View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

4.49 किष्किंधाकांड - एकोनपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकोनपंचाशस्सर्गः ।

अथांगदस्तदा सर्वान्वानरानिदमब्रवीत् ।
परिश्रांतो महाप्राज्ञस्समाश्वास्य शनैर्वचः ॥ 1 ॥

वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।
दर्यो गिरिगुहाश्चैव विचितानि समंततः ॥ 2 ॥

तत्र तत्र सहास्माभिर्जानकी न च दृश्यते ।
तद्वा रक्षो हृता येन सीता सुरसुतोपमा ॥ 3 ॥

कालश्च नो महान्यातस्सुग्रीवश्चोग्रशासनः ।
तस्माद्भवंतस्सहिता विचिन्वंतु समंततः ॥ 4 ॥

विहाय तंद्रीं शोकं च निद्रां चैव समुत्थिताम् ।
विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥ 5 ॥

अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः ।
कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम् ॥ 6 ॥

अद्यापि तद्वनं दुर्गं विचिन्वंतु वनौकसः ।
खेदं त्यक्त्वा पुनस्सर्वैर्वनमेतद्विचीयताम् ॥ 7 ॥

अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् ।
अलं निर्वेदमागम्य न हि नो मीलनं क्षमम् ॥ 8 ॥

सुग्रीवः कोपनो राजा तीक्ष्णदंडश्च वानरः ।
भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ 9 ॥

हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ।
उच्यतां वा क्षमं यन्नस्सर्वेषामेव वानराः ॥ 10 ॥

अंगदस्य वचश्श्रुत्वा वचनं गंधमादनः ।
उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥ 11 ॥

सदृशं खलु वो वाक्यमंगदो यदुवाच ह ।
हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ 12 ॥

पुनर्मार्गामहै शैलान्कंदरांश्च दरीस्तथा ।
काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ 13 ॥

यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना ।
विचिन्वंतु वनं सर्वे गिरिदुर्गाणि सर्वशः ॥ 14 ॥

ततस्समुत्थाय पुनर्वानरास्ते महाबलाः ।
विंध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम् ॥ 15 ॥

ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् ।
शृंगवंतं दरीमंतमधिरुह्य च वानराः ॥ 16 ॥

तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च ।
व्यचिन्वंस्ते हरिवरास्सीता दर्शनकांक्षिणः ॥ 17 ॥

तस्याग्रमधिरूढास्ते श्रांता विपुलविक्रमाः ।
न पश्यंति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ 18 ॥

ते तु दृष्टिगतं कृत्वा तं शैलं बहुकंदरम् ।
अवारोहंत हरयो वीक्षमाणास्समंततः ॥ 19 ॥

अवरुह्य ततो भूमिं श्रांता विगतचेतसः ।
स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥ 20 ॥

ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः ।
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥ 21 ॥

हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः ।
विंध्यमेवादितस्तावद्विचेरुस्ते समंततः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकोनपंचाशस्सर्गः ॥




Browse Related Categories: