श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ सप्तषष्टितमस्सर्गः ।
. जनकस्य वचश्श्रुत्वा विश्वामित्रो महामुनिः ।
धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥ 1 ॥
ततस्स राजा जनकः सामंतान्व्यादिदेश ह ।
धनुरानीयतां दिव्यं गंधमाल्यविभूषितम् ॥ 2 ॥
जनकेन समादिष्टाः सचिवा प्राविशन् पुरीम् ।
तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥ 3 ॥
नृणां शतानि पंचाशद्व्यायतानां महात्मनाम् ।
मंजूषामष्टचक्रां तां समूहुस्ते कथंचन ॥ 4 ॥
तामादाय तु मंजूषामायसीं यत्र तद्धनुः ।
सुरोपमं ते जनकमूचुर्नृपतिमंत्रिणः ॥ 5 ॥
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः ।
मिथिलाधिप राजेंद्र दर्शनीयं यदिच्छसि ॥ 6 ॥
तेषां नृपो वचः श्रुत्वा कृतांजलिरभाषत ।
विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ ॥ 7 ॥
इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् ।
राजभिश्च महावीर्यैः अशक्तैः पूरितुं पुरा ॥ 8 ॥
नैतत्सुरगणास्सर्वे नासुरा न च राक्षसाः ।
गंधर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ 9 ॥
क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे ।
आरोपणे समायोगे वेपने तोलनेऽपि वा ॥ 10 ॥
तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुंगव ।
दर्शयैतन्महाभाग अनयोः राजपुत्रयोः ॥ 11 ॥
विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् ।
वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥ 12 ॥
ब्रह्मर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः ।
मंजूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥ 13 ॥
इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना ।
यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा ॥ 14 ॥
बाढमित्येव तं राजा मुनिश्च समभाषत ।
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ॥ 15 ॥
पश्यतां नृपसहस्राणां बहूनां रघुनंदनः ।
आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः ॥ 16 ॥
आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः ।
तद्बभंज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥ 17 ॥
तस्य शब्दो महानासीत् निर्घातसमनिस्वनः ।
भूमिकंपश्च सुमहान् पर्वतस्येव दीर्यतः ॥ 18 ॥
निपेतुश्च नरा स्सर्वे तेन शब्देन मोहिताः ।
वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ 19 ॥
प्रत्याश्वस्ते जने तस्मिन्राजा विगतसाध्वसः ।
उवाच प्रांजलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम् ॥ 20 ॥
भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः ।
अत्यद्भुतमचिंत्यं च न तर्कितमिदं मया ॥ 21 ॥
जनकानां कुले कीर्तिमाहरिष्यति मे सुता ।
सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥ 22 ॥
मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक ।
सीता प्राणैर्बहुमता देया रामाय मे सुता ॥ 23 ॥
भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छंतु मंत्रिणः ।
मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥ 24 ॥
राजानं प्रश्रितैर्वाक्यैरानयंतु पुरं मम ।
प्रदानं वीर्यशुल्कायाः कथयंतु च सर्वशः ॥ 25 ॥
मुनिगुप्तौ च काकुत्स्थौ कथयंतु नृपाय वै ।
प्रीयमाणं तु राजानमानयंतु सुशीघ्रगाः ॥ 26 ॥
कौशिकश्च तथेत्याह राजा चाभाष्य मंत्रिणः ॥ 27 ॥
अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् ।
यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ॥ 28 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे सप्तषष्टितमस्सर्गः ॥