View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

1.2 बालकांड - द्वितीय सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ द्वितीयस्सर्गः ।

नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।
पूजयामास धर्मात्मा सहशिष्यो महामुनिः ॥ 1 ॥

यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा ।
आपृष्ट्वैवाभ्यनुज्ञातस्स जगाम विहायसम् ॥ 2 ॥

स मुहूर्तं गते तस्मिंदेवलोकं मुनिस्तदा ।
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥ 3 ॥

स तु तीरं समासाद्य तमसाया महामुनिः ।
शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ 4 ॥

अकर्दममिदं तीर्थं भरद्वाज निशामय ।
रमणीयं प्रसन्नांबु सन्मनुष्यमनो यथा ॥ 5 ॥

न्यस्यतां कलशस्तात दीयतां वल्कलं मम ।
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥ 6 ॥

एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ 7 ॥

स शिष्यहस्तादादाय वल्कलं नियतेंद्रियः ।
विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ॥ 8 ॥

तस्याभ्याशे तु मिथुनं चरंतमनपायिनम् ।
ददर्श भगवांस्तत्र क्रौंचयोश्चारुनिस्वनम् ॥ 9 ॥

तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।
जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ 10 ॥

तं शोणितपरीतांगं वेष्टमानं महीतले ।
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥ 11 ॥

वियुक्ता पतिना तेन द्विजेन सहचारिणा ।
ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै ॥ 12 ॥

तदा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ 13 ॥

ततः करुणवेदित्वादधर्मोऽयमिति द्विजः ।
निशाम्य रुदतीं क्रौंचीमिदं वचनमब्रवीत् ॥ 14 ॥

मा निषाद प्रतिष्ठां त्वमगमश्शाश्वतीस्समाः ।
यत्क्रौंचमिथुनादेकमवधीः काममोहितम् ॥ 15 ॥

15 तस्यैवं ब्रुवतश्चिंता बभूव हृदि वीक्षतः ।
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ 16 ॥

चिंतयन्स महाप्राज्ञश्चकार मतिमान्मतिम् ।
शिष्यं चैवाऽब्रवीद्वाक्यमिदं स मुनिपुंगवः ॥ 17 ॥

पादबद्धोऽक्षरसमस्तंत्रीलयसमन्वितः ।
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ 18 ॥

शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।
प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥ 19 ॥

सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन्यथाविधि ।
तमेव चिंतयन्नर्थमुपावर्तत वै मुनिः ॥ 20 ॥

भरद्वाजस्ततश्शिष्यो विनीतश्श्रुतवान्मुनेः ।
कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥ 21 ॥

स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥ 22 ॥

आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः ।
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम् ॥ 23 ॥

वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।
प्रांजलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥ 24 ॥

पूजयामास तं देवं पाद्यार्घ्यासनवंदनैः ।
प्रणम्य विधिवच्चैनं पृष्ट्वाऽनामयमव्ययम् ॥ 25 ॥

अथोपविश्य भगवानासने परमार्चिते ।
वाल्मीकये महर्षये संदिदेशासनं ततः ॥ 26 ॥

ब्रह्मणा समनुज्ञातस्सोऽप्युपाविशदासने ।
उपविष्टे तदा तस्मिन्सर्वलोकपितामहे ।
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ॥ 27 ॥

पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।
यस्तादृशं चारुरवं क्रौंचं हन्यादकारणात् ॥ 28 ॥

शोचन्नेव मुहुः क्रौंचीमुपश्लोकमिमं पुनः ।
जगावंतर्गतमना भूत्वा शोकपरायणः ॥ 29 ॥

तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुंगवम् ।
श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥ 30 ॥

मच्छंदादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ।
रामस्य चरितं सर्वं कुरु त्वमृषिसत्तम ॥ 31 ॥

धर्मात्मनो गुणवतो लोके रामस्य धीमतः ।
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ॥ 32 ॥

रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ।
रामस्य सहसौमित्रेः राक्षसानां च सर्वशः ॥ 33 ॥

वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ।
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ॥ 34 ॥

न ते वागनृता काव्ये काचिदत्र भविष्यति ।
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ॥ 35 ॥

यावत् स्थास्यंति गिरयस्सरितश्च महीतले ।
तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥ 36 ॥

यावद्रामायणकथा त्वत्कृता प्रचरिष्यति ।
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ॥ 37 ॥

इत्युक्त्वा भगवान्ब्रह्मा तत्रैवांतरधीयत ।
ततस्सशिष्यो भगवान्मुनिर्विस्मयमाययौ ॥ 38 ॥

तस्य शिष्यास्ततस्सर्वे जगुश्श्लोकमिमं पुनः ।
मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ 39 ॥

समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।
सोऽनुव्याहरणाद्भूयश्श्लोकश्श्लोकत्वमागतः ॥ 40 ॥

तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।
कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥ 41 ॥

उदारवृत्तार्थपदैर्मनोरमैः तदास्य रामस्य चकारकीर्तिमान् ।
समाक्षरैश्श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनिः ॥ 42 ॥

तदुपगतसमाससंधियोगं सममधुरोपनतार्थवाक्यबद्धम् ।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ 43 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे द्वितीयस्सर्गः ॥




Browse Related Categories: