View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.20 युद्धकांड - विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ विंशस्सर्गः ।

ततोनिविष्टांध्वजिनींसुग्रीवेणाभिपालिताम् ।
ददर्शराक्षसोऽभ्येत्यशार्दूलोनामवीर्यवान् ॥ 1 ॥

चारोराक्षसराजस्यरावणस्यदुरात्मनः ।
तांदृष्ट्वासर्वतोव्यग्रंप्रतिगम्यसराक्षसः ॥ 2 ॥

आविश्य लंकां वेगेन राजानमिदमब्रवीत् ।
एष वै वानरर्क्षघो लंकां समभिवर्तते ॥ 3 ॥

पुत्रौदशरथस्येमौभ्रातरौरामलक्ष्मणौ ॥ 4 ॥

उत्तमौरूपसंपन्नौसीतायाःपदमागतौ ।
एतौसागरमासाद्यसन्निविष्टौमहाद्युती ॥ 5 ॥

बलंचामाकाशमावृत्यसर्वतोदशयोजनम् ।
तत्त्वभूतंमहाराज क्षिप्रंवेदितुमर्हसि ॥ 6 ॥

तवदूतामहाराजक्षिप्रमर्हंत्यवेक्षितुम् ।
उपप्रदानंसांत्वंवाभेदोवात्रप्रयुज्यताम् ॥ 7 ॥

शार्दूलस्यवचश्श्रुत्वारावणोराक्षसेश्वरः ।
उवाचसहसाव्यग्रस्संप्रधार्यार्थमात्मनः ॥ 8 ॥

शुकंनामतदारक्षोवाक्यमर्थविदांवरम् ।
सुग्रीवंब्रूहिगत्वाशुराजानंवचनान्मम ।
यथासंदेशमक्लीबंश्लक्ष्णयापरयागिरा ॥ 9 ॥

त्वंवैमहाराजकुलप्रसूतोमहाबलश्चर् क्षरजस्सुतश्च ।
नकश्चिदार्थस्तवनास्त्यनर्थस्तथाहिमेभ्रातृसमोहरीश ॥ 10 ॥

अहंयद्यहरंभार्यांराजपुत्रस्यधीमतः ।
किंतत्रतवसुग्रीवः किष्किंधांप्रतिगम्यताम् ॥ 11 ॥

नहीयंहरिभिर्लंकाशक्याप्राप्तुंकथंचन ।
देवैरपिसगंधर्वैःकिंपुनर्नरवानरैः ॥ 12 ॥

सतथाराक्षसेंद्रेणसंदिष्टोरजनीचरः ।
शुकोविहंगमोभूत्वातूर्णमाप्लुत्यचांबरम् ॥ 13 ॥

सगत्वादूरमध्वानमुपर्युपरिसागरम् ।
संस्थितोह्यंबरेवाक्यंसुग्रीवमिदमब्रवीत् ॥ 14 ॥

सर्वमुक्तंयथादिष्टंरावणेनदुरात्मना ।
तंप्रापयंतंवचनंतूर्णमाप्लुत्यवानराः ॥ 15 ॥

प्रापद्यंतदिवंक्षिप्रंलोप्तुंहंतुंचमुष्टिभिः ।
सतैःप्लवंगैःप्रसभंनिगृहीतोनिशाचरः ।
गगनाद्भूतलेचाशुपरिगृह्यनिपातितः ॥ 16 ॥

वानरैःपीड्यमानस्तुशुकोवचनमब्रवीत् ।
नदूतान्घ्नंतिकाकुत्स्थ वार्यंतांसाधुवानराः ॥ 17 ॥

यस्तुहित्वामतंभर्तुस्स्वमतंसंप्रभाषते ।
अनुक्तवादीदूतस्सन् सदूतोवधमर्हति ॥ 18 ॥

शुकस्यवचनंश्रुत्वारामस्तुपरिदेवितम् ।
उवाचमावधिष्टेतिघ्नतश्शाखामृगर्षभान् ॥ 19 ॥

सचपत्रलघुर्भूत्वाहरिभिर्दर्शितेभये ।
अंतरिक्षेस्थितोभूत्वापुनर्वचनमब्रवीत् ॥ 20 ॥

सुग्रीवःस त्त्वसंपन्नः महाबलपराक्रमः ।
किंमयाखलुवक्तव्योरावणोलोकरावणः ॥ 21 ॥

सएवमुक्तःप्लवगाधिपस्तदाप्लवंगमानामृषभोमहाबलः ।
उवाचवाक्यंरजनीचरस्यचारंशुकंतूर्णमदीनसत्त्वः ॥ 22 ॥

नमेऽसिमित्रंनतथानुकंप्योनचोपकर्तापिनमेप्रियोऽसि ।
अरिश्चरामस्यसहानुबंधस्ततोऽसिवालीववधार्हवध्यः ॥ 23 ॥

निह्नन्म्यहंत्वांससुतंसबंधुंसज्ञातिवर्गरजनीचरेश ।
लंकांचसर्वांमहताबलेनक्षिप्रंकरिष्यामिसमेत्यभस्म ॥ 24 ॥

नमोक्षयसेरावणः राघवस्यसुरैस्सहेंद्रैदपिमूढगुप्तः ।
अंतर्हितस्सूर्यपथंगतोऽवा ।
तथैवपातालमनुप्रविष्टः ॥ 25 ॥

गिरीशपादंबुजसंगतोवाहतोऽसिरामेणसहानुजस्त्वम् ॥ 26 ॥

तस्यतेत्रिषुलोकेषुनपिशाचंनराक्षसम् ।
त्रातारमनुपश्यामिनगंधर्वंनचासुरम् ॥ 27 ॥

अवधीर्यजरावृद्दंगृध्रराजंजटायुषम् ।
किंनुतेरामसान्निध्येसकाशेलक्ष्मणस्यवा ॥ 28 ॥

हृतासीताविशालाक्षीयांत्वंगृह्यनबुध्यसे ।
महाबलंमहात्मानंदुर्धर्षममरैरपि ।
नबुध्यसेरघुश्रेष्ठंयस्तेप्राणान्हरिष्यति ॥ 29 ॥

ततोऽब्रवीद्वालिसुतस्त्वंगदोहरिसत्तमः ।
नायंदूतोमहाराजचारिकःप्रतिभातिमे ॥ 30 ॥

तुलितंहिबलंसर्वमनेनात्रैवतिष्ठता ।
गृह्यतांमागमल्लंकामेतद्दिममरोचते ॥ 31 ॥

ततोराज्ञासमादिष्टास्समुत्पत्यवलीमुखाः ।
जगृहुश्चबबंधुश्चविलपंतमनाथवत् ॥ 32 ॥

शुकस्तुवानरैश्चंडैस्तत्रतैस्संप्रपीडितः ।
व्याचुक्रोशमहात्मानंरामंदशरथात्मजम् ॥ 33 ॥

लुप्येतेमेबलात्पक्षौभिद्येतेमेतथाऽक्षिणी ॥ 34 ॥

यांचरात्रिंमरिष्यामिजायेरात्रिंचयामहम् ।
एतस्मिन्नंतरेकालेयन्मयाह्यशुभंकृतम् ॥ 35 ॥

सर्वंत्वमुपपद्येधाजह्यांचेद्यदिजीवितम् ।
नाघातयत्तदारामश्श्रुत्वातत्परिदेवनम् ।
वानरानब्रवीद्रामोमुच्यतांदूतआगतः ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे विंशस्सर्गः ॥




Browse Related Categories: