View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

2.8 अयोध्याकांड - अष्टम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टमस्सर्गः ।

मंथरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत् ।
उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ 1 ॥

हर्षं किमिदमस्थाने कृतवत्यसि बालिशे ।
शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥ 2 ॥

मनसा प्रहसामि त्वां देवि दुःखार्दिता सती ।
यच्छोचितव्ये हृष्टाऽसि प्राप्येदं व्यसनं महत् ॥ 3 ॥

शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् ।
अरेस्सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम् ॥ 4 ॥

भरतादेव रामस्य राज्यसाधारणाद्भयम् ।
तद्विचिंत्य विषण्णाऽस्मि भयं भीताऽद्धि जायते ॥ 5 ॥

लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः ।
शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥ 6 ॥

प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि ।
राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः ॥ 7 ॥

विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ।
भयात्प्रवेपे रामस्य चिंतयंती तवात्मजम् ॥ 8 ॥

सुभगा खलु कौशल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ 9 ॥

प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।
उपस्थास्यसि कौसल्यां दासीव त्त्वं कृतांजलिः ॥ 10 ॥

एवं चेत्त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि ।
पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ॥ 11 ॥

हृष्टाः खलु भविष्यंति रामस्य परमास्स्त्रियः ।
अप्रहृष्टा भविष्यंति स्नुषास्ते भरतक्षये ॥ 12 ॥

तां दृष्ट्वा परमप्रीतां ब्रुवंतीं मंथरां ततः ।
रामस्यैव गुणांदेवी कैकेयी प्रशशंस ह ॥ 13 ॥

धर्मज्ञो गुरुभिर्दांतः कृतज्ञस्सत्यवाक्छुचिः ।
रामो राज्ञ स्सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥ 14 ॥

भ्रातृन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति ।
संतप्स्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥ 15 ॥

भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् ।
पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥ 16 ॥

सा त्वमभ्युदये प्राप्ते वर्तमाने च मंथरे ।
भविष्यति च कल्याणे किमर्थं परितप्यसे ॥ 17 ॥

यथा मे भरतो मान्यस्तथा भूयोऽपि राघवः ।
कौशल्यातोऽतिरिक्तं च सोऽनुशुश्रूषते हि माम् ॥ 18 ॥

राज्यं यदि हि रामस्य भरतस्यापि तत्तदा ।
मन्यते हि यथात्मानं तथा भ्रातृंश्च राघवः ॥ 19 ॥

कैकेयीवचनं श्रुत्वा मंथरा भृशदुःखिता ।
दीर्घमुष्णं च विनिश्वस्य कैकेयीमिदमब्रवीत् ॥ 20 ॥

अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे ।
शोकव्यसनविस्तीर्णे मज्जंती दुःखसागरे ॥ 21 ॥

भविता राघवो राजा राघवस्यानु यस्सुतः ।
राजवंशात्तु कैकेयि भरतःपरिहास्यते ॥ 22 ॥

न हि राज्ञस्सुता स्सर्वे राज्ये तिष्ठंति भामिनि ।
स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ 23 ॥

तस्माज्ज्येष्ठे हि कैकेयि राज्यतंत्राणि पार्थिवाः ।
स्थापयंत्यनवद्यांगि गुणवत्स्वितरेष्वपि ॥ 24 ॥

असावत्यंतनिर्भग्नस्तव पुत्रो भविष्यति ।
अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥ 25 ॥

साऽहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुद्ध्यसे ।
सपत्नि वृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि ॥ 26 ॥

ध्रुवं तु भरतं रामः प्राप्य राज्यमकंटकम् ।
देशांतरं वा नयिता लोकांतरमथाऽपि वा ॥ 27 ॥

बाल एव हि मातुल्यं भरतो नायितस्त्वया ।
सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥ 28 ॥

भरतस्याप्यनुवशश्शत्रुघ्नोऽपि समं गतः ।
लक्ष्मणो हि यथा रामं तथाऽसौ भरतं गतः ॥ 29 ॥

श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः ।
सन्निकर्षादिषीकाभिर्मोचितः परमाद्भयात् ॥ 30 ॥

गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः ।
अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥ 31 ॥

तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति ।
रामस्तु भरते पापं कुर्यादिति न संशयः ॥ 32 ॥

तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ।
एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥ 33 ॥

एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ।
यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यसि ॥ 34 ॥

स ते सुखोचितो बालो रामस्य सहजो रिपुः ।
समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ 35 ॥

अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।
प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ 36 ॥

दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।
राममाता सपत्नी ते कथं वैरं न शातयेत् ॥ 37 ॥

यदा हि रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकरशैलपत्तनाम् ।
तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि ॥ 38 ॥

यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रणष्टो भरतो भविष्यति ।
अतो हि संचिंतय राज्यमात्मजे परस्य चैवाद्य विवासकारणम् ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टमस्सर्गः ॥




Browse Related Categories: