View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.26 युद्धकांड - षड्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षड्विंशस्सर्गः ।

तद्वचःपथ्यमक्लीबंसारणेनाभिभाषितम् ।
निशम्यरावणोराजाप्रत्यभाषतसारणम् ॥ 1 ॥

यदिमामभियुंजीरंदेवगंधर्वदानवाः ।
नैवसीतांप्रदास्यामिसर्वलोकभयादपि ॥ 2 ॥

त्वंतुसौम्यपरित्रस्तोहरिभिर्निर्जितोभृशम् ।
प्रतिप्रदानमद्यैवसीतायास्साधुमन्यसे ॥ 3 ॥

कोहिनामसपत्नोमांसमरेजेतुमर्हति ।
इत्युक्त्वापरुषंवाक्यंरावणोराक्षसाधिपः ॥ 4 ॥

आरुरोहततश्रशीमान् प्रासादंहिमपांडुरम् ।
बहुतालसमुत्सेधंरावणोऽथदिदृक्ष्या ॥ 5 ॥

ताभ्यांचराभ्यांसहितोरावणःक्रोधमूर्छितः ।
पश्यमानस्समुद्रंचपर्वतांश्चवनानिच ॥ 6 ॥

ददर्शपृथिवीदेशंसुसंपूर्णंप्लवंगमैः ।
तदपारमसंख्ख्येयंवानराणांमहद्बलम् ।
अलोक्यरावणोराजापरिपप्रच्छसारणम् ॥ 7 ॥

एषांवानरमुख्यानांकेशूराःकेमहाबलाः ।
केपूर्वमभिवर्तंतेमहोत्साहास्समंततः ॥ 8 ॥

केषांशृणोतिसुग्रीवःकेवायूथपयूथपाः ।
सारणाचक्ष्वतत्त्वेनकेप्रधानाःप्लवंगमाः ॥ 9 ॥

सारणोराक्षसेंद्रस्यवचनंपरिपृच्छतः ।
आचचक्षेऽथमुख्यज्ञोमुख्यांस्तांस्तुवनौकसः ॥ 10 ॥

एषयोऽभिमुखोलंकांनर्दंस्तिष्ठतिवानरः ।
यूथपानांसहस्राणांशतेनपरिवारितः ॥ 11 ॥

यस्यघोषेणमहतासप्राकारासतोरणा ।
लंकाप्रवेपतेसर्वासशैलवनकानना ॥ 12 ॥

सर्वशाखामृगेंद्रस्यसुग्रीवस्यमहात्मनः ।
बलाग्रेतिष्ठतेवीरोनीलोनामैषयूथपः ॥ 13 ॥

बाहूप्रगृह्ययःपद् भ्यांमहींगच्छतिवीर्यवान् ।
लंकामभिमुखःक्रोधादभीक्ष्णंचविजृंभते ॥ 14 ॥

गिरिशृंगप्रतीकाशःपद्मकिंजल्कसन्निभः ।
स्पोटयत्यभिसंरब्धोलांगूलंचपुनःपुनः ॥ 15 ॥

यस्यलांगूलशब्देनस्वनंतिप्रदिशोदश ।
एषवानरराजेनसुग्रीवेणाभिषेचितः ॥ 16 ॥

यौवराज्येऽंगदोनामत्वामाह्वयतिसंयुगे ॥ 17 ॥

वालिनस्सदृशःपुत्रस्सुग्रीवस्यसदाप्रियः ।
राघवार्थेपराक्रांतश्शक्रार्थेवरुणोयथा ॥ 18 ॥

एतस्यसामतिस्सर्वायद्दृष्टाजनकात्मजा ।
हनूमतावेगवताराघवस्यहितैषिणा ॥ 19 ॥

बहूनिवानरेंद्राणामेषयूथानिवीर्यवान् ।
परिगृह्याभियातित्वांस्वेनानीकेनमर्दितुम् ॥ 20 ॥

अनुवालिसुतस्यापिबलेनमहताऽवृतः ।
वीरस्तिष्ठतिसंग्रामेसेतुहेतुरयंनलः ॥ 21 ॥

येतुविष्टभ्यगात्राणिक्ष्वेलयंतिनदंतिच ।
उत्थायचविजृंभंतेक्रोधेनहरिपुंगवाः ॥ 22 ॥

एतेदुष्प्रसहाघोराश्चंडाश्चंडपराक्रमाः ।
अष्टौशतसहस्राणिदशकोटिशतानिच ॥ 23 ॥

यएनमनुगच्छंतिवीराश्चंदनवासिनः ।
एषैवाशंसतेलंकांस्वेनानीकेनमर्दितुम् ॥ 24 ॥

श्वेतोरजतसंकाशश्चपलोभीमविक्रमः ।
बुद्धिमान्वानरश्शूरस्त्रिषुलोकेषुविश्रुतः ॥ 25 ॥

तूर्णंसुग्रीवमागम्यपुनर्गच्छतिसत्वरः ।
विभजन्वानरींसेनामनीकानिप्रहर्षयन् ॥ 26 ॥

यःपुरागोमतीतीरेरम्यंपर्येतिपर्वतम् ।
नाम्नासंकोचनोनामनानानगयुतोगिरिः ॥ 27 ॥

तत्रराज्यंप्रशास्त्येषकुमुदोनामयूथपः ।
योऽसौशतसहस्राणिसहस्रंपरिकर्षति ॥ 28 ॥

यस्यवालाबहुव्यामादीर्घलांगूलमाश्रिता ।
ताम्रापीतास्सीताश्श्वेताःप्रकीर्णाघोरदर्शना ॥ 29 ॥

अदीनोरोषणश्चंडस्संग्राममभिकाङ् क्षति ।
एषोऽप्याशंसतेलंकांस्वेनानीकेनमर्दितुम् ॥ 30 ॥

यस्त्वेषसिंहसंकाशःकपिलोदीर्घलोचनः ।
निभृतःप्रेक्षतेलंकांदिधक्षन्निवचक्षुषा ॥ 31 ॥

विंध्यंकृष्णगिरिंसह्यंपर्वतंचसुदर्शनम् ।
राजन्सततमध्यास्तेरंभोनामयूथपः ॥ 32 ॥

शतंशतसहास्राणांत्रिंशच्चहरिपुंगवाः ।
यमेतेवानराश्शूराश्चंडाश्चंडपराक्रमाः ॥ 33 ॥

परिवार्यानुगच्छंतिलंकांमर्दितुमोजसा ।
यस्तुकर्णौविवृणुतेजृंबतेचपुनःपुनः ।
नचसंविजतेमृत्योर्नचयुद्धाद्विधावति ॥ 34 ॥

न च सम्विजते मृत्योर् न च यूथाद् विधावति ।
प्रकंपते च रोषेन तिर्यक्च पुनरीक्षते ॥ 35 ॥

महाजवोवीतभयोरम्यंसाल्वेयपर्वतम् ।
राजन्सततमध्यास्तेशरभोनामयूथपः ॥ 36 ॥

एतस्यबलिनस्सर्वेविहारानामयूथपाः ।
राजन् शतसहस्राणिचत्वारिंशस्तथैवच ॥ 37 ॥

राजन् शत सहस्राणि चत्वारिंशत् तथैव च ।
यस् तु मेघ इव आकाशं महान् आवृत्य तिष्ठति ॥ 38 ॥

भेरीणामिवसन्नादोयस्यैषश्रूयतेमहान् ।
घोषश्शाखामृगेंद्राणांसंग्राममभिकांक्षिताम् ॥ 39 ॥

एषपर्वतमध्यास्तेपारियात्रमनुत्तमम् ।
युद्धेदुष्प्रसहोनित्यंपनसोनामयूथपः ॥ 40 ॥

एनंशतसहस्राणांशतार्धंपर्युपासते ।
यूथपायूथपश्रेष्ठंयेषांयूथानिभागशः ॥ 41 ॥

यूथपा यूथप श्रेष्ठं येषां यूथानि भागशः ।
यस् तु भीमां प्रवल्गंतीं चमूं तिष्ठति शोभयन् ॥ 42 ॥

एषदर्दरसंकाशोविनतोनामयूथपः ।
पिबंश्चरतिपर्णासांनदीनामुत्तमांनदीम् ॥ 43 ॥

षष्टिश्शतसहस्राणिबलमस्यप्लवंगमाः ॥ 44 ॥

त्वामाह्वयतियुद्धायक्रोधनोनामयूधपः ।
विक्रांताबलवंतश्चयथायूथानिभागशः ॥ 45 ॥

यस्तुगैरिकवर्णाभंवपुःपुष्यतिवानरः ।
अवमत्यसदासर्वान्वानरान्बलदर्पितान् ॥ 46 ॥

गवयोनामतेजस्वीत्वांक्रोधादभिवर्तते ।
एनंशतसहस्राणिसप्ततिःपर्युपासते ।
एषैवाशंसतेलंकांस्वेनानीकेनमर्दितुम् ॥ 47 ॥

एतेदुष्प्रसहाघोराबलिनःकामरूपिणः ।
यूथपायूथपश्रेष्ठामेषांयूथानिभागशः ॥ 48 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षड्विंशस्सर्गः ॥




Browse Related Categories: