View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

4.22 किष्किंधाकांड - द्वाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ द्वाविंशस्सर्गः ।

वीक्षमाणस्तु मंदासुस्सर्वतो मंदमुच्छ्वसन् ।
आदावेव तु सुग्रीवं ददर्शत्वात्मजाग्रतः ॥ 1 ॥

तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः ।
आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥ 2 ॥

सुग्रीव दोषेण न मां गंतुमर्हसि किल्बिषात् ।
कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ 3 ॥

युगपद्विहितं तात न मन्ये सुखमावयोः ।
सौहार्द भ्रातृयुक्तं हि तदिदं तात नान्यथा ॥ 4 ॥

प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् ।
मामप्यद्यैव गच्छंतं विद्धि वैवस्वतक्षयम् ॥ 5 ॥

जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् ।
प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः ॥ 6 ॥

अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः ।
यद्यप्यसुकरं राजन्कर्तुमेव तदर्हसि ॥ 7 ॥

सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् ।
बाष्पपूर्णमुखं पश्य भूमौ पतितमंगदम् ॥ 8 ॥

मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् ।
मया हीनमहीनार्थं पर्वतः परिपालय ॥ 9 ॥

त्वमेवास्य हि दाता च परित्राता च सर्वशः ।
भयेष्वभयदश्चैव यथाऽहं प्लवगेश्वर ॥ 10 ॥

एष तारात्मज श्रीमांस्त्वया तुल्यपराक्रमः ।
रक्षसां च वधे तेषामग्रतस्ते भविष्यति ॥ 11 ॥

अनुरूपाणि कर्माणि विक्रम्य बलवान्रणे ।
करिष्यत्येष तारेयस्तरस्वी तरुणोऽंगदः ॥ 12 ॥

सुषेणदुहिता चेयमर्थसूक्ष्मविमनिश्चये ।
औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ 13 ॥

यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम् ।
न हि तारामतं किंचिदन्यथा परिवर्तते ॥ 14 ॥

राघवस्य च ते कार्यं कर्तव्यमविशंकया ।
स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥ 15 ॥

इमां च मालामाधत्स्व दिव्यां सुग्रीव कांचनीम् ।
उदारा श्रीस्थिता ह्यास्यां संप्रजह्यान्मृते मयि ॥ 16 ॥

इत्येवमुक्तस्सुग्रीवो वालिना भ्रातृसौहृदात् ।
हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ॥ 17 ॥

तद्वालिवचनाच्छांतः कुर्वन्युक्तमतंद्रितः ।
जग्राह सोऽभ्यनुज्ञातो मालां तां चैव कांचनीम् ॥ 18 ॥

तां मालां कांचनीं दत्त्वा दृष्ट्वाचैवात्मजं स्थितम् ।
संसिद्धः प्रेत्यभावाय स्नेहादंगदमब्रवीत् ॥ 19 ॥

देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये ।
सुखदुःख सहः काले सुग्रीववशगो भव ॥ 20 ॥

यथा हि त्वं महाबाहो लालितस्सततं मया ।
न तथा वर्तमानं त्वां सुग्रीवो बहुमंस्यते ॥ 21 ॥

माऽस्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम ।
भर्तुरर्थपरो दांतः सुग्रीववशगो भव ॥ 22 ॥

न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते ।
उभयं हि महांदोष स्तस्मादंतरदृग्भव ॥ 23 ॥

इत्युक्त्वाऽथ विवृत्ताक्षः शरसंपीडितो भृशम् ।
विवृतैर्दशनै र्भीमैर्बभूवोत्क्रांतजीवितः ॥ 24 ॥

ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः ।
परिदेवयमानास्ते सर्वे प्लवगपुंगवाः ॥ 25 ॥

किष्किंधा ह्यद्य शून्याऽसीत्स्वर्गते वानराधिपे ।
उद्यानानि च शून्यानि पर्वताः काननानि च ॥ 26 ॥

हते प्लवगशार्दूले निष्प्रभा वानराः कृताः ।
यस्य वेगेन महता काननानि वनानि च ।
पुष्पौघेणानुबध्यंते करिष्यति तदद्य कः ॥ 27 ॥

येन दत्तं महद्युद्धं गंधर्वस्य महात्मनः ॥ 28 ॥

गोलभस्य महाबाहोर्दशवर्षाणि पंच च ।
नैव रात्रौ न दिवसे तद्युद्धमुपशाम्यति ॥ 29 ॥

ततस्तु षोडशे वर्षे गोलभो विनिपातितः ।
हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान् ॥ 30 ॥

सर्वाऽभयंकरोऽस्माकं कथमेष निपातितः ।
हते तु वीरे प्लवगाधिपे तदा प्लवंगमास्तत्र न शर्म लेभिरे ।
वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ ॥ 31 ॥

ततस्तु तारा व्यसनार्णवाप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा ।
जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे द्वाविंशस्सर्गः ॥




Browse Related Categories: