View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.61 युद्धकांड - एकषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकषष्टितमस्सर्गः ।

ततोरामोमहातेजाधनुरादायवीर्यवान् ।
किरीटिनंमहाकायंकुंभकर्णंददर्श ह ॥ 1 ॥

तंदृष्टवाराक्षसश्रेष्ठंपर्वताकारदर्शनम् ।
क्रममाणमिवाकाशंपुरानारायणंप्रभुम् ॥ 2 ॥

सतोयांबुदसंकाशंकांचनांगदभूषणम् ।
दृष्टवापुनःप्रदुद्रवावानराणांमहाचमूः ॥ 3 ॥

विद्रुतांवाहिनींदृष्टवावर्धमानं च राक्षसम् ।
सविस्मयमिदंरामोविभीषणमुवाच ह ॥ 4 ॥

कोऽसौपर्वतसंकाशःकिरीटीहरिलोचनः ।
लंकायांदृश्यतेवीरःसविद्युदिवतोयदः ॥ 5 ॥

पृथिव्यांकेतुभूतोऽसौमहानेकोऽत्रदृश्यते ।
यंदृष्टवावानरास्सर्वेविद्रवंतिततस्ततः ॥ 6 ॥

आचक्षवसुमहान् कोऽसौरक्षोवायदिवाऽसुरः ।
न मयैवंविधंभूतंदृष्टपूर्वंकदाचन ॥ 7 ॥

संपृष्टोराजपुत्रेणरामेणाक्लिष्टकर्मणा ।
विभीषणोमहाप्राज्ञःकाकुत्थ्समिदमब्रवीत् ॥ 8 ॥

येनवैवस्वतोयुद्धेवासवश्चपराजितः ।
सैषविश्रवसःपुत्रःकुंभकर्णःप्रतापवान् ॥ 9 ॥

अस्यप्रमाणसदृशोराक्षसाऽन्यो न विद्यते ।
एतेनदेवायुधिदानवाश्चयक्षाभुजंगाःपिशिताशनाश्च ।
गंधर्वविद्याधरकिन्नरैश्चसहस्रशोराघवसंप्रभग्नाः ॥ 10 ॥

शूलपाणिंविरूपाक्षंकुंभकर्णंमहाबलम् ।
हंतुं न शेकुस्त्रिदशाःकालोऽयमितिमोहिताः ॥ 11 ॥

प्रकृत्याह्येषतेजस्वीकुंभकर्णोमहाबलः ।
अन्येषांराक्षसेंद्राणांवरदानकृतंबलम् ॥ 12 ॥

एतेनजातमात्रेणक्षुधार्तेनमहात्मना ।
भक्षितानिसहस्राणिसत्त्वानांसुबहून्यपि ॥ 13 ॥

तेषुसंभक्षयमाणेषुप्रजाभयनिपीडिताः ।
यांतिस्मशरणंशक्रंतमप्यर्थंन्यवेदयन् ॥ 14 ॥

सकुन्भकर्णंकुपितोमहेंद्रोजघानवज्रेणशितेनवज्री ।
सशक्रवज्राभिहतोमहात्माचचालकोपाच्चभृशंननाद ॥ 15 ॥

तस्यनानद्यमानस्यकुंभकर्णस्यरक्षसः ।
श्रुत्वानिनादंवित्रस्ताःभूमिभूयोवितत्रसे ॥ 16 ॥

तत्रकोपान्महेंद्रस्यकुंभकर्णोमहाबलः ।
विकृष्यैरावताद्धंतंजघानोरसिवासवम् ॥ 17 ॥

कुंभकर्णप्रहारार्तोविजज्वाल स वासवः ।
ततोविषेदुस्सहसादेवाब्रह्मर्षिदानवाः ॥ 18 ॥

प्रजाभिस्सहशक्रश्चययौस्थानंस्वयंभुवः ।
कुंभकर्णस्यदौरात्म्यंशशंसुस्तेप्रजापतेः ॥ 19 ॥

प्रजानांभक्षणंचापिधर्षणं च दिवौकसाम् ।
आश्रमध्वंसनंचापिपरस्त्रीहरणंभृशम् ॥ 20 ॥

एवंप्रजायदित्वेषभक्षयिष्यतिनित्यशः ।
अचिरेणैवकालेनशून्योलोकोभविष्यति ॥ 21 ॥

वासवस्यवचश्श्रुत्वासर्वलोकपितामहः ।
रक्षांस्यावाहयामासकुंभकर्णंददर्श ह ॥ 22 ॥

कुंभकर्णंसमीक्ष्यैववितत्रासप्रजापतिः ।
दृष्टवाविश्वास्यचैवैनंस्वयंभूरिदमब्रवीत् ॥ 23 ॥

ध्रुवंलोकविनाशायपौलस्त्येनासिनिर्मितः ।
तस्मात्त्वमद्यप्रभृतिमृतकल्पःशयिष्यसे ॥ 24 ॥

ब्रह्मशापाभिभूतोऽथनिपपाताग्रतःप्रभोः ।
ततःपरमसंभ्रांतोरावणोवाक्यमब्रवीत् ॥ 25 ॥

विवृद्धःकांचनोवृक्षःफलकालेनिकृत्यते ।
न नप्तारंस्वकंन्यायंशप्तुमेवंप्रजापते ॥ 26 ॥

न मिथ्यावचनश्चत्वंस्वप्स्यत्येष न संशयः ।
कालस्तुक्रियतामस्यशयनेजागरेतथा ॥ 27 ॥

रावणस्यवचश्श्रुत्वास्वयंभूरिदमब्रवीत् ।
शयिताह्येषषण्मासानेकाहंजागरिष्यति ॥ 28 ॥

एकेनाह्ना त्वसौ वीरश्च रन् भूमिं बुभुक्षितः ।
व्यात्तास्यो भक्षयेल्लोकान् सम्वृद्ध इव पावकः ॥ 29 ॥

सोऽसौव्यसमापन्नःकुंभकर्णमबोधयत् ।
त्वत्पराक्रमभीतश्चराजासंप्रतिरावणः ॥ 30 ॥

स एषनिर्गतोवीरःशिबिराद्भीमविक्रमः ।
वानरान्भृशसंकृद्धोभक्षयन्परिधावति ॥ 31 ॥

कुंभकर्णंसमीक्ष्यैवहरयोऽद्यप्रविद्रुतुः ।
कथमेनंरणेक्रुद्धंवारयिष्यंतिवानराः ॥ 32 ॥

उच्यंतांवानराःसर्वेयंत्रमेतत्समुच्छ्रितम् ।
इतिविज्ञायहरयोभविष्यंतीहनिर्भयाः ॥ 33 ॥

विभीषणवचश्श्रुत्वाहेतुमत्सुमुखेरितम् ।
उवाचराघवोवाक्यंनीलंसेनापतिंतदा ॥ 34 ॥

गच्छसैन्यानिसर्वाणिव्यूह्यतिष्ठस्वपावके ।
द्वाराण्यादायलंकायाश्चर्याश्चाप्यथसंक्रमान् ॥ 35 ॥

शैलशृंगाणिवृक्षांश्चशिलाश्चाप्युपसंहर ।
तिष्ठंतुसायुधास्सर्वेसायुधाश्शैलपाणयः ॥ 36 ॥

राघवेणसमादिष्टोनीलोहरिचमूपतिः ।
शशासवानरानीकंयथावत्कपिकुंजरः ॥ 37 ॥

ततोगवाक्षश्शरभोहनूमानंगदस्तथा ।
शैलशृंगाणिशैलाभागृहीत्वाद्वारमभ्ययुः ॥ 38 ॥

रामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।
पादपैरर्दयवनीरावानराःपरवाहिनीम् ॥ 39 ॥

ततोहरीणांतदनीकमुग्रंरराजशैलोद्यतदीप्तहस्तम् ।
गिरेःसमीपानुगतंयथैवहन्महांभोधरजालमुग्रम् ॥ 40 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकषष्टितमस्सर्गः ॥




Browse Related Categories: