View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3.5 अरण्यकांड - पंचम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ पंचमस्सर्गः ।

हत्वा तु तं भीमबलं विराधं राक्षसं वने ।
ततस्सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ॥ 1 ॥

अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ।
कष्टं वनमिदं दुर्गं न च स्म वनगोचराः ॥ 2 ॥

अभिगच्छामहे शीघ्रं शरभंगं तपोधनम् ।
आश्रमं शरभंगस्य राघवोऽभिजगाम ह ॥ 3 ॥

तस्य देवप्रभावस्य तपसा भावितात्मनः ।
समीपे शरभंगस्य ददर्श महदद्भुतम् ॥ 4 ॥

विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् ।
अवरुह्यरथोत्संगादाकाशे विबुधानुगम ॥ 5 ॥

असंस्पृशंतं वसुधां ददर्श विबुधेश्वरम् ।
सुप्रभाभरणं देवं विरजोऽंबरधारिणम् ॥ 6 ॥

तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः ।
हरिभिर्वाजिभिर्युक्तमंतरिक्षगतं रथम् ॥ 7 ॥

ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् ।
पांडुराभ्रघनप्रख्यं चंद्रमंडलसन्निभम् ॥ 8 ॥

अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ।
चामरव्यजने चाग्र्ये रुक्मदंडे महाधने ॥ 9 ॥

गृहीते वरनारीभ्यां धूयमाने च मूर्धनि ।
गंधर्वामरसिद्धाश्च बहवः परमर्षयः ॥ 10 ॥

अंतरिक्षगतं देवं वाग्भिरग्य्राभिरीडिरे ।
सह संभाषमाणे तु शरभंगेन वासवे ॥ 11 ॥

दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।
रामोऽथ रथमुद्दिश्य लक्ष्मणायप्रदर्शयन् ॥ 12 ॥

अर्चिष्मंतं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण ।
प्रतपंतमिवादित्यमंतरिक्षगतं रथम् ॥ 13 ॥

ये हयाः पुरुहूतस्य पुरा शक्रस्य नश्श्रुताः ।
अंतरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥ 14 ॥

इमे च पुरुषव्याघ्रा ये तिष्ठंत्यभितो रथम् ।
शतं शतं कुंडलिनो युवानः खंगपाणयः ॥ 15 ॥

विस्तीर्णविपुलोरस्काः परिघायतबाहवः ।
शोणांशुवसनास्सर्वे व्याध्रा इव दुरासदाः ॥ 16 ॥

उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः ।
रूपं बिभ्रति सौमित्रे पंचविंशतिवार्षिकम् ॥ 17 ॥

एतद्दि किल देवानां वयो भवति नित्यदा ।
यथेमे पुरुषव्याघ्रा दृश्यंते प्रियदर्शनाः ॥ 18 ॥

इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण ।
यावज्जानाम्यहं व्यक्तं क एष द्युतिमान्रथे ॥ 19 ॥

तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति ।
अभिचक्राम काकुत्स्थ श्शरभंगाश्रमं प्रति ॥ 20 ॥

ततस्समभिगच्छंतं प्रेक्ष्य रामं शचीपतिः ।
शरभंगमनुप्राप्य विविक्त इदमब्रवीत् ॥ 21 ॥

इहोपयात्यसौ रामो यावन्मां नाभिभाषते ।
निष्ठां नयतु तावत्तु ततो मा द्रष्टुमर्हति ॥ 22 ॥

जितवंतं कृतार्थं हि तदाहमचिरादिमम् ।
कर्म ह्यनेन कर्तव्यं महदन्यैस्सुदुष्करम् ॥ 23 ॥

इति वज्री तमामंत्र्य मानयित्वा च तापसम् ।
रथेन हययुक्तेन ययौ दिवमरिंदमः ॥ 24 ॥

प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदः ।
अग्निहोत्रमुपासीनं शरभंगमुपागमत् ॥ 25 ॥

तस्य पादौ च संगृह्य रामस्सीता च लक्ष्मणः ।
निषेदुस्समनुज्ञाता लब्धवासा निमंत्रिताः ॥ 26 ॥

ततश्शक्रोपयानं तु पर्यपृच्छत्स राघवः ।
शरभंगश्च तत्सर्यं राघवाय न्यवेदयत् ॥ 27 ॥

मामेष वरदो राम ब्रह्मलोकं निनीषति ।
जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ॥ 28 ॥

अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः ।
ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ॥ 29 ॥

त्वयाऽहं पुरुषव्याघ्र धार्मिकेण महात्मना ।
समागम्य गमिष्यामि त्रिदिवं देवसेवितम् ॥ 30 ॥

अक्षया नरशार्दूल मया लोका जिताश्शुभा ।
ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् ॥ 31 ॥

एवमुक्तो नरव्याघ्रस्सर्वशास्त्र विशारदः ।
ऋषिणा शरभंगेण राघवो वाक्यमब्रवीत् ॥ 32 ॥

अहमेवाहरिष्यामि सर्वांल्लोकान्महामुने ।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ 33 ॥

राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै ।
शरभंगो महाप्राज्ञः पुनरेवाब्रवीद्वचः ॥ 34 ॥

इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः ।
वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति ॥ 35 ॥

सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ।
रमणीये वनोद्देशे स ते वासं विधास्यति ॥ 36 ॥

इमां मंदाकिनीं राम प्रतिस्रोतामनुव्रज ।
नदीं पुष्पोडुपवहां ततस्तत्र गमिष्यसि ॥ 37 ॥

एष पंथा नरव्याघ्र मुहूर्तं पश्य तात माम् ।
यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः ॥ 38 ॥

ततोऽग्निं स समाधाय हुत्वा चाज्येन मंत्रवित् ।
शरभंगो महातेजाः प्रविवेश हुताशनम् ॥ 39 ॥

तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः ।
जीर्णां त्वचं तथाऽस्थीनि यच्च मांसं सशोणितम् ॥ 40 ॥

स च पावकसंकाशः कुमारस्समपद्यत ।
उत्थायाग्निचयात्तस्माच्छरभंगो व्यरोचत ॥ 41 ॥

स लोकानाहिताग्नीनामृषीणां च महात्मनाम् ।
देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ 42 ॥

स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह ।
पितामहश्चापि समीक्ष्य तं द्विजं ननंद सुस्वागतमित्युवाच ह ॥ 43 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे पंचमस्सर्गः ॥




Browse Related Categories: