View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3.75 अरण्यकांड - पंचसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ पंचसप्ततितमस्सर्गः ।

दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा ।
लक्ष्मणेन सह भ्रात्रा चिंतयामास राघवः ॥ 1 ॥

स चिंतयित्वा धर्मात्मा प्रभावं तं महात्मनाम् ।
हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥ 2 ॥

दृष्टोऽयमाश्रमस्सौम्य बह्वाश्चर्यो महात्मनाम् ।
विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥ 3 ॥

सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण ।
उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ॥ 4 ॥

प्रणष्टमशुभं तत्तत्कल्याणं समुपस्थितम् ।
तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण संप्रति ॥ 5 ॥

हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ।
तदागच्छ गमिष्यामि पंपां तां प्रियदर्शनाम् ॥ 6 ॥

ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ।
यस्मिन्वसति धर्मात्मा सुग्रीवोंऽशुमतस्सुतः ॥ 7 ॥

नित्यं वालिभयात्त्रस्तश्चतुर्भिस्सह वानरैः ।
अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ॥ 8 ॥

तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ।
एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत् ॥ 9 ॥

गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ।
आश्रमात्तु तत स्तस्मान्निष्क्रम्य स विशांपतिः ॥ 10 ॥

आजगाम ततः पंपां लक्ष्मणेन सह प्रभुः ।
स ददर्श ततः पुण्यामुदारजनसेविताम् ॥ 11 ॥

नानाद्रुमलताकीर्णां पंपां पानीयवाहिनीम् ।
पद्मैस्सौगंधिकैस्ताम्रां शुक्लां कुमुदमंडलैः ॥ 12 ॥

नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव ।
स तामासाद्य वै रामो दूरादुदकवाहिनीम् ॥ 13 ॥

मतंगसरसं नाम ह्रदं समवगाहत ।
अरविंदोत्पलवतीं पद्मसौगंधिकायुताम् ॥ 14 ॥

पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ।
तिलकैर्बीजपूरैश्च धवैश्शुक्लद्रुमैस्तथा ॥ 15 ॥

पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः ।
मालतीकुंदगुल्मैश्च भांडीरैर्निचुलैस्तथा ॥ 16 ॥

अशोकैस्सप्तपर्णैश्च केतकैरतिमुक्तकैः ।
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम् ॥ 17 ॥

समीक्षमाणौ पुषपाढ्यं सर्वतो विपुलद्रुमम् ।
कोयष्टिकैश्चार्जुनकैश्शतपत्रैश्च कीरकैः ॥ 18 ॥

एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत् ।
ततो जग्मतुरव्यग्रौ राघवौ सुसमाहितौ ॥ 19 ॥

तद्वनं चैव सरसः पश्यंतै शकुनैर्युतम् ।
स ददर्श ततः पंपां शीतवारिनिधिं शुभाम् ॥ 20 ॥

तिलकाशोकपुन्नागवकुलोद्दालकाशिनीम् ।
स रामो विविधान्वृक्षान्सरांसि विविधानि च ॥ 21 ॥

पश्यन्कामाभिसंतप्तो जगाम परमं ह्रदम् ।
पुष्पितोपवनोपेतां सालचंपकशोभिताम् ॥ 22 ॥

षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् ।
स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम् ॥ 23 ॥

स तां दृष्ट्वा पुनः पंपां पद्मसौगन्घिकैर्युताम् ।
इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः ॥ 24 ॥

अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमंडितः ।
ऋष्यमूक इति ख्यातः पुण्यः पुष्पितपादपः ॥ 25 ॥

हरेः ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः ।
अध्यास्ते तं महावीर्यस्सुग्रीव इति विश्रुतः ॥ 26 ॥

सुग्रीवमभिगच्छ त्वं वानरेंद्रं नरर्षभ ।
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ॥ 27 ॥

राज्यभ्रष्टेन दीनेन तस्यामासक्तचेतसा ।
कथं मया विना शक्यं सीतां लक्ष्मण जीवितुम् ॥ 28 ॥

इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतसम् ।
विवेश पंपां नलिनीं मनोरमां रघूत्तमश्शोकविषादयंत्रितः ॥ 29 ॥

ततो महद्वर्त्म सुदूरसंक्रमं क्रमेण गत्वा प्रविलोकयन्वनम् ।
ददर्श पंपां शुभदर्शकाननामनेकनानाविधपक्षिजालकाम् ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे पंचसप्ततितमस्सर्गः ॥




Browse Related Categories: