View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.105 युद्धकांड - पंचाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचाधिकशततमस्सर्गः ।

स तेनतुतदाक्रोधात्काकुत्स्थेनार्दितोरणे ।
रावणस्समरश्लाघिमहाक्रोधामुपागमत् ॥ 1 ॥

स दीप्तनयनोरोषाच्चापमायाम्यवीर्यवान् ।
अभ्यर्दयत्सुसंकृद्धोराघवंपरमाहवे ॥ 2 ॥

राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन्वत्स समरे विजयिष्यसे ॥ 3 ॥

पूरितःशरजालेनधनुर्मुक्तेनसम्युगे ।
महागिरिरिवाकंप्यःकाकुत्स्थो न प्रकंपते ॥ 4 ॥

स शरैश्शरजालानिवारयन् समरेस्थितः ।
गभस्तीनिवसूर्यस्यप्रतिजग्राहवीर्यवान् ॥ 5 ॥

ततश्शरसहस्राणिक्षिप्रहस्तोनिशाचरः ।
निजघानोरसिक्रुद्धोराघवस्यमहात्मनः ॥ 6 ॥

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणान् लोकान् पाति गभस्तिभिः ॥ 7 ॥

शराभिघातसम्रब्दःसोऽभिजग्राहसायकान् ।
काकुत्स्थः सुमहातेजायुगांतादित्यतेजसः ॥ 8 ॥

ततोऽन्योन्यंसुसम्रब्धौतावुभौरामरावणौ ।
शरांधकारेसमरेनोपलक्ष्यतांतदा ॥ 9 ॥

ततःक्रोधसमाविष्टोरामोदशरथात्मजः ।
उवाचरावणंवीरःप्रहस्यपरुषंवचः ॥ 10 ॥

ममभार्याजनस्थानादज्ञानाद्राक्षसाधम ।
हृतातेविवशायस्मात्तस्मात्त्वंनासिवीर्यवान् ॥ 11 ॥

मयाविरहितांदीनांवर्तमानांमहावने ।
वैदेहींप्रसभंहृत्वाशूरोऽहमितिमन्यसे ॥ 12 ॥

स्त्रीषुशूरविनाथासुपरदाराभिमर्शक ।
कृत्वाकापुरुषंकर्मशूरोऽहमितिमन्यसे ॥ 13 ॥

भिन्नमर्यादनिर्लज्ज चारित्रेष्वनवस्थित ।
दर्पान्मृत्युमुपादायशूरोऽहमितिमन्यसे ॥ 14 ॥

शूरेणधनदभ्रात्राबलैःसमुदितेन च ।
श्लाघनीयंमहत्कर्मयशस्यं च कृतंत्वया ॥ 15 ॥

उत्सेकानाभिपन्नस्यगर्हितस्याहितस्य च ।
कर्मणःप्राप्नुहीदानांतस्याद्यसुमहत्फलम् ॥ 16 ॥

शूरोऽहमितिचात्मानमवगच्छसिदुर्मते ।
नैवलज्जास्तितेसीतांचौरवद्वृपकर्षतः ॥ 17 ॥

यदिमत्सन्निधौसीताधर्षितास्यात्त्वयाबलात् ।
भ्रातरंतुखरंपश्येस्तदामत्सायकैर्हतः ॥ 18 ॥

दिष्ट्यासिममदुष्टात्मश्चक्षुर्विषयमागतः ।
अद्यत्वांसायकैस्तीक्ष्णैर्नयामियमसादनम् ॥ 19 ॥

अद्यतेमच्छरैश्चिन्नंशिरोज्वलितकुंडलम् ।
क्रव्यादाव्यपकर्षंतुविकीर्णंरणपांसुषु ॥ 20 ॥

निपत्योरसिगृध्रास्तेक्षितौक्षिप्तस्यरावण ।
पिबंतुरुधिरंतर्षाद्बाणशल्यांतरोत्थितम् ॥ 21 ॥

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22 ॥

इत्येवं स वदन्वीरोरामश्शत्रुनिबर्हणः ।
राक्षसेंद्रंसमीपस्थंशरवर्षैरवाकिरत् ॥ 23 ॥

बभूवद्विगुणंवीर्यंबलंहर्षश्चसंयुगे ।
रामस्यास्त्रबलंचैवशत्रोर्निधनकांक्षिणः ॥ 24 ॥

प्रादुर्भभूवुरस्त्राणिसर्वाणिविदितात्मनः ।
प्रहर्षाच्चमहातेजाश्शीघ्रहस्ततरोऽभवत् ॥ 25 ॥

शुभान्येतानिचिह्नानिविज्ञायात्मगतानिसः ।
भूयएवार्दयद्रामोरावणंराक्षसांतकृत् ॥ 26 ॥

हरीणांचाश्मनिकरैश्शरवर्षाच्चराघवात् ।
हन्यमानोदशग्रीवोविघूर्णहृदयोऽभवत् ॥ 27 ॥

यदा च शस्त्रंनारेभे न चकर्षशरासनम् ।
नास्यप्रत्यकरोवदीर्यंविक्लबेनांतरात्मना ॥ 28 ॥

क्षिप्ताःश्चाशुशरास्तेनशस्त्राणिविविधानि च ।
मरणार्थायवर्तंतेमृत्युकालोऽभ्यवर्तत ॥ 29 ॥

सूतस्तुरथनेतास्यतदवस्थंनिरीक्ष्यतम् ।
शनैर्युद्धासंभ्रांतोरथंतस्यापवाहयत् ॥ 30 ॥

रथं च तस्याथजवेनसाथिर्निवार्यभीमंजलदस्वनंतदा ।
जगामभीत्यासमरान्महीपतिंनिरस्तवीर्यंपतितंसमीक्ष्य ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचाधिकशततमस्सर्गः ॥




Browse Related Categories: