 12 ॥

कृत्वा कंठे च सा चीरमेकमादाय पाणिना ।
तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ॥ 13 ॥

तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः ।
चीरं बबंध सीतायाः कौशेयस्योपरि स्वयम् ॥ 14 ॥

रामं प्रेक्ष्य तु सीताया बध्नंतं चीरमुत्तमम् ।
अंतःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥ 15 ॥

ऊचुश्च परमायस्ता रामं ज्वलिततेजसम् ।
वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ॥ 16 ॥

पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् ।
तावद्दर्शनमस्या नः सफलं भवतु प्रभो ॥ 17 ॥

लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक ।
नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥ 18 ॥

कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी ।
धर्मनित्यस्स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ 19 ॥

तासामेवंविधा वाच शृण्वन् दशरथात्मजः ।
बबंधैव तदा चीरं सीतया तुल्यशीलया ॥ 20 ॥

चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।
निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ 21 ॥

अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि ।
वंचयित्वा च राजानं न प्रमाणेऽवतिष्ठसे ॥ 22 ॥

न गंतव्यं वनं देव्या सीतया शीलवर्जिते ।
अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ 23 ॥

आत्मा हि दारास्सर्वेषां दारसंग्रहवर्तिनाम् ।
आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥ 24 ॥

अथ यास्यति वैदेही वनं रामेण संगता ।
वयमप्यनुयास्यामः पुरं चेदं गमिष्यति ॥ 25 ॥

अंतपालाश्च यास्यंति सदारो यत्र राघवः ।
सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ 26 ॥

भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः ।
वने वसंतं काकुत्स्थ मनुवत्स्यति पूर्वजम् ॥ 27 ॥

तत श्शून्यां गतजनां वसुधां पादपै स्सह ।
त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ 28 ॥

न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः ।
तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ 29 ॥

न ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति ।
त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ 30 ॥

यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि ।
पितृर्वंशचरित्रज्ञः सोऽन्यथा न करिष्यति ॥ 31 ॥

तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् ।
लोके हि स न विद्येत यो न राममनुव्रतः ॥ 32 ॥

द्रक्ष्यस्यद्यैव कैकेयी पशुव्यालमृगद्विजान् ।
गच्छतस्सह रामेण पादपांश्च तदुन्मुखान् ॥ 33 ॥

अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम् ।
न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्टः ॥ 34 ॥

एकस्य रामस्य वने निवास स्त्वया वृतःकेकयराजपुत्री ।
विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण ॥ 35 ॥

यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री ।
वस्त्रैश्च सर्वैस्सहितैर्विधानै र्नेयं वृता ते वरसंप्रदाने ॥ 36 ॥

तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे ।
नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तत्रिंशस्सर्गः ॥




Browse Related Categories: