View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

4.42 किष्किंधाकांड - द्विचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ द्विचत्वारिंशस्सर्गः ।

अथ प्रस्थाप्य सुग्रीवस्तान्हरींदक्षिणां दिशम् ।
अब्रवीन्मेघसंकाशं सुषेणं नाम यूथपम् ॥ 1 ॥

तारायाः पितरं राजा श्वशुरं भीमविक्रमम् ।
अब्रवीत्प्रांजलिर्वाक्यमभिगम्य प्रणम्य च ॥ 2 ॥

मरीचिपुत्रं मारीचमर्चिष्मंतं महाकपिम् ।
वृतं कपिवरै श्शूरैर्महेंद्रसदृशद्युतिम् ॥ 3 ॥

बुद्धिविक्रमसंपन्नं वैनतेयसमद्युतिम् ।
मरीचिपुत्रान्मारीचानर्चिर्मालान्महाबलान् ॥ 4 ॥

ऋषिपुत्रांश्चतांत्सर्वान्प्रतीचीमादिशद्दिशम् ।
द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ॥ 5 ॥

सुषेणप्रमुखा यूयं वैदेहीं परिमार्गतः ।
सुराष्ट्रान्सहबाह्लीकान् श्चंद्रचित्रांस्तथैव च ॥ 6 ॥

स्फीतांजनपदान्रम्यान्विपुलानि पुराणि च ।
पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम् ॥ 7 ॥

तथा केतकषंडांश्च मार्गध्वं हरियूथपाः ।
प्रत्यक्स्रोतोगमाश्चैव नद्यश्शीतजलाश्शिवाः ॥ 8 ॥

तापसानामरण्यानि कांतारा गिरयश्च ये ।
तत्रस्थलीं मरुप्रायामत्युच्चशिरसश्शिलाः ॥ 9 ॥

गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ।
ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ ॥ 10 ॥

तिमिनक्रायुतजलमक्षोभ्यमथ वानराः ।
ततः केतकषंडेषु तमालगहनेषु च ॥ 11 ॥

कपयो विहरिष्यंति नारिकेलवनेषु च ।
तत्र सीतां च मार्गध्वं निलयं रावणस्य च ॥ 12 ॥

वेलातलनिविष्टेषु पर्वतेषु वनेषु च ।
मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् ॥ 13 ॥

अवंतीमंगलोपां च तथा चालक्षितं वनम् ।
राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥ 14 ॥

सिंधुसागरयोश्चैव संगमे तत्र पर्वतः ।
महान्हेमगिरिर्नाम शतशृंगो महाद्रुमः ॥ 15 ॥

तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ।
तिमिमत्स्यगजांश्चैव नीडान्यारोपयंति ते ॥ 16 ॥

तानि नीडानि सिंहानां गिरिशृंगगताश्च ये ।
दृप्तास्तृप्ताश्च मातंगास्तोयदस्वननिस्वनाः ॥ 17 ॥

विचरंति विशालेऽस्मिंस्तोयपूर्णे समंततः ।
तस्य शृंगं दिवस्पर्शं कांचनं चित्रपादपम् ॥ 18 ॥

सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ।
कोटिं तत्र समुद्रे तु कांचनीं शतयोजनाम् ॥ 19 ॥

दुर्दर्शां पारियात्रस्य गतां द्रक्ष्यथ वानराः ।
कोट्यस्तत्र चतुर्विंशद्गंधर्वाणां तपस्विनाम् ॥ 20 ॥

वसंत्यग्निनिकाशानां घोराणां कामरूपिणाम् ।
पावकार्चिः प्रतीकाशास्समवेतास्सहस्रशः ॥ 21 ॥

नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ।
नादेयं च फलं तस्माद्देशात्किंचित् प्लवंगमैः ॥ 22 ॥

दुरासदा हि ते वीरा स्सत्त्ववंतो महाबलाः ।
फलमूलानि ते तत्र रक्षंते भीमविक्रमाः ॥ 23 ॥

तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ।
न हि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम् ॥ 24 ॥

तत्र वैढूर्यवर्णाभो वज्रसंस्थानसंस्थितः ।
नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥ 25 ॥

श्रीमान्समुदितस्तत्र योजनानां शतं समम् ।
गुहास्तत्र विचेतव्या प्रयत्नेन प्लवंगमाः ॥ 26 ॥

चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः ।
तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ 27 ॥

तत्र पंचजनं हत्वा हयग्रीवं च दानवम् ।
आजहार ततश्चक्रं शंखं च पुरुषोत्तमः ॥ 28 ॥

तस्य सानुषु चित्रेषु विशालासु गुहासु च ।
रावण स्सह वैदेह्या मार्गितव्यस्तत स्ततः ॥ 29 ॥

योजनानां चतुष्षष्टिर्वराहो नाम पर्वतः ।
सुवर्णशृंगस्सुश्रीमा नगाधे वरुणालये ॥ 30 ॥

तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् ।
यस्मिन्वसति दुष्टात्मा नरको नाम दानवः ॥ 31 ॥

तत्र सानुषु चित्रेषु विशालासु गुहासु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 32 ॥

तमतिक्रम्य शैलेंद्रं कांचनांतरनिर्दरः ।
पर्वत स्सर्वसौवर्णो धाराप्रस्रवणायुतः ॥ 33 ॥

तं गजाश्च वराहाश्च सिंह व्याघ्राश्च सर्वतः ।
अभिगर्जंति सततं तेन शब्देन दर्पिताः ॥ 34 ॥

यस्मिन्हरिहय्शीमान्महेंद्रः पाकशासनः ।
अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ॥ 35 ॥

तमतिक्रम्य शैलेंद्रं महेंद्रपरिपालितम् ।
षष्टि र्गिरिसहस्राणि कांचनानि गमिष्यथ ॥ 36 ॥

तरुणादित्यवर्णानि भ्राजमानानि सर्वतः ।
जातरूपमयैर्वृक्षै शोभितानि सुपुष्पितैः ॥ 37 ॥

तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः ।
आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ 38 ॥

तेनैव मुक्तश्शैलेंद्रस्सर्व एव त्वदाश्रयाः ।
मत्प्रसादाद्भविष्यंति दिवा रात्रं च कांचनाः ॥ 39 ॥

त्वयि ये चापि वत्स्यंति देवगंधर्वदानवाः ।
ते भविष्यंति रक्ताश्च प्रभया कांचनप्रभाः ॥ 40 ॥

विश्वे देवाश्च मरूतो वसवश्च दिवौकसः ।
आगम्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम् ॥ 41 ॥

आदित्यमुपतिष्ठंति तैश्च सूर्योऽभिपूजितः ।
अदृश्यस्सर्वभूतानामस्तं गच्छतिपर्वतम् ॥ 42 ॥

योजनानां सहस्राणि दश तानि दिवाकरः ।
मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥ 43 ॥

शृंगे तस्य महद्दिव्यं भवनं सूर्यसन्निभम् ।
प्रासादगणसंबाधं विहितं विश्वकर्मणा ॥ 44 ॥

शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ।
निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥ 45 ॥

अंतरा मेरुमस्तं च तालो दशशिरा महान् ।
जातरूपमय्शीमान्भ्राजते चित्रवेदिकः ॥ 46 ॥

तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च ।
रावणस्सह वैदेह्या मार्गितव्यस्तत स्ततः ॥ 47 ॥

यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः ।
मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः ॥ 48 ॥

प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसन्निभः ।
प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥ 49 ॥

एताव ज्जीवलोकस्य भास्करो रजनीक्ष्ये ।
कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥ 50 ॥

एतावद्वानरैश्शक्यं गंतुं वानरपुंगवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ 51 ॥

अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
अस्त पर्वतमासाद्य पूर्णे मासे निवर्तत ॥ 52 ॥

ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ।
सहैव शूरो युष्माभिश्श्वशुरो मे गमिष्यति ॥ 53 ॥

श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ।
गुरुरेष महाबाहुश्श्वशुरो मे महाबलः ॥ 54 ॥

भवंतश्चापि विक्रांताः प्रमाणं सर्व कर्मसु ।
प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ॥ 55 ॥

दृष्टायां तु नरेंद्रस्य पत्न्याममिततेजसः ।
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥ 56 ॥

अतोऽन्यदपि यत्कार्यं कार्यस्यास्य हितं भवेत् ।
संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥ 57 ॥

ततः सुषेणप्रमुखाः प्लवंगामाः स्सुग्रीव वाक्यं निपुणं निशम्य ।
आमंत्य्र सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥ 58 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे द्विचत्वारिंशस्सर्गः ॥




Browse Related Categories: