View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.72 युद्धकांड - द्विसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्विसप्ततितमस्सर्गः ।

अतिकायंहतंश्रुत्वालक्ष्मणेनमहौजसा ।
उद्वेगमगमद्राजावचनंचेदमब्रवीत् ॥ 1 ॥

धूम्राक्षःपरमामर्षीधन्वीशस्त्रभृतांवरः ।
अकंपनःप्रहस्तश्चकुंभुकर्णस्तथैव च ॥ 2 ॥

एतेमहाबलावीराराक्षसायुद्धकांक्षिणः ।
जेतारःपरसैन्यानांपरैर्नित्यापराजिताः ॥ 3 ॥

निहतास्तेमहावीर्यारामेणाक्लिष्टकर्मणा ।
राक्षसास्सुमहाकायानानाशस्त्रविशारदाः ॥ 4 ॥

अन्ये च बहवश्शूरामहात्मानोनिपातिताः ।
प्रख्यातबलवीर्येणपुत्रेणेंद्रजितामम ॥ 5 ॥

यौहितौभ्रातरौतदावीरौबद्धौदत्तवरैश्शरैः ।
यन्नशक्यंसुरैस्सर्वैरसुरैर्वामहाबलैः ॥ 6 ॥

मोक्तुंतद्बंधनंघोरंयक्षगंधर्वकिन्नरैः ।
तन्नजानेप्रभावैर्वामाययामोहनेनवा ॥ 7 ॥

शरबंधाद्विमुक्तौतौभ्रातरौरामलक्ष्मणौ ।
येयोधानिर्गताश्शूराराक्षसाममशासनात् ॥ 8 ॥

तेसर्वेनिहतायुद्धेवानरैस्सुमहाबलैः ।
तम्नपश्याम्यहंयुद्धेयोऽद्यरामंसलक्ष्मणम् ॥ 9 ॥

शासयेत्सबलंवीरंससुग्रीवविभीषणम् ।
अहोसुबलवान् रामोमहदस्त्रबलं च वै ॥ 10 ॥

यस्यविक्रममासाद्यराक्षसानिधनंगताः ।
अप्रमत्सैश्चसर्वत्रगुप्सैरक्ष्यापुरीवतियम् ॥ 11 ॥

अशोकवनिकायांचयत्रसीताऽभिरक्ष्यते ।
निष्क्रामोवाप्रवेशोवाज्ञातव्यस्सर्वदैवनः ॥ 12 ॥

यत्रयत्रभवेद्गुल्मस्तत्रतत्रपुनःपुनः ।
सर्वतश्चापितिष्ठध्वंस्स्वैः परिवृताबलैः ॥ 13 ॥

द्रष्टव्यं च पदंतेषांवानराणांनिशाचराः ।
प्रदोषेवार्धरात्रेवाप्रत्यूषेवापिसर्वत ॥ 14 ॥

नावज्ञातेषुकर्तव्यावानरेषुकदाचन ।
द्विषतांबलमुद्युक्तमापतकतिंस्थितंसदा ॥ 15 ॥

ततस्तेराक्षसास्सर्वेश्रुत्वालंकाधिपस्यतत् ।
वचनंसर्वमातिष्ठन् यथावत्तुमहाबलाः ॥ 16 ॥

स तान् सर्वान् हिसंदिश्यरावणोराक्षसाधिपः ।
मन्युशल्यंवहन् दीनःप्रविवेशस्वमालयम् ॥ 17 ॥

ततस्ससंदीपितकोपह्निर्निशाचराणामधिपोमहाबलः ।
तदेवपुत्रव्यसनंविचिंतयन्मुहुर्मुहुश्चैवतदाव्यनिश्श्वसत् ॥ 18 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्विसप्ततितमस्सर्गः ॥




Browse Related Categories: