श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ पंचषष्टितमस्सर्गः ।
तप्यमानं तथा रामं सीताहरणकर्शितम् ।
लोकानामभवे युक्तं सांवर्तकमिवानलम् ॥ 1 ॥
वीक्षमाणं धनुस्सज्यं निश्श्वसंतं पुनः पुनः ।
दग्धुकामं जगत्सर्वं युगांते च यथा हरम् ॥ 2 ॥
अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः ।
अब्रवीत्प्रांजलिर्वाक्यं मुखेन परिशुष्यता ॥ 3 ॥
पुरा भूत्वा मृदुर्दांतस्सर्वभूतहिते रतः ।
न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥ 4 ॥
चंद्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा ।
एतत्तु नियतं सर्वं त्वयि चानुत्तमं यशः ॥ 5 ॥
एकस्य नापराधेन लोकान् हंतुं त्वमर्हसि ।
न तु जानामि कस्यायं भग्नस्सांग्रामिको रथः ॥ 6 ॥
केन वा कस्य वा हेतोस्सायुधस्सपरिच्छदः ।
खुरनेमिक्षतश्चायं सिक्तो रुधिरबिंधुभिः ॥ 7 ॥
देशो निर्वृत्तसंग्रामस्सुघोरः पार्थिवात्मज ।
एकस्य तु विमर्धोऽयं न द्वयोर्वदतांवर ॥ 8 ॥
न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ।
नैकस्य तु कृते लोकान्विनाशयितुमर्हसि ॥ 9 ॥
युक्तदंडा हि मृदवः प्रशांता वसुधाधिपाः ।
सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ॥ 10 ॥
को नु दारप्रणाशं ते साधु मन्येत राघव ।
सरितस्सागराश्शैला देवगंधर्वदानवाः ॥ 11 ॥
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ।
येन राजन्हृता सीता तमन्वेषितुमर्हसि ॥ 12 ॥
मद्वितीयो धनुष्पाणिस्सहायैः परमर्षिभिः ।
समुद्रं च विचेष्यामः पर्वतांश्च वनानि च ॥ 13 ॥
गुहाश्च विविधा घोरा नदी पद्मवनानि च ।
देवगंधर्वलोकांश्च विचेष्यामस्समाहिताः ॥ 14 ॥
यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ।
न चेत्साम्ना प्रदास्यंति पत्नीं ते त्रिदशेश्वराः ॥ 15 ॥
कोसलेंद्र ततः पश्चात्प्राप्तकालं करिष्यसि ।
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेंद्र ।
ततस्समुत्सादय हेमपुंखै र्महेंद्रवज्रप्रतिमैश्शरौघैः ॥ 16 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे पंचषष्टितमस्सर्गः ॥