View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.63 युद्धकांड - त्रिषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रिषष्टितमस्सर्गः ।

तस्यराक्षसराजस्यनिशम्यपरिदेवितम् ।
कुंभकर्णोबभाषेदंवचनंप्रजहास च ॥ 1 ॥

दृष्टो दोषो हि योऽस्माभिः पुरा मंत्रविनिर्णये ।
हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ॥ 2 ॥

शीघ्रंखल्वभ्युपेतंत्वांफलंपापस्यकर्मणः ।
निरयेष्वेवपतनंयथादुष्कृतकर्मणः ॥ 3 ॥

प्रथमंवैमहाराजकृत्यमेतदचिंतितम् ।
केवलंवीर्यदर्पेणनानुबंधोविचिंतितः ॥ 4 ॥

यःपश्चातूर्वकार्याणिकुर्यादैश्वर्यमास्थितः ।
पूर्वंचोत्तरकार्याणि न स वेदनयानया ॥ 5 ॥

देशकालविहीनानिकर्माणिविपरीतवत् ।
क्रियमाणानिदुष्यंतिहवींष्यप्रयतेष्विव ॥ 6 ॥

त्रयाणांपंचधायोगंकर्मणांयःप्रपश्यति ।
सचिवैस्समयंकृत्वा स सभ्येवर्ततेपथि ॥ 7 ॥

यथागमं च योराजासमयंविचिकीर्षति ।
बुध्यतेसचिवान्बध्यासुहृदश्चानुपश्यति ॥ 8 ॥

धर्ममर्थं च कामं च सर्वान्वारक्षसांपते ।
भजतेपुरुषःकालेत्रीणिद्वंद्वानिवापुनः ॥ 9 ॥

त्रिषुचैतेषुयच्छ्रेष्ठंश्रुत्वातन्नावबुध्यते ।
राजावाराजमात्रोवाव्यर्थंतस्यबहुश्रुतम् ॥ 10 ॥

उपप्रदानंसांत्वं च भेदंकाले च विक्रमम् ।
योगं च रक्षसांश्रेष्ठतावुभौ च नयानयौ ॥ 11 ॥

कालेधर्मार्थकामान्यस्सम्मंत्ऱ्यसचिवैःसह ।
निषेवेतात्मवान्लोके न स व्यसनमाप्नुयात् ॥ 12 ॥

हितानुबंधमालोच्यकार्यात्कार्यमिहात्मनः ।
राजासहार्थतत्त्वज्ञैस्सचिवैर्बुस्सहिजीवति ॥ 13 ॥

अनभिज्ञायशास्त्रार्थान् पुरुषाःपशुबुद्धयः ।
प्रागल्भ्याद्वक्तुमिच्छंतिमंत्रेष्वभ्यंतरीकृताः ॥ 14 ॥

अशास्त्रविदुषांतेषां न कार्यमभिहितंवचः ।
अर्थशास्त्रानभिज्ञानांविपुलांश्रियमिच्छताम् ॥ 15 ॥

अहितं च हिताकारंधार्ष्ट्याज्जल्पंतियेनराः ।
अवेक्ष्यमंत्रबाह्यास्तेकर्तव्याःकृत्यदूषणाः ॥ 16 ॥

विनाशयंतोभर्तारंसहिताश्शत्रुभिर्बुधैः ।
विपरीतानिकृत्यानिकारयंतीहमंत्रिणः ॥ 17 ॥

तान्भर्तामित्रसंकाशानमित्रान्मंत्रनिर्णये ।
व्यवहारेणजानीयात्सचिवानुपसम्हितान् ॥ 18 ॥

चपलस्येहकृत्यानिसहसानुप्रधावतः ।
छिद्रमन्येप्रपद्यंतेक्रौंचस्य ख मिवद्विजाः ॥ 19 ॥

योहिशत्रुमवज्ञायनात्मानमभिरक्षति ।
अवाप्नोतिहिसोऽनर्थान् स्थानाच्चव्यवरोप्यते ॥ 20 ॥

यदुक्तमिहतेपूर्वंक्रियतामनुजेन च ।
तदेवनोहितंवाक्यंयदिच्छसि च तत्कुरु ॥ 21 ॥

तत्तुश्रुत्वादशग्रीवःकुंभकर्णस्यभाषितम् ।
भ्रुकुटिंचैवसंचक्रेक्रुद्धश्चैनमभाषत ॥ 22 ॥

मान्योगुरुवारिचार्यःकिमांत्वमनुशाससि ।
किमेवंवाक्छ्रमंकृत्वाकालेयुक्तंविधीयताम् ॥ 23 ॥

विभ्रमाच्चित्तमोहाद्वाबलवीर्याश्रयेणवा ।
नाभिपन्नमिदानींयद्व्यर्थातस्यपुनःकथाः ॥ 24 ॥

अस्मिन्कालेतुयद्युक्तंतदिदानींविधीयताम् ।
गतंतुनानुशोचंतिगतंतुगतमेवहि ॥ 25 ॥

ममापनयजंदोषंविक्रमेणसमीकुरु ।
यदिखल्वस्तिमेस्नेहोविक्रमंवाऽवगच्छसि ॥ 26 ॥

यदिवकार्यंमेतत्तेहृदिकार्यतमंमतम् ।
स सुहृद्योविपन्नार्थंदीनमभ्यवपद्यते ॥ 27 ॥

स बंधुर्योऽपनीतेषुसाहाय्यायोपकल्पते ।
तमथैवंब्रुवाणंतुवचनंधीरदारुणम् ॥ 28 ॥

रुष्टोऽयमितिविज्ञायशनैश्श्लक्षणमुवाच ह ।
अतीवहिसमालक्ष्यभ्रातरंक्षुभितेंद्रियम् ॥ 29 ॥

कुंभकर्णश्शनैर्वाक्यंबभाषेपरिसांत्वयन् ।
शृणुराजन्नवहितोममवाक्यमरिंदम ॥ 30 ॥

अलंराक्षसराजेंद्र संतापमुपपद्यते ।
रोषं च संपरित्यज्यस्वस्थोभवितुमर्हसि ॥ 31 ॥

नैतन्मनसिकर्तव्यंमयिजीवतिपार्थिव ।
तमहंनाशयिष्यामियत्कृतेपरितप्यते ॥ 32 ॥

अवश्यंतुहितंवाच्यंसर्वावस्थांतवमया ।
बंधुभावादभिहितंभ्रातृस्नेहाच्छपार्थिव ॥ 33 ॥

सदृशंयत्तुकालेऽस्मिन् कर्तुंस्निग्धेनबंधुना ।
शत्रूणांकदनंपश्यक्रियमाणंमयारणे ॥ 34 ॥

अद्यपश्यमहाबाहो मयासमरमूर्धनि ।
हतेरामेसहभ्रात्राद्रवंतींहरिवाहिनीम् ॥ 35 ॥

अद्यरामस्यतद्दृष्टवामयानीतंरणाच्छिरः ।
सुखीभवमहाबाहो सीताभवतुदुःखिता ॥ 36 ॥

अद्यरामस्यपश्यंतुनिधनंसुमहत्प्रियम् ।
लंकायांराक्षसाःसर्वेयेतेनिहतबांधवाः ॥ 37 ॥

अद्यशोकपरीतानांस्वबंधुवधकारणात् ।
शत्रोर्युधिविनाशेनकरोम्यस्रप्रमार्जनम् ॥ 38 ॥

अद्यपर्वतसंकाशंससूर्यमिवतोयदम् ।
विकीर्णंपश्यसमरेसुग्रीवंप्लवगोत्तम ॥ 39 ॥

कथं च राक्षसैरेभिर्मया च परिरक्षितः ।
जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ॥ 40 ॥

मांनिहत्यकिलत्वांहिनिहनिष्यतिराघवः ।
नाहमात्मनिसंतापंगच्छेयंराक्षसाधिप ॥ 41 ॥

कामंवतिदानीमपिमांव्यादिशत्वंपरंतप ।
न परःप्रेषणीयस्तेयुद्धायातुलविक्रम ॥ 42 ॥

अहमुत्सादयिष्यामिशत्रूंस्तवमहाबलः ।
यदिशक्रोयदियमोयदिपावकमारुतौ ॥ 43 ॥

तानहंयोधयिष्यामिकुबेरवरुणावपि ।
गिरिमात्रशरीरस्यशितशूलधरस्यमे ॥ 44 ॥

नर्दतस्तीक्षणदंष्ट्रस्यबिभीयाच्चपुरंदरः ।
अथवात्यक्तशस्त्रस्यमृद्नतस्तरसारिपून् ॥ 45 ॥

न मेप्रतिमुखेस्थातुंकश्चित् शक्तोजिजीविषुः ।
नैवशक्त्या न गदयानासिनानिशितैश्शरैः ॥ 46 ॥

हस्ताभ्यामेवसम्रब्दोहनिष्याम्यपिवज्रिणम् ।
यदिमेमुष्टिवेगं स राघवोऽद्यसहिष्यते ॥ 47 ॥

ततःपाश्यंतिबाणौघारुधिरंराघवस्यतु ।
चिंतयाबाध्यसेराजन्किमर्थंमयितिष्ठति ॥ 48 ॥

सोऽहंशत्रुविनाशाय तव निर्यातुमुद्यतः ।
मुंचरामाद्भयंराज न्हनिष्यामीहसम्युगे ॥ 49 ॥

राघवंलक्ष्मणंचैवसुग्रीवं च महाबलम् ।
हनूमंतं च रक्षोघ्नंलंकायेनप्रदीपिता ॥ 50 ॥

हरींश्चापिहनियिष्यामिसंयुगेसमवास्थिवान् ।
असाधारणमिच्छामिनदातुंमहद्यशः ॥ 51 ॥

यदिचेंद्राद्भयं राजन्यदि चापि स्वयंभुवः ।
ततोऽहं नाशयिष्यामि नैशं तम इवांशुमान् ॥ 52 ॥

अपिदेवाश्शयिष्यंतेक्रुद्धेमयिमहीतले ।
यमं च शमयिष्यामिभक्षयिष्यामिपावकम् ॥ 53 ॥

आदित्यंपातयिष्यामिसनक्षत्रंमहीतले ।
शतक्रतुंवधिष्यामिपास्यामिवरुणालयम् ॥ 54 ॥

पर्वतांश्चूर्णयिष्यामिदारयिष्यामिमेदिनीम् ।
दीर्घकालंप्रसुप्तस्यकुंभकर्णस्यविक्रमम् ॥ 55 ॥

अद्यपश्यंतुभूतानिभक्ष्यमाणानिसर्वशः ।
नन्विदंत्रिदिवंसर्वमाहारस्य न पूर्यते ॥ 56 ॥

वधेनतेदाशरथेःसुखार्हंसुखंसमाहर्तुमहंव्रजामि ।
निहत्यरामंसहलक्ष्मणेनखादामिन्हरियूथमुख्यान् ॥ 57 ॥

रमस्वराजन् पिबचाद्यवारुणींकुरुष्वकृत्यानिविनीयतांम् ।
मयाद्यरामेगमितेयमक्ष्यंचिरायसीतावशगाति ॥ 58 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रिषष्टितमस्सर्गः ॥




Browse Related Categories: